🪷 बालकाण्ड · Sarga 77
Bāla-Kāṇḍa · The Book of Childhood · Sarga 77 · 29 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
गते रामे प्रशांत आत्मा रामो दाशरथिः धनुः ।वरुणाय अप्रमेयाय ददौ हस्ते महायशाः ॥१-७७-१॥
अभिवाद्य ततो रामो वसिष्ठ प्रमुखान् ऋषीन् ।पितरम् विह्वलम् दृष्ट्वा प्रोवाच रघुनंदनः ॥१-७७-२॥
जामदग्न्यो गतो रामः प्रयातु चतुर् अन्गिणी ।अयोध्या अभिमुखी सेना त्वया नाथेन पालिता ॥१-७७-३॥
रामस्य वचनम् श्रुत्वा राजा दशरथः सुतम् ।बाहुभ्याम् सम्परिष्वज्य मूर्ध्नि उपाघ्राय राघवम् ॥१-७७-४॥
गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः ।पुनर्जातम् तदा मेने पुत्रम् आत्मानम् एव च ॥१-७७-५॥
चोदयामास ताम् सेनाम् जगाम आशु ततः पुरीम् ।पताका ध्वजिनीम् रम्याम् तूर्य उद् घुष्ट निनादिताम् ॥१-७७-६॥
सिक्त राज पथा रम्याम् प्रकीर्ण कुसुम उत्कराम् ।राज प्रवेश सुमुखैः पौरैः मंगल पाणिभिः ॥१-७७-७॥
सम्पूर्णाम् प्राविशत् राजा जन ओघैः समलम्कृताम् ।पौरैः प्रति उद्गतो दूरम् द्विजैः च पुर वासिभिः ॥१-७७-८॥
पुत्रैः अनुगतः श्रीमान् श्रीमद्भिः च महायशाः ।प्रविवेश गृहम् राजा हिमवत् सदृशम् प्रियम् ॥१-७७-९॥
ननन्द स्वजनैः राजा गृहे कामैः सुपूजितः ।कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा ॥१-७७-१०॥
वधू प्रतिग्रहे युक्ता याः च अन्या राज योषितः ।ततः सीताम् महाभागाम् ऊर्मिलाम् च यशस्विनीम् ॥१-७७-११॥
कुशध्वज सुते च उभे जगृहुः नृप योषितः ।मंगल आलापनैः होमैः शोभिताः क्षौम वाससः ॥१-७७-१२॥
देवत आयतनानि आशु सर्वाः ताः प्रत्यपूजयन् ।अभिवाद्य अभिवाद्यान् च सर्वा राज सुताः तदा ॥१-७७-१३॥
रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः ।कृत दाराः कृत अस्त्राः च स धनाः स सुहृत् जनाः ॥१-७७-१४॥
शुश्रूषमाणाः पितरम् वर्तयन्ति नरर्षभाः ।कस्यचित् अथ कालस्य राजा दशरधः सुतम् ॥१-७७-१५॥
भरतम् कैकेयी पुत्रम् अब्रवीत् रघुनंदन ।अयम् केकय राजस्य पुत्रो वसति पुत्रक ॥१-७७-१६॥
त्वाम् नेतुम् आगतो वीरो युधाजित् मातुलः तव ।श्रुत्वा दशरथस्य एतत् भरतः कैकेयि सुतः ॥१-७७-१७॥
गमनाय अभिचक्राम शत्रुघ्न सहितः तदा ।आपृच्छ्य पितरम् शूरो रामम् च अक्लिष्ट कर्मणम् ॥१-७७-१८॥
मातॄः च अपि नरश्रेष्ट शत्रुघ्न सहितो ययौ ।युधाजित् प्राप्य भरतम् स शत्रुघ्नम् प्रहर्षितः ॥१-७७-१९॥
स्व पुरम् प्रविवेशत् वीरः पिता तस्य तुतोष ह ।गते च भरते रामो लक्ष्मणः च महाबलः ॥१-७७-२०॥
पितरम् देव संकाशम् पूजयामासतुः तदा ।पितुः आज्ञाम् पुरस्कृत्य पौर कार्याणि सर्वशः ॥१-७७-२१॥
चकार रामः सर्वाणि प्रियाणि च हितानि च ।मातृभ्यो मातृ कार्याणि कृत्वा परम यंत्रितः ॥१-७७-२२॥
गुरूणाम् गुरु कार्याणि काले काले अन्ववैक्षत ।एवम् दशरथः प्रीतो ब्राह्मणा नैगमाः तथा ॥१-७७-२३॥
रामस्य शील वृत्तेन सर्वम् विषय वासिनः ।तेषाम् अति यशा लोके रामः सत्य पराक्रमः ॥१-७७-२४॥
स्वयम्भूः इव भूतानाम् बभूव गुणवत्तरः ।रामः च सीतया सार्धम् विजहार बहून् ऋतून् ॥१-७७-२५॥
मनस्वी तद् गतमानस्य तस्या हृदि समर्पितः ।प्रिया तु सीता रामस्य दाराः पितृ कृता इति ॥१-७७-२६॥
गुणात् रूप गुणात् च अपि प्रीतिः भूयो अभिवर्धते ।तस्याः च भर्ता द्विगुणम् हृदये परिवर्तते ॥१-७७-२७॥
अन्तर् गतम् अपि व्यक्तम् आख्याति हृदयम् हृदा ।तस्य भूयो विशेषेण मैथिली जनक आत्मजा ।देवताभिः समा रूपे सीता श्रीः इव रूपिणी ॥१-७७-२८॥
तया स राज ऋषि सुतो अभिकामयासमेयिवान् उत्तम राज कन्यया ।अतीव रामः शुशुभे मुदा अन्वितोविभुः श्रिया विष्णुः इव अमर ईश्वरः ॥१-७७-२९॥
Navigation
- ← Previous: Bāla-Kāṇḍa Sarga 76
- Next: Ayodhyā-Kāṇḍa Sarga 1 →
- Bāla-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷