🪷 अयोध्याकाण्ड · Sarga 3

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 3 · 49 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.3.1
तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः ।प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः ॥२-३-१॥
Vālmīki 2.3.2
अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम ।यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थ मिच्छथ ॥२-३-२॥
Vālmīki 2.3.3
इति प्रत्यर्च्य तान् राजा ब्राह्मणानिद मब्रवीत् ।वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम् ॥२-३-३॥
Vālmīki 2.3.4
चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः ।यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् ॥२-३-४॥
Vālmīki 2.3.5
राज्ञस्तूपरते वाक्ये जनघोषो महानभूत् ।शनैस्तस्मिन् प्रशान्ते च जनघोषे जनाधिपः ॥२-३-५॥
Vālmīki 2.3.6
वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत् ।अभिषेकाय रामस्य यत्कर्म सपरिच्छदम् ॥२-३-६॥
Vālmīki 2.3.7
तदद्य भगवन् सर्वमाज्ञापयितु मर्हसि ।तच्छ्रुत्वा भूमिपालस्य वसिष्ठो द्विजसत्तमः ॥२-३-७॥
Vālmīki 2.3.8
आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन् ।सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि ॥२-३-८॥
Vālmīki 2.3.9
शुक्लमाल्यांश्च लाजांश्च पृथक्च मधुसर्पिषी ।अहतानि च वासांसि रथं सर्वायुधान्यपि ॥२-३-९॥
Vālmīki 2.3.10
चतुरङ्गबलं चैव गजं च शुभलक्षणम् ।चामरव्यजने श्वेते ध्वजं छत्रं च पाण्डुरम् ॥२-३-१०॥
Vālmīki 2.3.11
शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम् ।हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च ॥२-३-११॥
Vālmīki 2.3.12
उपस्थापयत प्रातरग्न्यगारं महीपतेः ।यच्चान्यत्किञ्चिदेष्टव्यं तत्सर्वमुपकल्प्यताम् ॥२-३-१२॥
Vālmīki 2.3.13
अस्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च ।चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः ॥२-३-१३॥
Vālmīki 2.3.14
प्रशस्तमन्नं गुणवद्धधिक्षीरोपसेचनम् ।द्विजानां शतसाहस्रे यत्प्रकाममलं भवेत् ॥२-३-१४॥
Vālmīki 2.3.15
सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम् ।घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः ॥२-३-१५॥
Vālmīki 2.3.16
सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम् ।ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च ॥२-३-१६॥
Vālmīki 2.3.17
आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम् ।सर्वे च ताLआवचरा गणिकाश्च स्वलंकृताः ॥२-३-१७॥
Vālmīki 2.3.18
कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः ।देवायतनचैत्येषु सान्नभक्षाः सदक्षिणाः ॥२-३-१८॥
Vālmīki 2.3.19
उपस्थापयितव्याः स्युर्माल्ययोग्याः पृथक् पृथक् ।दीर्घासिबद्धा योधाश्च सन्नद्धा मृष्टवाससः ॥२-३-१९॥
Vālmīki 2.3.20
महाराजाङ्गणं सर्वे प्रविशन्तु महोदयम् ।एवं व्यादिश्य विप्रौ तौ क्रियास्तत्र सुनिष्ठितौ ॥२-३-२०॥
Vālmīki 2.3.21
चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च ।कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम् ॥२-३-२१॥
Vālmīki 2.3.22
यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ ।ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत् ॥२-३-२२॥
Vālmīki 2.3.23
रामः कृतात्मा भवता शीघ्रमानीयतामिति ।स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात् ॥२-३-२३॥
Vālmīki 2.3.24
रामं तत्रानयांचक्रे रथेन रथिनां वरम् ।अथ तत्र समासीनास्तदा दशरथं नृपम् ॥२-३-२४॥
Vālmīki 2.3.25
प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः ।म्लेच्छाश्चार्याश्च ये चान्ये वने शैलान्तवासिनः ॥२-३-२५॥
Vālmīki 2.3.26
उपासाञ्चक्रिरे सर्वे तं देवा इव वासवम् ।तेषां मध्ये स राजर्षिर्मरुतामिव वासवः ॥२-३-२६॥
Vālmīki 2.3.27
प्रासादस्थो रथगतं ददर्शायान्त मात्मजम् ।गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् ॥२-३-२७॥
Vālmīki 2.3.28
दीर्घ बाहुं महसत्त्वं मत्तमातङ्गगामिनम् ।चन्द्रकान्ताननं राममतीव प्रियदर्शनम् ॥२-३-२८॥
Vālmīki 2.3.29
रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् ।घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः ॥२-३-२९॥
Vālmīki 2.3.30
न ततर्प समायान्तं पश्यमानो नराधिपः ।अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात् ॥२-३-३०॥
Vālmīki 2.3.31
पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात् ।स तं कैलासशृङ्गाभं प्रासादं नरपुङ्गवः ॥२-३-३१॥
Vālmīki 2.3.32
आरुरोह नृपं द्रष्टुं सह सूतेन राघवः ।स प्राञ्^जलिरभिप्रेत्य प्रणतः पितुरन्तिके ॥२-३-३२॥
Vālmīki 2.3.33
नाम स्वं श्रावयन् रामो ववन्धे चरणौ पितुः ।तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः ॥२-३-३३॥
Vālmīki 2.3.34
गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम् ।तस्मै चाभ्युदितं दिव्यं मणिकाञ्चनभूषितं ॥२-३-३४॥
Vālmīki 2.3.35
दिदेश राजा रुचिरं रामाय परमासनम् ।तदासनवरं प्राप्य व्यदीपयत राघवः ॥२-३-३५॥
Vālmīki 2.3.36
स्वयेव प्रभया मेरुमुदये विमलो रविः ।तेन विभ्राजता तत्र सा सभाभिव्यरोचत ॥२-३-३६॥
Vālmīki 2.3.37
विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना ।तं पश्यमानो नृपति स्तुतोओष प्रियमात्मजम् ॥२-३-३७॥
Vālmīki 2.3.38
अलङ्कृतमिवात्मानमादर्शतलसंस्थितम् ।स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः ॥२-३-३८॥
Vālmīki 2.3.39
उवाचेदं वचो राजा देवेन्द्रमिव काश्यपः ।ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः ॥२-३-३९॥
Vālmīki 2.3.40
उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः ।यतस्त्वया प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः ॥२-३-४०॥
Vālmīki 2.3.41
तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि ।कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि ॥२-३-४१॥
Vālmīki 2.3.42
गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम् ।भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः ॥२-३-४२॥
Vālmīki 2.3.43
कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च ।परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा ॥२-३-४३॥
Vālmīki 2.3.44
अमात्यप्रभृतीः सर्वाः प्रकृतीश्चानुरञ्जय ।कोष्ठागारायुधागारैः कृत्वा सन्नि चयान् बहून् ॥२-३-४४॥
Vālmīki 2.3.45
तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम् ।तस्य नन्दन्ति मित्राणि लब्ध्वाऽमृतमिवाऽमराः ॥२-३-४५॥
Vālmīki 2.3.46
तस्मात्त्वमपि चात्मानं नियम्यैवं समाचर ।तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः ॥२-३-४६॥
Vālmīki 2.3.47
त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन् ।सा हिरण्यं च गाश्चैव रत्नानि विविधानि च ॥२-३-४७॥
Vālmīki 2.3.48
व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा ।अथाभिवाद्य राजानं रथमारुह्य राघवः ॥२-३-४८॥
Vālmīki 2.3.49
ययौ स्वं द्युतिमद्वेश्म जनौघैः प्रतिपूजितः ।ते चापि पौरा नृपतेर्वचस्त ।च्छ्रुत्वा तदा लाभमिवेष्टमाशु ।नरेन्द्रमामन्त्र्य गृहाणि गत्वा ।देवान् समानर्चुरतिप्रहृष्टाः ॥२-३-४९॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷