🪷 अयोध्याकाण्ड · Sarga 46

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 46 · 34 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.46.1
ततः तु तमसा तीरम् रम्यम् आश्रित्य राघवः ।सीताम् उद्वीक्ष्य सौमित्रिम् इदम् वचनम् अब्रवीत् ॥२-४६-१॥
Vālmīki 2.46.2
इयम् अद्य निशा पूर्वा सौमित्रे प्रस्थिता वनम् ।वन वासस्य भद्रम् ते स न उत्कण्ठितुम् अर्हसि ॥२-४६-२॥
Vālmīki 2.46.3
पश्य शून्यानि अरण्यानि रुदन्ति इव समन्ततः ।यथा निलयम् आयद्भिर् निलीनानि मृग द्विजैः ॥२-४६-३॥
Vālmīki 2.46.4
अद्य अयोध्या तु नगरी राज धानी पितुर् मम ।सस्त्री पुम्सा गतान् अस्मान् शोचिष्यति न सम्शयः ॥२-४६-४॥
Vālmīki 2.46.5
अनुरक्ता हि मनुजा राजानम् बहुभिर्गुणैः ।त्वाम् च माम् च नरव्याघ्र शत्रघ्नभरतौ तथा ॥२-४६-५॥
Vālmīki 2.46.6
पितरम् चानुशोचामि मातरम् च यशस्विनीम् ।अपि वानौध भवेताम् तु रुदन्तौ तावभीक्ष्णशः ॥२-४६-६॥
Vālmīki 2.46.7
भरतः खलु धर्म आत्मा पितरम् मातरम् च मे ।धर्म अर्थ काम सहितैः वाक्यैः आश्वासयिष्यति ॥२-४६-७॥
Vālmīki 2.46.8
भरतस्य आनृशम्सत्वम् सम्चिन्त्य अहम् पुनः पुनः ।न अनुशोचामि पितरम् मातरम् च अपि लक्ष्मण ॥२-४६-८॥
Vālmīki 2.46.9
त्वया कार्यम् नर व्याघ्र माम् अनुव्रजता कृतम् ।अन्वेष्टव्या हि वैदेह्या रक्षण अर्थे सहायता ॥२-४६-९॥
Vālmīki 2.46.10
अद्भिर् एव तु सौमित्रे वत्स्याम्य् अद्य निशाम् इमाम् ।एतद्द् हि रोचते मह्यम् वन्ये अपि विविधे सति ॥२-४६-१०॥
Vālmīki 2.46.11
एवम् उक्त्वा तु सौमित्रम् सुमन्त्रम् अपि राघवः ।अप्रमत्तः त्वम् अश्वेषु भव सौम्य इति उवाच ह ॥२-४६-११॥
Vālmīki 2.46.12
सो अश्वान् सुमन्त्रः सम्यम्य सूर्ये अस्तम् समुपागते ।प्रभूत यवसान् कृत्वा बभूव प्रत्यनन्तरः ॥२-४६-१२॥
Vālmīki 2.46.13
उपास्यतु शिवाम् सम्ध्याम् दृष्ट्वा रात्रिम् उपस्थिताम् ।रामस्य शयनम् चक्रे सूतः सौमित्रिणा सह ॥२-४६-१३॥
Vālmīki 2.46.14
ताम् शय्याम् तमसा तीरे वीक्ष्य वृक्ष दलैः कृताम् ।रामः सौमित्रिणाम् सार्धम् सभार्यः सम्विवेश ह ॥२-४६-१४॥
Vālmīki 2.46.15
सभार्यम् सम्प्रसुप्तम् तम् भ्रातरम् वीक्ष्य लक्ष्मणः ।कथयाम् आस सूताय रामस्य विविधान् गुणान् ॥२-४६-१५॥
Vālmīki 2.46.16
जाग्रतः हि एव ताम् रात्रिम् सौमित्रेर् उदितः रविः ।सूतस्य तमसा तीरे रामस्य ब्रुवतः गुणान् ॥२-४६-१६॥
Vālmīki 2.46.17
गो कुल आकुल तीरायाः तमसायाः विदूरतः ।अवसत् तत्र ताम् रात्रिम् रामः प्रकृतिभिः सह ॥२-४६-१७॥
Vālmīki 2.46.18
उत्थाय तु महा तेजाः प्रकृतीस् ता निशाम्य च ।अब्रवीद् भ्रातरम् रामः लक्ष्मणम् पुण्य लक्षणम् ॥२-४६-१८॥
Vālmīki 2.46.19
अस्मद् व्यपेक्षान् सौमित्रे निरपेक्षान् गृहेष्व् अपि ।वृक्ष मूलेषु सम्सुप्तान् पश्य लक्ष्मण साम्प्रतम् ॥२-४६-१९॥
Vālmīki 2.46.20
यथा एते नियमम् पौराः कुर्वन्ति अस्मन् निवर्तने ।अपि प्राणान् असिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् ॥२-४६-२०॥
Vālmīki 2.46.21
यावद् एव तु सम्सुप्ताः तावद् एव वयम् लघु ।रथम् आरुह्य गच्चामः पन्थानम् अकुतः भयम् ॥२-४६-२१॥
Vālmīki 2.46.22
अतः भूयो अपि न इदानीम् इक्ष्वाकु पुर वासिनः ।स्वपेयुर् अनुरक्ता माम् वृष्क मूलानि सम्श्रिताः ॥२-४६-२२॥
Vālmīki 2.46.23
पौरा हि आत्म कृतात् दुह्खात् विप्रमोच्या नृप आत्मजैः ।न तु खल्व् आत्मना योज्या दुह्खेन पुर वासिनः ॥२-४६-२३॥
Vālmīki 2.46.24
अब्रवील् लक्ष्मणो रामम् साक्षात् धर्मम् इव स्थितम् ।रोचते मे महा प्राज्ञ क्षिप्रम् आरुह्यताम् इति ॥२-४६-२४॥
Vālmīki 2.46.25
अथ रामोऽब्रवीच्छ्रीमान् सुमन्त्रम् युज्यताम् रथः ।गमिष्यामि ततोऽरण्यम् गच्छ श्रीघ्रमितः प्रभो ॥२-४६-२५॥
Vālmīki 2.46.26
सूतः ततः सम्त्वरितः स्यन्दनम् तैः हय उत्तमैः ।योजयित्वा अथ रामाय प्रान्जलिः प्रत्यवेदयत् ॥२-४६-२६॥
Vālmīki 2.46.27
अयम् युक्तो महाबाहो रथस्ते रथिनाम् वर ।त्वमारोहस्व भद्रम् ते ससीतः सहलक्ष्मणः ॥२-४६-२७॥
Vālmīki 2.46.28
तम् स्यन्दनमधिष्ठाय राघवः सपरिच्छदः ।शीघ्रगामाकुलावर्ताम् तमसामतरन्नदीम् ॥२-४६-२८॥
Vālmīki 2.46.29
स सम्तीर्य महाबाहुः श्रीमान् शिवमकण्टकम् ।प्रापद्यत महामार्गमभयम् भयदर्शिनाम् ॥२-४६-२९॥
Vālmīki 2.46.30
मोहन अर्थम् तु पौराणाम् सूतम् रामः अब्रवीद् वचः ।उदन् मुखः प्रयाहि त्वम् रथम् आस्थाय सारथे ॥२-४६-३०॥
Vālmīki 2.46.31
मुहूर्तम् त्वरितम् गत्वा निर्गतय रथम् पुनः ।यथा न विद्युः पौरा माम् तथा कुरु समाहितः ॥२-४६-३१॥
Vālmīki 2.46.32
रामस्य वचनम् श्रुत्वा तथा चक्रे स सारथिः ।प्रत्यागम्य च रामस्य स्यन्दनम् प्रत्यवेदयत् ॥२-४६-३२॥
Vālmīki 2.46.33
तौ सम्प्रयुक्तम् तु रथम् समासित्थौ ।तदा ससीतौ रघवम्शवर्धनौ ।प्रचोदयामास ततस्तुरम्गमान् ।स सारथिर्येन पथा तपोवनम् ॥२-४६-३३॥
Vālmīki 2.46.34
ततः समास्थाय रथम् महारथःससारथिर्धाशरथिर्वनम् ययौ ।उदङ्मुखम् तम् तु रथम् चकार स ।प्रयाणमाङ्गश्यनिवितदर्शनात् ॥२-४६-३४॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷