🪷 अयोध्याकाण्ड · Sarga 7

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 7 · 36 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.7.1
जञातिदासी यतो जाता कैकेय्या तु सहोषिता ।प्रासादं चन्द्रसङ्काशमारुरोह यदृच्छया ॥२-७-१॥
Vālmīki 2.7.2
सिक्तराजपथां कृत्स्नां प्रकीर्णकुसुमोत्कराम् ।अयोध्यां मन्थरा तस्मात्प्रासादादन्ववैक्षत ॥२-७-२॥
Vālmīki 2.7.3
पताकाभिर्वरार्हाभिर्ध्वजैश्च समलङ्कृताम् ।वृतां चंदपथैश्चापि शिरःस्नातजनैर्वृताम् ॥२-७-३॥
Vālmīki 2.7.4
माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम् ।शुक्लदेवगृहद्वारां सर्ववादित्रनिस्वनाम्॥२-७-४॥
Vālmīki 2.7.5
संप्रहृष्टजनाकीर्णां ब्रह्मघोषाभिनादिताम् ।प्रहृष्टवरहस्त्यश्वां संप्रणर्धितगोवृशाम् ॥२-७-५॥
Vālmīki 2.7.6
प्रहृउष्टमुदितैः पौरैरुच्च्रि तद्वजमालिनीम् ।अयोध्यां वन्थरा तस्मात्प्रासादादन्ववैक्षत॥२-७-६॥
Vālmīki 2.7.7
प्रहर्षोत्फुल्लनयनां पाण्डुरक्षौमवासिनीम् ।अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा ॥२-७-७॥
Vālmīki 2.7.8
उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती ।राममाता धनं किं नु जनेभ्यः संप्रयच्छति ॥२-७-८॥
Vālmīki 2.7.9
अतिमात्रप्रहर्षोऽयं किं जनस्य च शंस मे ।कारयिष्यति किं वापि संप्रहृष्टो महीपतिः ॥२-७-९॥
Vālmīki 2.7.10
विदीर्यमाणा हर्षेण धात्री तु परया मुदा ।आच्च्क्षे/अथ कुब्जायै भूयसीं राघवश्रियम् ॥२-७-१०॥
Vālmīki 2.7.11
श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम् ।राजा दशरथो राममभिषेचयितानघम् ॥२-७-११॥
Vālmīki 2.7.12
धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता ।कैलासशिखराकारात्प्रासादादवरोहत ॥२-७-१२॥
Vālmīki 2.7.13
सा दह्यमाना कोपेन मनथरा पापदर्शिनी ।शयानामेत्य कैकेयीमिदं वचन मब्रवीत् ॥२-७-१३॥
Vālmīki 2.7.14
उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते ।उपप्लुतमघौघेन किमात्मानं न बुध्यसे ॥२-७-१४॥
Vālmīki 2.7.15
अनिष्टे सुभगाकारे सौभग्येन विकत्थसे ।चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे ॥२-७-१५॥
Vālmīki 2.7.16
एवमुक्ता तु कैकेयी रुष्टया परुषं वचः ।कुब्जया पापदर्शिन्या विषादमगमत्परम् ॥२-७-१६॥
Vālmīki 2.7.17
कैकेयि त्वब्रवीत्कुभां कच्चित्क्षेमं न मनथरे ।विषण्णवदनां हि त्वां लक्षये भृ शदुःखिताम् ॥२-७-१७॥
Vālmīki 2.7.18
मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम् ।उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा ॥२-७-१८॥
Vālmīki 2.7.19
सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी ।विषदयन्ती प्रोवाच भेदयन्ती च राघवम् ॥२-७-१९॥
Vālmīki 2.7.20
अक्षय्यं सुमहद्देवि प्रवृत्तं द्वद्विनाशनम् ।रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति ॥२-७-२०॥
Vālmīki 2.7.21
सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता ।दह्यमानाऽ नलेनेव त्वद्धितार्थमिहागता ॥२-७-२१॥
Vālmīki 2.7.22
तव दुःखेन कैकेयि मम दुःखं महद्भवेत् ।त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र न संशयः ॥२-७-२२॥
Vālmīki 2.7.23
नराधिपकुले जाता महिषी त्वं महीपतेः ।उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे ॥२-७-२३॥
Vālmīki 2.7.24
धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः ।शुद्धभावे न जानीषे तेनैवमतिसन्धिता ॥२-७-२४॥
Vālmīki 2.7.25
उपस्थितं पयुञ्जानस्त्वयि सान्त्वमनर्थकम् ।अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति ॥२-७-२५॥
Vālmīki 2.7.26
अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु ।काल्यं स्थापयिता रामं राज्ये निहतकण्टके ॥२-७-२६॥
Vālmīki 2.7.27
शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया ।आशीविष इवाङ्केन बाले परिधृतस्त्वया ॥२-७-२७॥
Vālmīki 2.7.28
यथा हि कुर्यात्सर्पो वा शत्रुर्वा प्रत्युपेक्षितः ।राजञा दशरथेनाद्य सपुत्रा त्वं तथा कृता ॥२-७-२८॥
Vālmīki 2.7.29
पापेनानृतसान्त्वेन बाले नित्यं सुखोचिते ।रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि ॥२-७-२९॥
Vālmīki 2.7.30
सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव ।त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने ॥२-७-३०॥
Vālmīki 2.7.31
मन्थराया वचः श्रुत्वा शयनात्स शुभानना ।उत्तस्थौ हर्षसंपूर्णा चन्द्रलेखव शारदी ॥२-७-३१॥
Vālmīki 2.7.32
अतीव सा तु संहृष्टाअ कैकेयी विस्मयान्विता ।एकमाभरणं तस्यै कुब्जायै प्रददौ शुभम् ॥२-७-३२॥
Vālmīki 2.7.33
दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा ।कैकेयी मन्थरां हृष्टा पुनरेवाब्रवीदिदम् ॥२-७-३३॥
Vālmīki 2.7.34
इदं तु मन्थरे मह्यमाख्यासि परमं प्रियम् ।एतन्मे प्रियमाख्यातुः किं वा भूयः करोमि ते ॥२-७-३४॥
Vālmīki 2.7.35
रामे वा भरते वाहं विशेषं नोपलक्षये ।तस्मात्तुष्टास्मि यद्राजा रामं राज्येऽभिषेक्ष्यति ॥२-७-३५॥
Vālmīki 2.7.36
न मे परं किञ्चि दितस्त्वयापि न ।प्रियं प्रियार्हे सुवचं वचो वरम् ।तथा ह्यवोचस्त्वमतः प्रियोत्तरं ।वरं वरं ते प्रददामि तं वृणु ॥२-७-३६॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷