🪷 अयोध्याकाण्ड · Sarga 1

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 1 · 50 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.1.1
गच्छता मातुलकुलं भरतेन तदाऽनघः ।शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥२-१-१॥
Vālmīki 2.1.2
स तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः ।मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः ॥२-१-२॥
Vālmīki 2.1.3
तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः ।भ्रातरौ स्मरतां वीरौ वृद्धं दसरथं नृपम् ॥२-१-३॥
Vālmīki 2.1.4
राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ ।उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ ॥२-१-४॥
Vālmīki 2.1.5
सर्व एव तु तस्येष्ट श्चत्वारः पुरुषर्षभाः ।स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः ॥२-१-५॥
Vālmīki 2.1.6
तेषामपि महातेजा रामो रतिकरः पितुः ।स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ॥२-१-६॥
Vālmīki 2.1.7
स हि देवै रुदीर्णस्य रावणस्य वधार्थिभिः ।अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥२-१-७॥
Vālmīki 2.1.8
कौसल्या शुशुभे पुत्रेणामिततेजसा ।यथा वरेण देवानामदितिर्वज्रपाणिना ॥२-१-८॥
Vālmīki 2.1.9
स हि रूपोपपन्नश्च वीर्यवाननसूयकः ।भूमावनुपमः सूनुर्गणैर्धशरथोपमः ॥२-१-९॥
Vālmīki 2.1.10
स च नित्यं प्रशान्तात्मा मृदुपूर्वं तु भाषते ।उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥२-१-१०॥
Vālmīki 2.1.11
कथंचिदुपकारेण कृतेनै केन तुष्यति ।न स्मरत्यपकाराणां शतमप्यात्मवत्तया ॥२-१-११॥
Vālmīki 2.1.12
शीलवृद्धै र्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः ।कथयन्नास्त वैनित्य मस्त्रयोग्यान्तरेष्वपि ॥२-१-१२॥
Vālmīki 2.1.13
बुद्धिमान् मधुराभाषी पूर्वभाषी प्रियंवदः ।वीर्यवान्न च वीर्येण महता स्वेन विस्मितः ॥२-१-१३॥
Vālmīki 2.1.14
न चानृतकथो विद्वान् वृद्धानां प्रतिपूजकः ।अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरज्यते ॥२-१-१४॥
Vālmīki 2.1.15
सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः ।दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवाञ्छुचिः ॥२-१-१५॥
Vālmīki 2.1.16
कुलोचितमतिः क्षात्रं धर्मं स्वं बहुमन्यते ।मन्यते परया कीर्त्य महत्स्वर्गफलं ततः ॥२-१-१६॥
Vālmīki 2.1.17
नाश्रेयसि रतो विद्वान्न विरुद्धकथारुचिः ।उत्तरोत्तरयुक्तौ च वक्ता वाचस्पति र्यथा ॥२-१-१७॥
Vālmīki 2.1.18
अरोगस्तरुणो वाग्मी वपुष्मान् देशकालवित् ।लोके पुरुषसारज्ञस्साधुरेको विनिर्मितः ॥२-१-१८॥
Vālmīki 2.1.19
स तु स्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः ।बहिश्चर इव प्राणो बभूव गुणतः प्रियः ॥२-१-१९॥
Vālmīki 2.1.20
सम्यग्विद्याव्रतस्नातो यथावत्साङ्गवेदवित् ।इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः ॥२-१-२०॥
Vālmīki 2.1.21
कल्याणाभिजनः साधुरदीनः सत्यवागृजुः ।वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः ॥२-१-२१॥
Vālmīki 2.1.22
धर्मकामार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् ।लौकिके समयाचारे कृतकल्पो विशारदः ॥२-१-२२॥
Vālmīki 2.1.23
निभृतः संवृताकारो गुप्तमन्त्रः सहायवान् ।अमोघक्रोधहर्षश्च त्यागसंयमकालवित् ॥२-१-२३॥
Vālmīki 2.1.24
दृढभक्तिः स्थिरप्रज्ञो नासद्ग्राही न दुर्वचाः ।निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित् ॥२-१-२४॥
Vālmīki 2.1.25
शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः ।यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः ॥२-१-२५॥
Vālmīki 2.1.26
सत्संग्रहप्रग्रहणे स्थानविन्निग्रहस्य च ।आयकर्मण्युपायज्ञः संदृष्टव्ययकर्मवित् ॥२-१-२६॥
Vālmīki 2.1.27
श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च ।अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः ॥२-१-२७॥
Vālmīki 2.1.28
वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित् ।आरोहे विनये चैव युक्तोवारणवाजिनाम् ॥२-१-२८॥
Vālmīki 2.1.29
धनुर्वेदविदां स्रेष्ठो लोकेऽतिरथसंमतः ।अभियाता प्रहर्ता च सेनानयविशारदः ॥२-१-२९॥
Vālmīki 2.1.30
अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः ।अनसूयो जितक्रोधो न दृप्तो न च मत्सरी ।न चावमन्ता भूतानां न च कालवशानुगः ॥२-१-३०॥
Vālmīki 2.1.31
एवं श्रेष्ठगुणैर्युक्तः प्रजानां पार्थिवात्मजः ।संमतस्त्रिषु लोकेषुवसुधायाः क्षमागुणैः ॥२-१-३१॥
Vālmīki 2.1.32
बुद्द्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः ।तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः ॥२-१-३२॥
Vālmīki 2.1.33
गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ।तमेवंव्रतसंपन्नमप्रधृष्यपराक्रमम् ॥२-१-३३॥
Vālmīki 2.1.34
लोकपालोपमं नाथमकामयत मेदिनी ।एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् ॥२-१-३४॥
Vālmīki 2.1.35
दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः ।अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः ॥२-१-३५॥
Vālmīki 2.1.36
प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ।एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते ॥२-१-३६॥
Vālmīki 2.1.37
कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ।वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः ॥२-१-३७॥
Vālmīki 2.1.38
मत्तः प्रियतरो लोके पर्ङन्य इव वृष्टिमान् ।यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ ॥२-१-३८॥
Vālmīki 2.1.39
महीधरसमो धृत्यां मत्तश्च गुणवत्तरः ।महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम् ॥२-१-३९॥
Vālmīki 2.1.40
अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम् ।इत्येतै र्विविधै स्तैस्तै रन्यपार्थिवदुर्लभैः ॥२-१-४०॥
Vālmīki 2.1.41
शिष्टैरपरिमेयैश्छ लोके लोकोत्तरैर्गुणैः ।तं समीक्ष्य महाराजो युक्तं समुदितैः शुभैः ॥२-१-४१॥
Vālmīki 2.1.42
निश्चित्य सचिवैः सार्धं युवराजममन्यत ।दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम् ॥२-१-४२॥
Vālmīki 2.1.43
संचचक्षेऽथ मेधावी शरीरे चात्मनो जराम् ।पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः ॥२-१-४३॥
Vālmīki 2.1.44
लोके रामस्य बुबुधे संप्रियत्वं महात्मनः ।आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च ॥२-१-४४॥
Vālmīki 2.1.45
प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवान् नृपः ।नानानगरवास्तव्यान् पृथग्जानपदानपि ॥२-१-४५॥
Vālmīki 2.1.46
समानिनाय मेदिन्याः प्रधानान् पृथिवीपतीन् ।न तु केकयराजानं जनकं वा नराधिपः ॥२-१-४६॥
Vālmīki 2.1.47
त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम् ।तान्वेश्मनानाभरणैर्यथार्हं प्रतिपूजितान् ॥२-१-४७॥
Vālmīki 2.1.48
ददर्शालंकृतो राजा प्रजापतिरिव प्रजाः ।अथोपविष्टे नृपतौ तस्मिन् परबलार्दने ॥२-१-४८॥
Vālmīki 2.1.49
ततः प्रविविशुः शेष राजानो लोकसम्मताः ।अथ राजवितीर्णेषु विविधेष्वासनेषु च ॥२-१-४९॥
Vālmīki 2.1.50
राजानमेवाभिमुखा निषेदुर्नियता नृपाः ।स लब्धमानैर्विनयान्वितैर्नृपैः ।पुरालयै र्जानपदैश्च मानवैः ।उपोपविष्टैर्नृतो बभौ ।सहस्रचक्षुर्भगवानिवामरैः ॥२-१-५०॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷