🪷 अयोध्याकाण्ड · Sarga 45
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 45 · 33 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
अनुरक्ता महात्मानम् रामम् सत्य परक्रमम् ।अनुजग्मुः प्रयान्तम् तम् वन वासाय मानवाः ॥२-४५-१॥
निवर्तिते अपि च बलात् सुहृद् वर्गे च राजिनि ।न एव ते सम्न्यवर्तन्त रामस्य अनुगता रथम् ॥२-४५-२॥
अयोध्या निलयानाम् हि पुरुषाणाम् महा यशाः ।बभूव गुण सम्पन्नः पूर्ण चन्द्रैव प्रियः ॥२-४५-३॥
स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस् तदा ।कुर्वाणः पितरम् सत्यम् वनम् एव अन्वपद्यत ॥२-४५-४॥
अवेक्षमाणः सस्नेहम् चक्षुषा प्रपिबन्न् इव ।उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजाइव ॥२-४५-५॥
या प्रीतिर् बहुमानः च मय्य् अयोध्या निवासिनाम् ।मत् प्रिय अर्थम् विशेषेण भरते सा निवेश्यताम् ॥२-४५-६॥
स हि कल्याण चारित्रः कैकेय्या आनन्द वर्धनः ।करिष्यति यथावद् वः प्रियाणि च हितानि च ॥२-४५-७॥
ज्ञान वृद्धो वयो बालो मृदुर् वीर्य गुण अन्वितः ।अनुरूपः स वो भर्ता भविष्यति भय अपहः ॥२-४५-८॥
स हि राज गुणैः युक्तः युव राजः समीक्षितः ।अपि च अपि मया शिष्टैः कार्यम् वो भर्तृ शासनम् ॥२-४५-९॥
न च तप्येद् यथा च असौ वन वासम् गते मयि ।महा राजः तथा कार्यो मम प्रिय चिकीर्षया ॥२-४५-१०॥
यथा यथा दाशरथिर् धर्मम् एव आस्थितः अभवत् ।तथा तथा प्रकृतयो रामम् पतिम् अकामयन् ॥२-४५-११॥
बाष्पेण पिहितम् दीनम् रामः सौमित्रिणा सह ।चकर्ष इव गुणैः बद्ध्वा जनम् पुनर् इव आसनम् ॥२-४५-१२॥
ते द्विजाः त्रिविधम् वृद्धा ज्ञानेन वयसा ओजसा ।वयः प्रकम्प शिरसो दूरात् ऊचुर् इदम् वचः ॥२-४५-१३॥
वहन्तः जवना रामम् भो भो जात्याः तुरम् गमाः ।निवर्तध्वम् न गन्तव्यम् हिता भवत भर्तरि ॥२-४५-१४॥
कर्णवन्ति हि भूतानि विशेषण तुरम्गमाः ।यूयम् तस्मान्निवर्तध्वम् याचनाम् प्रतिवेदिताः ॥२-४५-१५॥
धर्मतः स विशुद्धात्मा वीरः शुभदृढप्रतह् ।उपवाह्यः तु वो भर्ता न अपवाह्यः पुरात् वनम् ॥२-४५-१६॥
एवम् आर्त प्रलापाम्स् तान् वृद्धान् प्रलपतः द्विजान् ।अवेक्ष्य सहसा रामः रथात् अवततार ह ॥२-४५-१७॥
पद्भ्याम् एव जगाम अथ ससीतः सह लक्ष्मणः ।सम्निकृष्ट पद न्यासो रामः वन परायणः ॥२-४५-१८॥
द्विजातीम्स् तु पदातीम्स् तान् रामः चारित्र वत्सलः ।न शशाक घृणा चक्षुः परिमोक्तुम् रथेन सः ॥२-४५-१९॥
गच्चन्तम् एव तम् दृष्ट्वा रामम् सम्भ्रान्त मानसाः ।ऊचुः परम सम्तप्ता रामम् वाक्यम् इदम् द्विजाः ॥२-४५-२०॥
ब्राह्मण्यम् कृत्स्नम् एतत् त्वाम् ब्रह्मण्यम् अनुगच्चति ।द्विज स्कन्ध अधिरूढाः त्वाम् अग्नयो अपि अनुयान्ति अमी ॥२-४५-२१॥
वाजपेय समुत्थानि चत्राणि एतानि पश्य नः ।पृष्ठतः अनुप्रयातानि हम्सान् इव जल अत्यये ॥२-४५-२२॥
अनवाप्त आतपत्रस्य रश्मि सम्तापितस्य ते ।एभिः चायाम् करिष्यामः स्वैः चत्रैः वाजपेयिकैः ॥२-४५-२३॥
या हि नः सततम् बुद्धिर् वेद मन्त्र अनुसारिणी ।त्वत् कृते सा कृता वत्स वन वास अनुसारिणी ॥२-४५-२४॥
हृदयेष्व् अवतिष्ठन्ते वेदा ये नः परम् धनम् ।वत्स्यन्ति अपि गृहेष्व् एव दाराः चारित्र रक्षिताः ॥२-४५-२५॥
न पुनर् निश्चयः कार्यः त्वद् गतौ सुकृता मतिः ।त्वयि धर्म व्यपेक्षे तु किम् स्यात् धर्मम् अवेक्षितुम् ॥२-४५-२६॥
याचितः नो निवर्तस्व हम्स शुक्ल शिरः रुहैः ।शिरोभिर् निभृत आचार मही पतन पाम्शुलैः ॥२-४५-२७॥
बहूनाम् वितता यज्ञा द्विजानाम् यैह आगताः ।तेषाम् समाप्तिर् आयत्ता तव वत्स निवर्तने ॥२-४५-२८॥
भक्तिमन्ति हि भूतानि जम्गम अजम्गमानि च ।याचमानेषु तेषु त्वम् भक्तिम् भक्तेषु दर्शय ॥२-४५-२९॥
अनुगम्तुम् अशक्ताः त्वाम् मूलैः उद्धिऋत वेगिभिः ।उन्नता वायु वेगेन विक्रोशन्ति इव पादपाः ॥२-४५-३०॥
निश्चेष्ट आहार सम्चारा वृक्ष एक स्थान विष्ठिताः ।पक्षिणो अपि प्रयाचन्ते सर्व भूत अनुकम्पिनम् ॥२-४५-३१॥
एवम् विक्रोशताम् तेषाम् द्विजातीनाम् निवर्तने ।ददृशे तमसा तत्र वारयन्ति इव राघवम् ॥२-४५-३२॥
ततः सुमन्त्रोऽपि रथाद्विमुच्य ।श्रान्तान्हयान्सम्परिवर्त्य श्रीघ्राम् ।पीतोदकाम्स्तोयपरिप्लुताङ्गा ।नचारयद्वै तमसाविदूरे ॥२-४५-३३॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 44
- Next: Ayodhyā-Kāṇḍa Sarga 46 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷