🪷 अयोध्याकाण्ड · Sarga 2

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 2 · 54 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.2.1
ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः ।हितमुद्धर्षणं चैवमुवाच प्रथितं वचः ॥२-२-१॥
Vālmīki 2.2.2
दुन्धुभिस्वनकल्पेन गम्भीरेणानुनादिना ।स्वरेण महता राजा जीमूत इव नादयन् ॥२-२-२॥
Vālmīki 2.2.3
राजलक्षणयुक्तेन कान्तेनानुपमेन च ।उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान् ॥२-२-३॥
Vālmīki 2.2.4
विदितं भवतामेतद्यथा मे राज्यमुत्तमम् ।पूर्वकैर्मम राजेन्द्रैस्सुतवत् परिपालितम् ॥२-२-४॥
Vālmīki 2.2.5
सोऽहमिक्ष्ह्वाकुभिः सर्वैर्नरेन्द्रैः परिपालितम् ।श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत् ॥२-२-५॥
Vālmīki 2.2.6
मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता ।प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः ॥२-२-६॥
Vālmīki 2.2.7
इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् ।पाण्दुरस्यातपत्रस्य च्छायायां जरितं मया ॥२-२-७॥
Vālmīki 2.2.8
प्राप्य वर्षसहस्राणि बहू न्यायूंषि जीवतः ।जीर्णस्यास्य शरीरस्य विश्रान्ति मभिरोचये ॥२-२-८॥
Vālmīki 2.2.9
राजप्रभावजुष्टाम् हि दुर्वहामजितेन्द्रियैः ।परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् ॥२-२-९॥
Vālmīki 2.2.10
सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते ।सन्निकृष्टानिमान् सर्वाननुमान्य द्विजर्षभान् ॥२-२-१०॥
Vālmīki 2.2.11
अनुजातो हि मां सर्वैर्गुणैर्ज्येष्ठो ममात्मजः ।पुरन्दरसमो वीर्ये रामः परपुरंजयः ॥२-२-११॥
Vālmīki 2.2.12
तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम् ।यौवराज्ये नियोक्तास्मि प्रीतः पुरुषपुङ्गवम् ॥२-२-१२॥
Vālmīki 2.2.13
अनुरूपः स वै नाथो लक्ष्मीवान् लक्ष्मणाग्रजः ।त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् ॥२-२-१३॥
Vālmīki 2.2.14
अनेन श्रेयसा सद्यः सम्योज्यैवमिमां महीम् ।गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै ॥२-२-१४॥
Vālmīki 2.2.15
यदीदम् मेऽनुरूपार्धं मया साधु सुमन्त्रितम् ।भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम् ॥२-२-१५॥
Vālmīki 2.2.16
यद्यप्येषा मम प्रीतिर्हितमन्यद्विचिन्त्यताम् ।अन्या मद्यस्थचिन्ता हि विमर्दाभ्यधिकोदया ॥२-२-१६॥
Vālmīki 2.2.17
इति बृवन्तं मुदिताः प्रत्यनन्दन् नृपा नृपम् ।वृष्तिमन्तं महामेघं नर्दन्त इव बर्हिणः ॥२-२-१७॥
Vālmīki 2.2.18
स्निग्धोऽनुनादी सम्जजञे तत्र हर्षसमीरितः ।जनौघोद्घुष्टसन्नादो विमानं कम्पयन्निव ॥२-२-१८॥
Vālmīki 2.2.19
तस्य धर्मार्थविदुषो भावमाजञाय सर्वशः ।ब्राह्मणा जनमुख्याश्च पौरजानपदैः सह ॥२-२-१९॥
Vālmīki 2.2.20
समेत्य मन्त्रयित्वा तु समतागतबुद्धयः ।ऊचुश्च मनसा जञात्वा वृद्धं दशरथं नृपम् ॥२-२-२०॥
Vālmīki 2.2.21
अनेकवर्षसाहस्रो वृद्धस्त्त्वमसि पार्थिव ।स रामं युवराजानमभिषिञ्चस्व पार्थिवम् ॥२-२-२१॥
Vālmīki 2.2.22
इच्छामो हि महाबाहुं रघुवीरं महाबलम् ।गजेन महता यान्तं रामं छत्रावृताननम् ॥२-२-२२॥
Vālmīki 2.2.23
इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम् ।अजानन्निव जिजञासुरिदं वचनमब्रवीत् ॥२-२-२३॥
Vālmīki 2.2.24
श्रुत्वैव वचनं यन्मे राघवं पतिमिच्छथ ।राजानः संशयोऽयं मे तदिदं ब्रूत तत्त्वतः ॥२-२-२४॥
Vālmīki 2.2.25
कथं नु मयि धर्मेण पृथिवीमनुशासति ।भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम् ॥२-२-२५॥
Vālmīki 2.2.26
ते तमूचुर्महात्मानं पौरजानपदैः सह ।बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते ॥२-२-२६॥
Vālmīki 2.2.27
गुणान् गुणवतो देव देवकल्पस्य धीमतः ।प्रियानानन्ददान् कृत्स्नान् प्रवक्ष्यामोऽद्यतान् शृणु ॥२-२-२७॥
Vālmīki 2.2.28
दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः ।इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशांपते ॥२-२-२८॥
Vālmīki 2.2.29
रामः सत्पुरुषो लोके सत्यधर्मपरायणः ।साक्ष्हाद्रामाद्विनिर्वृत्तो धर्मश्चापि श्रिया सह ॥२-२-२९॥
Vālmīki 2.2.30
प्रजासुखत्वे चन्द्रस्य वसुधायाः क्ष्हमागुणैः ।बुध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः ॥२-२-३०॥
Vālmīki 2.2.31
धर्मजजञः सत्यसन्धश्च शीलवाननसूयकः ।क्षान्तः सान्त्वयिता श्लक्ष्ह्णः कृतजञो विजितेन्द्रियः ॥२-२-३१॥
Vālmīki 2.2.32
मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः ।प्रियवादी च भूतानाम् सत्यवादी च राघवः ॥२-२-३२॥
Vālmīki 2.2.33
बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता ।तेना स्येहातुला कीर्तिर्यशस्तेजश्च वर्धते ॥२-२-३३॥
Vālmīki 2.2.34
देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः ।सम्यग्विद्याव्रतस्नातो यथवत्साङ्गवेदवित् ॥२-२-३४॥
Vālmīki 2.2.35
गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः ।कल्याणाभिजनः साधुरदीनात्मा महामतिः ॥२-२-३५॥
Vālmīki 2.2.36
द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः ।यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा ॥२-२-३६॥
Vālmīki 2.2.37
गत्वा सौमित्रिसहितो नाविजित्य निवर्तते ।संग्रामात्पुनरागम्य कुङ्जरेण रथेन वा ॥२-२-३७॥
Vālmīki 2.2.38
पौरान् स्वजनवन्नित्यम् कुशलं परिपृच्छति ।पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च ॥२-२-३८॥
Vālmīki 2.2.39
निखिलेनानुपूर्व्याच्च पिता पुत्रानिवौरसान् ।शुश्रूषन्ते च वः शिष्याः कचित्कर्मसु दंशिताः ॥२-२-३९॥
Vālmīki 2.2.40
इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते ।व्यसनेषु मनुष्याणां भृशं भवति दुःखितः ॥२-२-४०॥
Vālmīki 2.2.41
उत्सवेषु च सर्वेषु पितेव परितुष्यति ।सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः ॥२-२-४१॥
Vālmīki 2.2.42
स्मितपूर्वाभिभाषी च धर्मं सर्वात्मना श्रितः ।सम्यग्योक्ता श्रेयसां च न विगृह्य कथारुचिः ॥२-२-४२॥
Vālmīki 2.2.43
उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ।सुभ्रूरायतताम्राक्ष्हस्साक्ष्हाद्विष्णुरिव स्वयम् ॥२-२-४३॥
Vālmīki 2.2.44
रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः ।प्रजापालनतत्त्वजञो न रागोपहतेन्द्रियः ॥२-२-४४॥
Vālmīki 2.2.45
शक्तस्त्रैलोक्यमप्येको भोक्तुं किं नु महीमिमाम् ।नाऽस्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन ॥२-२-४५॥
Vālmīki 2.2.46
हन्त्येव नियमाद्वध्यानवध्ये च न कुप्यति ।युनक्त्यर्थैः प्रहृष्टश्च तमसौ यत्र तुष्यति ॥२-२-४६॥
Vālmīki 2.2.47
शान्तैः सर्वप्रजाकान्तैः प्रीतिसंजननैर्नृणाम् ।गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ॥२-२-४७॥
Vālmīki 2.2.48
तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम् ।लोकपालोपमं नाथमकामयत मेदिनी ॥२-२-४८॥
Vālmīki 2.2.49
वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघव ।दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव काश्यपः ॥२-२-४९॥
Vālmīki 2.2.50
बलमारोग्यमायुश्च रामस्य विदितात्मनः ।देवासुरमनुष्येषु सगन्धर्वोरगेषु च ॥२-२-५०॥
Vālmīki 2.2.51
आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा ।आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः ॥२-२-५१॥
Vālmīki 2.2.52
स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः ।सर्वान् देवान् नमस्यन्ति रामस्यार्थे यशस्विनः ॥२-२-५२॥
Vālmīki 2.2.53
तेषामायाचितं देव त्वत्प्रसादा त्समृद्ध्यताम् ।राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम् ॥२-२-५३॥
Vālmīki 2.2.54
पश्यामो यौवराज्यस्थं तव राजोत्तमाऽअत्मजम् ।तं देवदेवोपममात्मजं ते ।सर्वस्य लोकस्य हिते निविष्टम् ।हिताय नः क्ष्हिप्रमुदारजुष्टं ।मुदाभिषेक्तुम् वरद त्व मर्हसि ॥२-२-५४॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷