🪷 अयोध्याकाण्ड · Sarga 41

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 41 · 21 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.41.1
तस्मिम्स्तु पुरुषव्याघ्रे विनिर्याति कृताञ्जलौ ।आर्तशब्दोऽथ सम्जज्ञे स्त्रीणामन्तह्पुते तदा ॥२-४१-१॥
Vālmīki 2.41.2
अनाथस्य जनस्य अस्य दुर्बलस्य तपस्विनः ।यो गतिम् शरणम् च आसीत् स नाथः क्व नु गच्चति ॥२-४१-२॥
Vālmīki 2.41.3
न क्रुध्यति अभिशस्तः अपि क्रोधनीयानि वर्जयन् ।क्रुद्धान् प्रसादयन् सर्वान् सम दुह्खः क्व गच्चति ॥२-४१-३॥
Vālmīki 2.41.4
कौसल्यायाम् महा तेजा यथा मातरि वर्तते ।तथा यो वर्तते अस्मासु महात्मा क्व नु गच्चति ॥२-४१-४॥
Vālmīki 2.41.5
कैकेय्या क्लिश्यमानेन राज्ञा सम्चोदितः वनम् ।परित्राता जनस्य अस्य जगतः क्व नु गच्चति ॥२-४१-५॥
Vālmīki 2.41.6
अहो निश्चेतनो राजा जीव लोकस्य सम्प्रियम् ।धर्म्यम् सत्य व्रतम् रामम् वन वासो प्रवत्स्यति ॥२-४१-६॥
Vālmīki 2.41.7
इति सर्वा महिष्यः ता विवत्साइव धेनवः ।रुरुदुः चैव दुह्ख आर्ताः सस्वरम् च विचुक्रुशुः ॥२-४१-७॥
Vālmīki 2.41.8
स तम् अन्तः पुरे घोरम् आर्त शब्दम् मही पतिः ।पुत्र शोक अभिसम्तप्तः श्रुत्वा च आसीत् सुदुह्खितः ॥२-४१-८॥
Vālmīki 2.41.9
न अग्नि होत्राणि अहूयन्त सूर्यः च अन्तर् अधीयत ।व्यसृजन् कवलान् नागा गावो वत्सान् न पाययन् ॥२-४१-९॥
Vālmīki 2.41.10
व्यसृजन् कबलान्नागा गावो वत्सान्न पाययन् ।पुत्रम् प्रथमजम् लब्ध्वा जननी नाभ्यनन्दत ॥२-४१-१०॥
Vālmīki 2.41.11
त्रिशन्कुर् लोहित अन्गः च बृहस्पति बुधाव् अपि ।दारुणाः सोमम् अभ्येत्य ग्रहाः सर्वे व्यवस्थिताः ॥२-४१-११॥
Vālmīki 2.41.12
नक्षत्राणि गत अर्चीम्षि ग्रहाः च गत तेजसः ।विशाखाः च सधूमाः च नभसि प्रचकाशिरे ॥२-४१-१२॥
Vālmīki 2.41.13
कालिकानिलवेगेन महोदधिरिवोत्थितः ।रामे वनम् प्रव्रजिते नगरम् प्रचचाल तत् ॥२-४१-१३॥
Vālmīki 2.41.14
दिशः पर्याकुलाः सर्वा स्तिमिरेणेव सम्वृताः ।न ग्रहो नापि नक्षत्रं प्रचकाशे न किंचन ॥२-४१-१४॥
Vālmīki 2.41.15
अकस्मान् नागरः सर्वो जनो दैन्यम् उपागमत् ।आहारे वा विहारे वा न कश्चित् अकरोन् मनः ॥२-४१-१५॥
Vālmīki 2.41.16
शोकपर्यायसन्तप्तः सततं दीर्घमुच्छ्वसन् ।अयोध्यायाम् जनः सर्वः शुशोच जगतीपतिम् ॥२-४१-१६॥
Vālmīki 2.41.17
बाष्प पर्याकुल मुखो राज मार्ग गतः जनः ।न हृष्टः लक्ष्यते कश्चित् सर्वः शोक परायणः ॥२-४१-१७॥
Vālmīki 2.41.18
न वाति पवनः शीतः न शशी सौम्य दर्शनः ।न सूर्यः तपते लोकम् सर्वम् पर्याकुलम् जगत् ॥२-४१-१८॥
Vālmīki 2.41.19
अनर्थिनः सुताः स्त्रीणाम् भर्तारः भ्रातरः तथा ।सर्वे सर्वम् परित्यज्य रामम् एव अन्वचिन्तयन् ॥२-४१-१९॥
Vālmīki 2.41.20
ये तु रामस्य सुहृदः सर्वे ते मूढ चेतसः ।शोक भारेण च आक्रान्ताः शयनम् न जुहुस् तदा ॥२-४१-२०॥
Vālmīki 2.41.21
ततः तु अयोध्या रहिता महात्मना ।पुरम्दरेण इव मही सपर्वता ।चचाल घोरम् भय भार पीडिता ।सनाग योध अश्व गणा ननाद च ॥२-४१-२१॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷