🪷 अयोध्याकाण्ड · Sarga 43
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 43 · 21 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
ततः समीक्ष्य शयने सन्नम् शोकेन पार्थिवम् ।कौसल्या पुत्र शोक आर्ता तम् उवाच मही पतिम् ॥२-४३-१॥
राघवो नर शार्दूल विषम् उप्त्वा द्विजिह्ववत् ।विचरिष्यति कैकेयी निर्मुक्ता इव हि पन्नगी ॥२-४३-२॥
विवास्य रामम् सुभगा लब्ध कामा समाहिता ।त्रासयिष्यति माम् भूयो दुष्ट अहिर् इव वेश्मनि ॥२-४३-३॥
अथ स्म नगरे रामः चरन् भैक्षम् गृहे वसेत् ।काम कारः वरम् दातुम् अपि दासम् मम आत्मजम् ॥२-४३-४॥
पातयित्वा तु कैकेय्या रामम् स्थानात् यथा इष्टतः ।प्रदिष्टः रक्षसाम् भागः पर्वणि इव आहित अग्निना ॥२-४३-५॥
गज राज गतिर् वीरः महा बाहुर् धनुर् धरः ।वनम् आविशते नूनम् सभार्यः सह लक्ष्मणः ॥२-४३-६॥
वने तु अदृष्ट दुह्खानाम् कैकेय्या अनुमते त्वया ।त्यक्तानाम् वन वासाय का न्व् अवस्था भविष्यति ॥२-४३-७॥
ते रत्न हीनाः तरुणाः फल काले विवासिताः ।कथम् वत्स्यन्ति कृपणाः फल मूलैः कृत अशनाः ॥२-४३-८॥
अपि इदानीम् स कालः स्यान् मम शोक क्षयः शिवः ।सभार्यम् यत् सह भ्रात्रा पश्येयम् इह राघवम् ॥२-४३-९॥
श्रुत्वा एव उपस्थितौ वीरौ कदा अयोध्या भविष्यति ।यशस्विनी हृष्ट जना सूच्च्रित ध्वज मालिनी ॥२-४३-१०॥
कदा प्रेक्ष्य नर व्याघ्राव् अरण्यात् पुनर् आगतौ ।नन्दिष्यति पुरी हृष्टा समुद्रैव पर्वणि ॥२-४३-११॥
कदा अयोध्याम् महा बाहुः पुरीम् वीरः प्रवेक्ष्यति ।पुरः कृत्य रथे सीताम् वृषभो गो वधूम् इव ॥२-४३-१२॥
कदा प्राणि सहस्राणि राज मार्गे मम आत्मजौ ।लाजैः अवकरिष्यन्ति प्रविशन्ताव् अरिम् दमौ ॥२-४३-१३॥
प्रविशनौ कदाऽपियोध्याम् द्रक्ष्यामि शुभकुण्डता ।उदग्रायुधनिस्त्रीम्शौ सशृङ्गाविव पर्वतौ ॥२-४३-१४॥
कदा सुमनसः कन्या द्विजातीनाम् फलानि च ।प्रदिशन्त्यः पुरीम् हृष्टाः करिष्यन्ति प्रदक्षिणम् ॥२-४३-१५॥
कदा परिणतः बुद्ध्या वयसा च अमर प्रभः ।अभ्युपैष्यति धर्मज्ञः त्रिवर्षैव माम् ललन् ॥२-४३-१६॥
निह्सम्शयम् मया मन्ये पुरा वीर कदर्यया ।पातु कामेषु वत्सेषु मातृऋणाम् शातिताः स्तनाः ॥२-४३-१७॥
सा अहम् गौर् इव सिम्हेन विवत्सा वत्सला कृता ।कैकेय्या पुरुष व्याघ्र बाल वत्सा इव गौर् बलात् ॥२-४३-१८॥
न हि तावद् गुणैः जुष्टम् सर्व शास्त्र विशारदम् ।एक पुत्रा विना पुत्रम् अहम् जीवितुम् उत्सहे ॥२-४३-१९॥
न हि मे जीविते किम्चित् सामर्थम् इह कल्प्यते ।अपश्यन्त्याः प्रियम् पुत्रम् महा बाहुम् महा बलम् ॥२-४३-२०॥
अयम् हि माम् दीपयते समुत्थितः ।तनूज शोक प्रभवो हुत अशनः ।महीम् इमाम् रश्मिभिर् उत्तम प्रभो ।यथा निदाघे भगवान् दिवा करः ॥२-४३-२१॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 42
- Next: Ayodhyā-Kāṇḍa Sarga 44 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷