🪷 अयोध्याकाण्ड · Sarga 44
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 44 · 31 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
विलपन्तीम् तथा ताम् तु कौसल्याम् प्रमद उत्तमाम् ।इदम् धर्मे स्थिता धर्म्यम् सुमित्रा वाक्यम् अब्रवीत् ॥२-४४-१॥
तव आर्ये सद् गुणैः युक्तः पुत्रः स पुरुष उत्तमः ।किम् ते विलपितेन एवम् कृपणम् रुदितेन वा ॥२-४४-२॥
यः तव आर्ये गतः पुत्रः त्यक्त्वा राज्यम् महा बलः ।साधु कुर्वन् महात्मानम् पितरम् सत्य वादिनाम् ॥२-४४-३॥
शिष्टैः आचरिते सम्यक् शश्वत् प्रेत्य फल उदये ।रामः धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन ॥२-४४-४॥
वर्तते च उत्तमाम् वृत्तिम् लक्ष्मणो अस्मिन् सदा अनघः ।दयावान् सर्व भूतेषु लाभः तस्य महात्मनः ॥२-४४-५॥
अरण्य वासे यद् दुह्खम् जानती वै सुख उचिता ।अनुगच्चति वैदेही धर्म आत्मानम् तव आत्मजम् ॥२-४४-६॥
कीर्ति भूताम् पताकाम् यो लोके भ्रामयति प्रभुः ।दम सत्य व्रत परः किम् न प्राप्तः तव आत्मजः ॥२-४४-७॥
व्यक्तम् रामस्य विज्ञाय शौचम् माहात्म्यम् उत्तमम् ।न गात्रम् अम्शुभिः सूर्यः सम्तापयितुम् अर्हति ॥२-४४-८॥
शिवः सर्वेषु कालेषु काननेभ्यो विनिह्सृतः ।राघवम् युक्त शीत उष्णः सेविष्यति सुखो अनिलः ॥२-४४-९॥
शयानम् अनघम् रात्रौ पिता इव अभिपरिष्वजन् ।रश्मिभिः सम्स्पृशन् शीतैः चन्द्रमा ह्लादयिष्यति ॥२-४४-१०॥
ददौ च अस्त्राणि दिव्यानि यस्मै ब्रह्मा महा ओजसे ।दानव इन्द्रम् हतम् दृष्ट्वा तिमि ध्वज सुतम् रणे ॥२-४४-११॥
स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः ।असन्त्रस्तोऽ प्यरण्यस्थो वेश्मनीव निवत्स्यति ॥२-४४-१२॥
यस्येषुपदमासाद्य विनाशम् यान्ति शत्रवः ।कथम् न प्R^थिवी तस्य शासने स्थातुमर्हति ॥२-४४-१३॥
या श्रीःशौर्यम् च रामस्य या च कल्याणसत्वता ।निवृत्तारण्यवासः स्वं क्षिप्रम् राज्यमवाप्स्यति ॥२-४४-१४॥
सूर्यस्यापि भवेत्सूर्योह्यग्नेरग्निः प्रभोः प्रभोः ।श्रियश्च श्रीर्भवेदग्र्या कीर्त्याः क्षमाक्षमा ॥२-४४-१५॥
दैवतम् दैवतानाम् च भूतानाम् भूतसत्तमः ।तस्य केह्यगुणा देवि वने वा प्यथवा पुरे ॥२-४४-१६॥
पृथिव्या सह वैदेह्या श्रिया च पुरुष ऋषभः ।क्षिप्रम् तिसृभिर् एताभिः सह रामः अभिषेक्ष्यते ॥२-४४-१७॥
दुह्खजम् विसृजन्ति अस्रम् निष्क्रामन्तम् उदीक्ष्य यम् ।समुत्स्रक्ष्यसि नेत्राभ्याम् क्षिप्रम् आनन्दजम् पयः ॥२-४४-१८॥
कुशचीरधरम् देवम् गच्छन्तमपराजितम् ।सीतेवानुगता लक्ष्मीस्तस्य किम् नाम दुर्लभम् ॥२-४४-१९॥
धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत्स्वयम् ।लक्ष्मणोव्रजति ह्यग्रे तस्य किम् नाम दुर्लभम् ॥२-४४-२०॥
निवृत्तवनवासम् तम् द्रष्टासि पुनरागतम् ।जहिशोकम् च मोहम् च देवि सत्यम् ब्रवीमि ते ॥२-४४-२१॥
शिरसा चरणावेतौ वन्दमानमनिन्दिते ।पुनर्द्रक्ष्यसि कल्याणि! पुत्रं चन्द्रमिवोदितम् ॥२-४४-२२॥
पुनः प्रविष्टम् द्R^ष्ट्वा तमभिषिक्तम् महाश्रियम् ।समुत्स्रक्ष्यसि नेत्राभ्याम् क्षिप्रमान्न्दजम् पयः ॥२-४४-२३॥
मा शोको देवि दुःखम् वा न राअमे दृअह्य्RWऽशिवम् ।क्षिप्रम् द्रक्ष्यसि पुत्रम् त्वम् ससीतम् सह लक्ष्मणम् ॥२-४४-२४॥
त्वया शेषोओ जनश्चैव समाश्वास्यो यदाऽनघे ।किमिदानीमिदम् देवि करोषि हृदि विक्लबम् ॥२-४४-२५॥
नार्हा त्वम् शोचितुम् देवि यस्यास्ते राघवस्सुतः ।न हि रामात्परो लोके विद्यते सत्पथे स्थितः ॥२-४४-२६॥
अभिवादयमानम् तम् दृष्ट्वा ससुहृदम् सुतम् ।मुदा अश्रु मोक्ष्यसे क्षिप्रम् मेघ लेका इव वार्षिकी ॥२-४४-२७॥
पुत्रः ते वरदः क्षिप्रम् अयोध्याम् पुनर् आगतः ।पाणिभ्याम् मृदुपीनाभ्याम् चरणौ पीडयिष्यति ॥२-४४-२८॥
अभिवाद्य नमस्यन्तम् शूरम् ससुहृदम् सुतम् ।मुदास्रैः प्रोक्ष्यसि पुनर्मेघराजि रिवाचलम् ॥२-४४-२९॥
आश्वासयन्ती विविधैश्च वाक्यै ।र्वाक्योपचारे कुशलानाद्या ।रामस्य ताम् मातरमेवमुक्त्वा ।देवी सुमित्राविरराम रामा ॥२-४४-३०॥
निशम्य तल् लक्ष्मण मातृ वाक्यम् ।रामस्य मातुर् नर देव पत्न्याः ।सद्यः शरीरे विननाश शोकः ।शरद् गतः मेघैव अल्प तोयः ॥२-४४-३१॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 43
- Next: Ayodhyā-Kāṇḍa Sarga 45 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷