🪷 अयोध्याकाण्ड · Sarga 4
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 4 · 45 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः ।मन्त्रयुत्वा ततश्चक्रे निश्चयज्ञः स निश्चयम् ॥२-४-१॥
श्व एव पुष्यो भविता श्वोऽभिषेच्यस्तु मे सुतः ।रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः ॥२-४-२॥
अथान्तर्गृहमासाद्य राजा दशरथस्तदा ।सूतमामन्त्रयामास रामं पुनरिहानय ॥२-४-३॥
प्रतिगृह्य स तद्वाक्यं सूतः पुनरुपाययौ ।रामस्य भवनं शीघ्रं राममानयितुं पुनः ॥२-४-४॥
द्वाःस्थैरावेदितं तस्य रामायागमनं पुनः ।श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत् ॥२-४-५॥
प्रवेश्य चैनं त्वरितं रामो वचन मब्रवीत् ।यदागमनकृत्यं ते भूयस्तद्भ्रुह्यशेषतः ॥२-४-६॥
तमुवाच ततः सूतो राजा त्वां द्रष्टु मिच्छति ।श्रुत्वा प्रमाणमत्र त्वं गमनायेतराय वा ॥२-४-७॥
इति सूतवचः श्रुत्वा रामोऽथ त्वरयान्वितः ।प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम् ॥२-४-८॥
तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः ।प्रवेश्यामास गृहं विवक्षुः प्रियमुत्तमम् ॥२-४-९॥
प्रविश्न्नेप च श्रीमान् राघवो भवनं पितुः ।ददर्श पितरं दूरात् प्रणिपत्य कृताञ्ज्लिः ॥२-४-१०॥
प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः ।प्रदिश्य चास्मै रुचिरमासनं पुनरब्रवीत् ॥२-४-११॥
राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा मयेप्सिताः ।अन्न्वद्भिः क्रतुश्तैस्तथेष्टं भूरिदक्षिणैः ॥२-४-१२॥
जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि ।दत्तमिष्टमधीतं च मया पुरुषसत्तम ॥२-४-१३॥
अनुभूतानि चेष्टानि मया वीर सुखान्यपि ।देवर्षिपितृविप्राणामनृणोऽस्मि तथात्मनः ॥२-४-१४॥
न किञ्चिन्म कर्तव्यं तवान्यत्राभिषेचनात् ।अतो युत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि ॥२-४-१५॥
अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम् ।अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक ॥२-४-१६॥
अपि चाद्याशुभान् राम स्वप्ने प्श्यामि दारुणान् ।सनिर्घाता दिवोल्का च परतीह महास्वना ॥२-४-१७॥
अवष्टब्धं च मे राम नक्षत्रं दारुणैर्ग्रहैः ।आवेदयन्ति दैवज्ञावः सूर्याङ्गारकराहुभिः ॥२-४-१८॥
प्रायेण हि निमित्तानामीदृशानां समुद्भवे ।राजा हि मृत्युमाप्नोति घोरं वापदमृच्छति ॥२-४-१९॥
तद्यावदेव मे चेतो न विमुञ्चति राघव ।तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः ॥२-४-२०॥
अद्य चन्द्रोभ्युपगतः पुष्यात्पूर्वं पुनर्वसू ।श्वः पुष्ययोगं नियतं वक्ष्यन्ते दैवचिन्तकाः ॥२-४-२१॥
ततः पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम् ।श्वस्त्वाहमभिषेक्ष्यामि यौवराज्ये परंतप ॥२-४-२२॥
तस्मात्त्वयादप्रभृति निशेयं नियतात्मना ।सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना ॥२-४-२३॥
सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः ।भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि ॥२-४-२४॥
विप्रोषितश्च भरतो यावदेव पुरादितः ।तावदेवाभिषेकस्ते प्राप्तकालो मतो मम ॥२-४-२५॥
कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः ।ज्येष्ठनुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः ॥२-४-२६॥
किन्तु चित्तं मनुष्याणामनित्यमिति मे मतिः ।सतां च धर्मनित्यानां कृतशोभि च राघव ॥२-४-२७॥
इत्युक्तः सोओऽभ्यनुज्ञातः श्वोभाविन्यभिषेचने ।व्रजेति रामः पितरमभिवाद्याभ्ययाद्गृहम् ॥२-४-२८॥
प्रविश्य चात्मनो वेश्म राज्ञोद्धिष्टेऽभिषेचने ।तत्क्षणेन च निर्गम्य मातुर्न्तःपुरं ययौ ॥२-४-२९॥
तत्र तां प्रवणामेव मातरं क्षौमवासिनीम् ।वाग्यतां देवतागारे ददर्शायाचतीं श्रियम् ॥२-४-३०॥
प्रागेव चागता तत्र सुमित्रा लक्ष्मण स्तदा ।सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम् ॥२-४-३१॥
तस्मिन् काले हि कौसल्या तस्थावामीलितेक्षणा ।सुमित्रयान्वास्यमाना सीतया लक्ष्मणेन च ॥२-४-३२॥
श्रुत्वा पुष्येण पुत्रस्य यौवराज्याभिषेचनम् ।प्राणायामेन पुरुषं ध्यायमाना जनार्दनम् ॥२-४-३३॥
तथा सनियमामेव सोऽभिगम्याभिवाद्य च ।उवाच वचनं रामो हर्ष्यंस्तामिदं तदा ॥२-४-३४॥
अम्ब पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि ।भविता श्वोऽभिषेको मे यथा मि शासनं पितुः ॥२-४-३५॥
सीतया प्युपवस्तव्या रजनीयं मया सह ।एवमृत्विगुपाध्यायैस्सह मामुक्तवान् पिता ॥२-४-३६॥
यानि यान्यत्र योग्यानि श्वो भाविन्यभिषेचने ।तानि मे मङ्गLआन्यद्य वैदेह्याश्चैव कारय ॥२-४-३७॥
एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकाङ्क्षितम् ।हर्ष्बाष्पकलं वाक्यमिदं राम मभाषत ॥२-४-३८॥
वत्स राम चिरं जीव हतास्ते परिपन्थिनः ।ज्ञातीन्मे त्वं श्रियायुक्तः सुमित्रायाश्च नन्दय ॥२-४-३९॥
कल्याणे बत न्क्षत्रे मयि जातोऽसि पुत्रक ।येन त्वया दशरथो गुणैराराधितः पिता ॥२-४-४०॥
अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे ।येयमिक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति ॥२-४-४१॥
इत्येवमुक्तो मात्रेदं रामो भ्रातरमब्रवीत् ।प्राञ्जलिं प्रह्वमासीनमभिवीख्स्य स्मयन्निव ॥२-४-४२॥
लक्ष्मणेमां माया सार्धं प्रशाधि त्वं वसुन्धराम् ।द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता ॥२-४-४३॥
सौमित्रे भुङ्क्ष्व भोगां स्त्वमिष्टान् राज्यफलानि च ।जीवितं च हि राज्यं च त्वदर्थमभिकामये ॥२-४-४४॥
इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च ।अभ्यनुज्ञाप्य सीतां च जगाम स्वं निवेश्नम् ॥२-४-४५॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 3
- Next: Ayodhyā-Kāṇḍa Sarga 5 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷