🪷 अयोध्याकाण्ड · Sarga 5
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 5 · 26 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
सन्दिश्य रामं नृपतिः श्वोभाविन्यभिषेचने ।पुरोहितं समाहूय वसिष्ठमिदमब्रवीत् ॥२-५-१॥
गच्छोपवासं काकुत्थ्सं कारयाद्य तपोधन ।श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम् ॥२-५-२॥
तथेति च स राजानमुक्त्वा वेदविदां वरः ।स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम् ॥२-५-३॥
उपवासयितुं रामं मन्त्रवन्मन्त्रकोविदः ।ब्राह्मं रथवरं युक्तमास्थाय सुदृधव्रतः ॥२-५-४॥
स रामभवनं प्रप्य पाण्डुराभ्रघनप्रभम् ।तिस्रः कक्ष्या र्थेनैव विवेश मुनिसत्तमः ॥२-५-५॥
तमागतमृषिं रामस्त्वरन्निव ससंभ्रमः ।मानयिष्यन् स मानार्हं निश्चक्राम निवेशनात् ॥२-५-६॥
अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणः ।ततोऽवतारयामास परिगृह्य रथात्स्वयम् ॥२-५-७॥
सचैनं प्रश्रितं दृष्ट्वा सं भाष्याभिप्रसाद्य च ।प्रियार्हं हर्षयन् राममित्युवाच पुरोहितः ॥२-५-८॥
प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि ।उपवासं भवानद्य करोतु सह सीतया ॥२-५-९॥
प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः ।पिता दशरथः प्रीत्या ययातिं नहुषो यथा ॥२-५-१०॥
इत्युक्त्वा स तदा राम मुपवासं यतव्रतम् ।मन्त्रवत् कारयामास वैदेह्या सहितं मुनिः ॥२-५-११॥
ततो यथावद्रामेण स राज्ञो गुरुरर्चितः ।अभ्यनुज्ञाप्य काकुत्थ्सं ययौ रामनिवेशनात् ॥२-५-१२॥
सुहृद्भिस्तत्र रामोऽपि सहासीनः प्रियंवदैः ।सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः ॥२-५-१३॥
हृष्टनारीनरयुतं रामवेश्म तदा बबौ ।यथा मत्तद्विजगणं प्रपुल्लनलिनं सरः ॥२-५-१४॥
स राजभवनप्रख्यात्तस्माद्रामनिवेशनात् ।निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम् ॥२-५-१५॥
बृन्दबृन्दैरयोध्यायां राजमार्गाः समन्ततः ।बभूवुरभिसंबाधाः कुतूहलजनैर्वृताः ॥२-५-१६॥
जनबृन्दोर्मिसंघर्षहर्षस्वनवतस्तदा ।बभूव राजमार्गस्य सागरस्येव निस्वनः ॥२-५-१७॥
सिक्तसंमृष्टरथ्या हि तदहर्वनमालिनी ।आसीदयोध्या नगरी समुच्छ्रितगृहध्वजा ॥२-५-१८॥
तदा ह्ययोध्यानिलयः सस्त्रीबालाबलो जनः ।रामाभिषेकमाकाञ्क्षन्नाकाण्क्षदुदयं रवेः ॥२-५-१९॥
प्रजालङ्कारभूतं च जनस्यानन्दवर्धनम् ।उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्यामहोत्सवम् ॥२-५-२०॥
एवं तं जनसंबाधं राजमार्गं पुरोहितः ।व्यूहन्निव जनौघं तं शनैराजकुलं ययौ ॥२-५-२१॥
सिताभ्रशिखरप्रख्यं प्रासादमधिरुह्य सः ।समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः ॥२-५-२२॥
तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः ।पप्रच्छ स च तस्मै तत्कृतमित्यभ्यवेदयत् ॥२-५-२३॥
तेन चैव तदा तुल्यं सहासीनाः सभासदः ।आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम् ॥२-५-२४॥
गुरुणा त्वभ्यनुज्ञातो मनिजौघं विसृज्य तम् ।विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव ॥२-५-२५॥
तमग्र्यवेष्प्रमदाजनाकुलं ।महेन्द्रवेश्मप्रतिमं निवेशनम् ।विदीपयंश्चारु विवेश पार्थिवः ।शशीव तारागणसंकुलं नभः ॥२-५-२६॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 4
- Next: Ayodhyā-Kāṇḍa Sarga 6 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷