🪷 अयोध्याकाण्ड · Sarga 40
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 40 · 51 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
अथ रामः च सीता च लक्ष्मणः च कृत अन्जलिः ।उपसम्गृह्य राजानम् चक्रुर् दीनाः प्रदक्षिणम् ॥२-४०-१॥
तम् च अपि समनुज्ञाप्य धर्मज्ञः सीतया सह ।राघवः शोक सम्मूढो जननीम् अभ्यवादयत् ॥२-४०-२॥
अन्वक्षम् लक्ष्मणो भ्रातुः कौसल्याम् अभ्यवादयत् ।अथ मातुः सुमित्राया जग्राह चरणौ पुनः ॥२-४०-३॥
तम् वन्दमानम् रुदती माता सौमित्रिम् अब्रवीत् ।हित कामा महा बाहुम् मूर्ध्नि उपाघ्राय लक्ष्मणम् ॥२-४०-४॥
सृष्टः त्वम् वन वासाय स्वनुरक्तः सुहृज् जने ।रामे प्रमादम् मा कार्षीः पुत्र भ्रातरि गच्चति ॥२-४०-५॥
व्यसनी वा समृद्धो वा गतिर् एष तव अनघ ।एष लोके सताम् धर्मः यज् ज्येष्ठ वशगो भवेत् ॥२-४०-६॥
इदम् हि वृत्तम् उचितम् कुलस्य अस्य सनातनम् ।दानम् दीक्षा च यज्ञेषु तनु त्यागो मृधेषु च ॥२-४०-७॥
लक्स्मणम् त्वेवम्क्त्वा सा सम्सिद्धम् प्रियराघवम् ।सुमित्रा गच्छ गच्छेति पुनः पुनरुवाच तम् ॥२-४०-८॥
रामम् दशरथम् विद्धि माम् विद्धि जनक आत्मजाम् ।अयोध्याम् अटवीम् विद्धि गच्च तात यथा सुखम् ॥२-४०-९॥
ततः सुमन्त्रः काकुत्स्थम् प्रान्जलिर् वाक्यम् अब्रवीत् ।विनीतः विनयज्ञः च मातलिर् वासवम् यथा ॥२-४०-१०॥
रथम् आरोह भद्रम् ते राज पुत्र महा यशः ।क्षिप्रम् त्वाम् प्रापयिष्यामि यत्र माम् राम वक्ष्यसि ॥२-४०-११॥
चतुर् दश हि वर्षाणि वस्तव्यानि वने त्वया ।तानि उपक्रमितव्यानि यानि देव्या असि चोदितः ॥२-४०-१२॥
तम् रथम् सूर्य सम्काशम् सीता हृष्टेन चेतसा ।आरुरोह वर आरोहा कृत्वा अलम्कारम् आत्मनः ॥२-४०-१३॥
तथैव आयुध जातानि भ्रातृभ्याम् कवचानि च ।रथ उपस्थे प्रतिन्यस्य सचर्म कठिनम् च तत् ॥२-४०-१४॥
वनवासम् हि सम्ख्यय वासाम्स्याभरणानि च ।भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ॥२-४०-१५॥
तथैवायुधजालानि भ्रातृभ्याम् कवचानि च ।रथोपस्थे प्रतिन्यस्य सचर्म कठिनम् च तत् ॥२-४०-१६॥
सीता तृतीयान् आरूढान् दृष्ट्वा धृष्टम् अचोदयत् ।सुमन्त्रः सम्मतान् अश्वान् वायु वेग समान् जवे ॥२-४०-१७॥
प्रयाते तु महा अरण्यम् चिर रात्राय राघवे ।बभूव नगरे मूर्च्चा बल मूर्च्चा जनस्य च ॥२-४०-१८॥
तत् समाकुल सम्भ्रान्तम् मत्त सम्कुपित द्विपम् ।हय शिन्जित निर्घोषम् पुरम् आसीन् महा स्वनम् ॥२-४०-१९॥
ततः सबाल वृद्धा सा पुरी परम पीडिता ।रामम् एव अभिदुद्राव घर्म आर्तः सलिलम् यथा ॥२-४०-२०॥
पार्श्वतः पृष्ठतः च अपि लम्बमानाः तत् उन्मुखाः ।बाष्प पूर्ण मुखाः सर्वे तम् ऊचुर् भृश दुह्खिताः ॥२-४०-२१॥
सम्यच्च वाजिनाम् रश्मीन् सूत याहि शनैः शनैः ।मुखम् द्रक्ष्यामि रामस्य दुर्दर्शम् नो भविष्यति ॥२-४०-२२॥
आयसम् हृदयम् नूनम् राम मातुर् असम्शयम् ।यद् देव गर्भ प्रतिमे वनम् याति न भिद्यते ॥२-४०-२३॥
कृत कृत्या हि वैदेही चाया इव अनुगता पतिम् ।न जहाति रता धर्मे मेरुम् अर्क प्रभा यथा ॥२-४०-२४॥
अहो लक्ष्मण सिद्ध अर्थः सतताम् प्रिय वादिनम् ।भ्रातरम् देव सम्काशम् यः त्वम् परिचरिष्यसि ॥२-४०-२५॥
महति एषा हि ते सिद्धिर् एष च अभ्युदयो महान् ।एष स्वर्गस्य मार्गः च यद् एनम् अनुगच्चसि ॥२-४०-२६॥
एवम् वदन्तः ते सोढुम् न शेकुर् बाष्पम् आगतम् ।अथ राजा वृतः स्त्रीभिर् दीनाभिर् दीन चेतनः ॥२-४०-२७॥
अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः ।निर्जगाम प्रियम् पुत्रम् द्रक्ष्यामि इति ब्रुवन् गृहात् ॥२-४०-२८॥
शुश्रुवे च अग्रतः स्त्रीनाम् रुदन्तीनाम् महा स्वनः ।यथा नादः करेणूनाम् बद्धे महति कुन्जरे ॥२-४०-२९॥
पिता च राजा काकुत्स्थः श्रीमान् सन्नः तदा बभौ ।परिपूर्णः शशी काले ग्रहेण उपप्लुतः यथा ॥२-४०-३०॥
स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः ।सूतम् सम्चोदयामास त्वरितम् वाह्यतामिति ॥२-४०-३१॥
रामो याहीति सूतम् तम् तिष्ठेति स जनस्तदा ।उभयम् नाशकत्सूतः कर्तुमध्वनि चोदितः ॥२-४०-३२॥
निर्गच्छति महाबाहौ रामे पौरजनाश्रुभिः ।पतितैरभ्यवहितम् प्रशशाम महीरजः ॥२-४०-३३॥
रुदिताश्रुपरिद्यूनम् हाहाकृतमचेतनम् ।प्रयाणे राघवस्यासीत्पुरम् परमपीडितम् ॥२-४०-३४॥
सुस्राव नयनैः स्त्रीणामस्रमायाससम्भवम् ।मीनसम्क्षोभचलितैः सलिलम् पङ्कजैरिव ॥२-४०-३५॥
दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतम् पुरम् ।निपपातैव दुःखेन हतमूल इव द्रुमः ॥२-४०-३६॥
ततओ हल हला शब्दो जज्ञे रामस्य पृष्ठतः ।नराणाम् प्रेक्ष्य राजानम् सीदन्तम् भृश दुह्खितम् ॥२-४०-३७॥
हा राम इति जनाः केचित् राम माता इति च अपरे ।अन्तः पुरम् समृद्धम् च क्रोशन्तम् पर्यदेवयन् ॥२-४०-३८॥
अन्वीक्षमाणो रामः तु विषण्णम् भ्रान्त चेतसम् ।राजानम् मातरम् चैव ददर्श अनुगतौ पथि ॥२-४०-३९॥
स बद्ध इव पाशेन किशोरो मातरम् यथा ।धर्मपाशेन सम्क्षिप्तः प्रकाशम् नाभुदैक्षत ॥२-४०-४०॥
पदातिनौ च यान अर्हाव् अदुह्ख अर्हौ सुख उचितौ ।दृष्ट्वा सम्चोदयाम् आस शीघ्रम् याहि इति सारथिम् ॥२-४०-४१॥
न हि तत् पुरुष व्याघ्रः दुह्खदम् दर्शनम् पितुः ।मातुः च सहितुम् शक्तः तोत्र अर्दितैव द्विपः ॥२-४०-४२॥
प्रत्यगारमिवायान्ती वत्सला वत्सकारणात् ।बद्धवत्सा यथा धेनू राममाताभ्याधावत ॥२-४०-४३॥
तथा रुदन्तीम् कौसल्याम् रथम् तम् अनुधावतीम् ।क्रोशन्तीम् राम राम इति हा सीते लक्ष्मण इति च ॥२-४०-४४॥
रामलक्ष्मणसीतार्थम् स्रवन्तीम् वारि नेत्रजम् ।असकृत् प्रैक्षत तदा नृत्यन्तीम् इव मातरम् ॥२-४०-४५॥
तिष्ठ इति राजा चुक्रोष याहि याहि इति राघवः ।सुमन्त्रस्य बभूव आत्मा चक्रयोः इव च अन्तरा ॥२-४०-४६॥
न अश्रौषम् इति राजानम् उपालब्धो अपि वक्ष्यसि ।चिरम् दुह्खस्य पापिष्ठम् इति रामः तम् अब्रवीत् ॥२-४०-४७॥
रामस्य स वचः कुर्वन्न् अनुज्ञाप्य च तम् जनम् ।व्रजतः अपि हयान् शीघ्रम् चोदयाम् आस सारथिः ॥२-४०-४८॥
न्यवर्तत जनो राज्ञो रामम् कृत्वा प्रदक्षिणम् ।मनसा अपि अश्रु वेगैः च न न्यवर्तत मानुषम् ॥२-४०-४९॥
यम् इच्चेत् पुनर् आयान्तम् न एनम् दूरम् अनुव्रजेत् ।इति अमात्या महा राजम् ऊचुर् दशरथम् वचः ॥२-४०-५०॥
तेषाम् वचः सर्व गुण उपपन्नम् ।प्रस्विन्न गात्रः प्रविषण्ण रूपः ।निशम्य राजा कृपणः सभार्यो ।व्यवस्थितः तम् सुतम् ईक्षमाणः ॥२-४०-५१॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 39
- Next: Ayodhyā-Kāṇḍa Sarga 41 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷