🪷 अयोध्याकाण्ड · Sarga 42

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 42 · 34 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.42.1
यावत् तु निर्यतः तस्य रजो रूपम् अदृश्यत ।न एव इक्ष्वाकु वरः तावत् सम्जहार आत्म चक्षुषी ॥२-४२-१॥
Vālmīki 2.42.2
यावद् राजा प्रियम् पुत्रम् पश्यति अत्यन्त धार्मिकम् ।तावद् व्यवर्धत इव अस्य धरण्याम् पुत्र दर्शने ॥२-४२-२॥
Vālmīki 2.42.3
न पश्यति रजो अपि अस्य यदा रामस्य भूमिपः ।तदा आर्तः च विषण्णः च पपात धरणी तले ॥२-४२-३॥
Vālmīki 2.42.4
तस्य दक्षिणम् अन्वगात् कौसल्या बाहुम् अन्गना ।वामम् च अस्य अन्वगात् पार्श्वम् कैकेयी भरत प्रिया ॥२-४२-४॥
Vālmīki 2.42.5
ताम् नयेन च सम्पन्नो धर्मेण निवयेन च ।उवाच राजा कैकेयीम् समीक्ष्य व्यथित इन्द्रियः ॥२-४२-५॥
Vālmīki 2.42.6
कैकेयि मा मम अन्गानि स्प्राक्षीस् त्वम् दुष्ट चारिणी ।न हि त्वाम् द्रष्टुम् इच्चामि न भार्या न च बान्धवी ॥२-४२-६॥
Vālmīki 2.42.7
ये च त्वाम् उपजीवन्ति न अहम् तेषाम् न ते मम ।केवल अर्थ पराम् हि त्वाम् त्यक्त धर्माम् त्यजाम्य् अहम् ॥२-४२-७॥
Vālmīki 2.42.8
अगृह्णाम् यच् च ते पाणिम् अग्निम् पर्यणयम् च यत् ।अनुजानामि तत् सर्वम् अस्मिम्ल् लोके परत्र च ॥२-४२-८॥
Vālmīki 2.42.9
भरतः चेत् प्रतीतः स्यात् राज्यम् प्राप्य इदम् अव्ययम् ।यन् मे स दद्यात् पित्र् अर्थम् मा मा तत् दत्तम् आगमत् ॥२-४२-९॥
Vālmīki 2.42.10
अथ रेणु समुध्वस्तम् तम् उत्थाप्य नर अधिपम् ।न्यवर्तत तदा देवी कौसल्या शोक कर्शिता ॥२-४२-१०॥
Vālmīki 2.42.11
हत्वा इव ब्राह्मणम् कामात् स्पृष्ट्वा अग्निम् इव पाणिना ।अन्वतप्यत धर्म आत्मा पुत्रम् सम्चिन्त्य तापसम् ॥२-४२-११॥
Vālmīki 2.42.12
निवृत्य एव निवृत्य एव सीदतः रथ वर्त्मसु ।राज्ञो न अतिबभौ रूपम् ग्रस्तस्य अम्शुमतः यथा ॥२-४२-१२॥
Vālmīki 2.42.13
विललाप च दुह्ख आर्तः प्रियम् पुत्रम् अनुस्मरन् ।नगर अन्तम् अनुप्राप्तम् बुद्ध्वा पुत्रम् अथ अब्रवीत् ॥२-४२-१३॥
Vālmīki 2.42.14
वाहनानाम् च मुख्यानाम् वहताम् तम् मम आत्मजम् ।पदानि पथि दृश्यन्ते स महात्मा न दृश्यते ॥२-४२-१४॥
Vālmīki 2.42.15
स नूनम् क्वचित् एव अद्य वृक्ष मूलम् उपाश्रितः ।काष्ठम् वा यदि वा अश्मानम् उपधाय शयिष्यते ॥२-४२-१५॥
Vālmīki 2.42.16
उत्थास्यति च मेदिन्याः कृपणः पाम्शु गुण्ठितः ।विनिह्श्वसन् प्रस्रवणात् करेणूनाम् इव ऋषभः ॥२-४२-१६॥
Vālmīki 2.42.17
उत्थास्यति च मेदिन्याः कृपणः पाम्सुगुण्ठितः ।विनिःस्वसन् प्रस्रवणात्क रेणूनामि वर्ष्भः ॥२-४२-१७॥
Vālmīki 2.42.18
द्रक्ष्यन्ति नूनम् पुरुषा दीघ बाहुम् वने चराः ।रामम् उत्थाय गच्चन्तम् लोक नाथम् अनाथवत् ॥२-४२-१८॥
Vālmīki 2.42.19
सकामा भव कैकेयि विधवा राज्यम् आवस ।कण्टकाक्रमण क्लान्तावनमद्य गमिष्यति ॥२-४२-१९॥
Vālmīki 2.42.20
अनभिज्ञा वनानाम् सा नूनम् भयमुपैष्यति ।श्वापदान्र्धितम् श्रुत्वा गमिभीरम् रोमहर्ष्णम् ॥२-४२-२०॥
Vālmīki 2.42.21
सकामा भवकैकेयि विधवा राज्य मावस ।न हि तम् पुरुष व्याघ्रम् विना जीवितुम् उत्सहे ॥२-४२-२१॥
Vālmīki 2.42.22
इति एवम् विलपन् राजा जन ओघेन अभिसम्वृतः ।अपस्नातैव अरिष्टम् प्रविवेश पुर उत्तमम् ॥२-४२-२२॥
Vālmīki 2.42.23
शून्य चत्वर वेश्म अन्ताम् सम्वृत आपण देवताम् ।क्लान्त दुर्बल दुह्ख आर्ताम् न अत्याकीर्ण महा पथाम् ।ताम् अवेक्ष्य पुरीम् सर्वाम् रामम् एव अनुचिन्तयन् ।विलपन् प्राविशद् राजा गृहम् सूर्यैव अम्बुदम् ॥२-४२-२३॥
Vālmīki 2.42.24
महा ह्रदम् इव अक्षोभ्यम् सुपर्णेन हृत उरगम् ।रामेण रहितम् वेश्म वैदेह्या लक्ष्मणेन च ॥२-४२-२४॥
Vālmīki 2.42.25
अथ गद्गदशब्दस्तु विलपन्मनुजाधिपः ।उवाच मृदुमन्धार्थम् वचनम् दीन मस्वरम् ॥२-४२-२५॥
Vālmīki 2.42.26
कौसल्याया गृहम् शीघ्रम् राम मातुर् नयन्तु माम् ।इति ब्रुवन्तम् राजानम् अनयन् द्वार दर्शितः ॥२-४२-२६॥
Vālmīki 2.42.27
इति ब्रुवन्तम् राजान मनयन् द्वार्दर्शिनः ।कौसल्याया गृहम् तत्र न्यवेश्यत विनीतवत् ॥२-४२-२७॥
Vālmīki 2.42.28
ततः तत्र प्रविष्टस्य कौसल्याया निवेशनम् ।अधिरुह्य अपि शयनम् बभूव लुलितम् मनः ॥२-४२-२८॥
Vālmīki 2.42.29
पुत्रद्वयविहीनम् च स्नुषयापि विवर्जितम् ।अपश्यद्भवनम् राजा नष्टचन्ध्रमिवाम्बरम् ॥२-४२-२९॥
Vālmīki 2.42.30
तच् च दृष्ट्वा महा राजो भुजम् उद्यम्य वीर्यवान् ।उच्चैः स्वरेण चुक्रोश हा राघव जहासि माम् ॥२-४२-३०॥
Vālmīki 2.42.31
सुखिता बत तम् कालम् जीविष्यन्ति नर उत्तमाः ।परिष्वजन्तः ये रामम् द्रक्ष्यन्ति पुनर् आगतम् ॥२-४२-३१॥
Vālmīki 2.42.32
अथ रात्र्याम् प्रपन्नायाम् कालरात्र्यामिआत्मनः ।अर्धरात्रे दशरथह् कौसल्यामिदमब्रवीत् ॥२-४२-३२॥
Vālmīki 2.42.33
रामम् मेऽनुगता दृष्टिरद्यापि न निवर्तते ।न त्वाम् पश्यामि कौसल्ये साधु माम् पाणिना स्पृश ॥२-४२-३३॥
Vālmīki 2.42.34
तम् रामम् एव अनुविचिन्तयन्तम् ।समीक्ष्य देवी शयने नर इन्द्रम् ।उप उपविश्य अधिकम् आर्त रूपाउप ।विनिह्श्वसन्ती विललाप कृच्च्रम् ॥२-४२-३४॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷