🪷 अयोध्याकाण्ड · Sarga 6

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 6 · 28 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.6.1
गते पुरोहिते रामः स्नातो नियतमानसः ।सह पत्न्या विशालाक्ष्या नारायणमुपागमत् ॥२-६-१॥
Vālmīki 2.6.2
प्रगृह्य शिरसा पात्रं हविषो विधिवत्तदा ।महते दैवतायाज्यं जुहाव ज्वलितानले ॥२-६-२॥
Vālmīki 2.6.3
शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम् ।ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे ॥२-६-३॥
Vālmīki 2.6.4
वाग्यतः सह वैदेह्या भूत्वा नियतमानसः ।श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ॥२-६-४॥
Vālmīki 2.6.5
एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः ।अलञ्कारविधिं कृत्स्नं कारयामास वेश्मनः ॥२-६-५॥
Vālmīki 2.6.6
तत्र शृण्वन् सुखा वाचः सूतमागधवन्दिनाम् ।पूर्वां सन्ध्यामुपासीनो जजाप यतमानसः ॥२-६-६॥
Vālmīki 2.6.7
तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम् ।विमलक्षौमसंवीतो वाचयामास च द्विजान् ॥२-६-७॥
Vālmīki 2.6.8
तेषां पुण्याहघोषोऽध गम्भीरमधुरस्तदा ।अयोध्यां पूरयामास तूर्यघोषानुनादितः ॥२-६-८॥
Vālmīki 2.6.9
कृतोपवासं तु तदा वैदेह्या सह राघवम् ।अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः ॥२-६-९॥
Vālmīki 2.6.10
ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम् ।प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम् ॥२-६-१०॥
Vālmīki 2.6.11
सिताभ्रशिखराभेषु देवतायतनेषु च ।चतुष्पधेषु रध्यासु चैत्येष्वट्टाल केषु च ॥२-६-११॥
Vālmīki 2.6.12
नानापण्यसमृद्धेषु वणिजामापणेषु च ।कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च ॥२-६-१२॥
Vālmīki 2.6.13
सभासु चैव सर्वासु वृक्षेष्वालक्षितेएशु च ।ध्वजाः समुच्छ्रिताश्चित्राः पताकाश्चाभवंस्तदा ॥२-६-१३॥
Vālmīki 2.6.14
नटनर्तकसंघानां गायकानां च गायताम् ।मनःकर्णसुखा वाचः शुश्रुवुश्च ततस्ततः ॥२-६-१४॥
Vālmīki 2.6.15
रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः ।रामाभिषेके संप्रप्ते चत्वरेषु गृहेषु च ॥२-६-१५॥
Vālmīki 2.6.16
बाला अपि क्रीडमाना गृ हद्वारेषु संघशः ।रामाभिषवसंयुक्ताश्चक्रुरेवं मिथः कथाः ॥२-६-१६॥
Vālmīki 2.6.17
कृतपुष्पोपहारश्च धूपगन्धाधिवासितः ।राजमार्गः कृतः श्रीमान् पौरै रामाभिषेचने ॥२-६-१७॥
Vālmīki 2.6.18
प्रकाशकरणार्धं च निशागमनशञ्कया ।दीपवृक्षां स्तथाचक्रु रनुर्थ्यसु सर्वशः ॥२-६-१८॥
Vālmīki 2.6.19
अलङ्कारं पुरस्त्यवं कृत्वा तत्पुरवासिनः ।आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम् ॥२-६-१९॥
Vālmīki 2.6.20
समेत्य संघशः सर्वे चत्वरेषु सभासु च ।कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम् ॥२-६-२०॥
Vālmīki 2.6.21
अहोओ महात्मा राजायमिक्ष्वाकुकुलनन्दनः ।ज्ञात्वा यो वृद्ध मात्मानं रामं राज्येऽभिषेक्ष्यति ॥२-६-२१॥
Vālmīki 2.6.22
सर्वेऽप्यनुगृहीताः स्म यन्नो रामो महीपतिः ।चिराय भविता गोप्ता दृष्टलोकपरावरः ॥२-६-२२॥
Vālmīki 2.6.23
आनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः ।यधा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः ॥२-६-२३॥
Vālmīki 2.6.24
चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः ।यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् ॥२-६-२४॥
Vālmīki 2.6.25
एवंविधं कथयतां पौराणां शुश्रुवुस्तदा ।दिग्भ्योऽपि श्रुतवृत्तान्ताः प्राप्ताजानपदा नराः ॥२-६-२५॥
Vālmīki 2.6.26
ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम् ।रामस्य पूरयामासुः पुरीं जानपदा जनाः ॥२-६-२६॥
Vālmīki 2.6.27
जनौघै स्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः ।पर्वसूदीर्णवेगस्य सागरस्येव निस्वनः ॥२-६-२७॥
Vālmīki 2.6.28
ततस्तदिन्द्रक्षयसन्निभं पुरं ।दिदृक्षुभिर्जानपदै रुपागतैः ।समन्ततः सस्वनमाकुलं बभौ ।समुद्रयादोभि रिवार्णवोदकम् ॥२-६-२८॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷