🪷 अयोध्याकाण्ड · Sarga 39

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 39 · 41 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.39.1
रामस्य तु वचः श्रुत्वा मुनि वेष धरम् च तम् ।समीक्ष्य सह भार्याभी राजा विगत चेतनः ॥२-३९-१॥
Vālmīki 2.39.2
न एनम् दुह्खेन सम्तप्तः प्रत्यवैक्षत राघवम् ।न च एनम् अभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः ॥२-३९-२॥
Vālmīki 2.39.3
स मुहूर्तम् इव असम्ज्ञो दुह्खितः च मही पतिः ।विललाप महा बाहू रामम् एव अनुचिन्तयन् ॥२-३९-३॥
Vālmīki 2.39.4
मन्ये खलु मया पूर्वम् विवत्सा बहवः कृताः ।प्राणिनो हिम्सिता वा अपि तस्मात् इदम् उपस्थितम् ॥२-३९-४॥
Vālmīki 2.39.5
न तु एव अनागते काले देहाच् च्यवति जीवितम् ।कैकेय्या क्लिश्यमानस्य मृत्युर् मम न विद्यते ॥२-३९-५॥
Vālmīki 2.39.6
मो अहम् पावक सम्काशम् पश्यामि पुरतः स्थितम् ।विहाय वसने सूक्ष्मे तापस आच्चादम् आत्मजम् ॥२-३९-६॥
Vālmīki 2.39.7
एकस्याः खलु कैकेय्याः कृते अयम् क्लिश्यते जनः ।स्व अर्थे प्रयतमानायाः सम्श्रित्य निकृतिम् त्विमाम् ॥२-३९-७॥
Vālmīki 2.39.8
एवम् उक्त्वा तु वचनम् बाष्पेण पिहित ईक्ष्णह ।राम इति सकृद् एव उक्त्वा व्याहर्तुम् न शशाक ह ॥२-३९-८॥
Vālmīki 2.39.9
सम्ज्ञाम् तु प्रतिलभ्य एव मुहूर्तात् स मही पतिः ।नेत्राभ्याम् अश्रु पूर्णाभ्याम् सुमन्त्रम् इदम् अब्रवीत् ॥२-३९-९॥
Vālmīki 2.39.10
औपवाह्यम् रथम् युक्त्वा त्वम् आयाहि हय उत्तमैः ।प्रापय एनम् महा भागम् इतः जन पदात् परम् ॥२-३९-१०॥
Vālmīki 2.39.11
एवम् मन्ये गुणवताम् गुणानाम् फलम् उच्यते ।पित्रा मात्रा च यत् साधुर् वीरः निर्वास्यते वनम् ॥२-३९-११॥
Vālmīki 2.39.12
राज्ञो वचनम् आज्ञाय सुमन्त्रः शीघ्र विक्रमः ।योजयित्वा आययौ तत्र रथम् अश्वैः अलम्कृतम् ॥२-३९-१२॥
Vālmīki 2.39.13
तम् रथम् राज पुत्राय सूतः कनक भूषितम् ।आचचक्षे अन्जलिम् कृत्वा युक्तम् परम वाजिभिः ॥२-३९-१३॥
Vālmīki 2.39.14
राजा सत्वरम् आहूय व्यापृतम् वित्त सम्चये ।उवाच देश कालज्ञो निश्चितम् सर्वतः शुचि ॥२-३९-१४॥
Vālmīki 2.39.15
वासाम्सि च महा अर्हाणि भूषणानि वराणि च ।वर्षाणि एतानि सम्ख्याय वैदेह्याः क्षिप्रम् आनय ॥२-३९-१५॥
Vālmīki 2.39.16
नर इन्द्रेण एवम् उक्तः तु गत्वा कोश गृहम् ततः ।प्रायच्चत् सर्वम् आहृत्य सीतायै क्षिप्रम् एव तत् ॥२-३९-१६॥
Vālmīki 2.39.17
सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् ।भूषयाम् आस गात्राणि तैः विचित्रैः विभूषणैः ॥२-३९-१७॥
Vālmīki 2.39.18
व्यराजयत वैदेही वेश्म तत् सुविभूषिता ।उद्यतः अम्शुमतः काले खम् प्रभा इव विवस्वतः ॥२-३९-१८॥
Vālmīki 2.39.19
ताम् भुजाभ्याम् परिष्वज्य श्वश्रूर् वचनम् अब्रवीत् ।अनाचरन्तीम् कृपणम् मूध्नि उपाघ्राय मैथिलीम् ॥२-३९-१९॥
Vālmīki 2.39.20
असत्यः सर्व लोके अस्मिन् सततम् सत्कृताः प्रियैः ।भर्तारम् न अनुमन्यन्ते विनिपात गतम् स्त्रियः ॥२-३९-२०॥
Vālmīki 2.39.21
एष स्वभावो नारीणामनुभूय पुरा सुखम् ।अल्पामप्यापदम् प्राप्य दुष्यन्ति प्रजहत्यपि ॥२-३९-२१॥
Vālmīki 2.39.22
असत्यशीला विकृता दुर्र्गाह्याहृदयास्तथा ।युवत्यः पापसम्कल्पाः क्षणमात्राद्विरागिणः ॥२-३९-२२॥
Vālmīki 2.39.23
न कुलम् न कृतम् विद्या न दत्तम् नापि सम्ग्रहः ।स्त्रीणाम् गृह्णाति हृदयमनित्यहृदया हि ताः ॥२-३९-२३॥
Vālmīki 2.39.24
साध्वीनाम् हि स्थितानाम् तु शीले सत्ये श्रुते शमे ।स्त्रीणाम् पवित्रम् परमम् पतिरेको विशिष्यते ॥२-३९-२४॥
Vālmīki 2.39.25
स त्वया न अवमन्तव्यः पुत्रः प्रव्राजितः मम ।तव दैवतम् अस्तु एष निर्धनः सधनो अपि वा ॥२-३९-२५॥
Vālmīki 2.39.26
विज्ञाय वचनम् सीता तस्या धर्म अर्थ सम्हितम् ।कृत अन्जलिर् उवाच इदम् श्वश्रूम् अभिमुखे स्थिता ॥२-३९-२६॥
Vālmīki 2.39.27
करिष्ये सर्वम् एव अहम् आर्या यद् अनुशास्ति माम् ।अभिज्ञा अस्मि यथा भर्तुर् वर्तितव्यम् श्रुतम् च मे ॥२-३९-२७॥
Vālmīki 2.39.28
न माम् असज् जनेन आर्या समानयितुम् अर्हति ।धर्मात् विचलितुम् न अहम् अलम् चन्द्रात् इव प्रभा ॥२-३९-२८॥
Vālmīki 2.39.29
न अतन्त्री वाद्यते वीणा न अचक्रः वर्तते रथः ।न अपतिः सुखम् एधते या स्यात् अपि शत आत्मजा ॥२-३९-२९॥
Vālmīki 2.39.30
मितम् ददाति हि पिता मितम् माता मितम् सुतः ।अमितस्य हि दातारम् भर्तारम् का न पूजयेत् ॥२-३९-३०॥
Vālmīki 2.39.31
सा अहम् एवम् गता श्रेष्ठा श्रुत धर्म पर अवरा ।आर्ये किम् अवमन्येयम् स्त्रीणाम् भर्ता हि दैवतम् ॥२-३९-३१॥
Vālmīki 2.39.32
सीताया वचनम् श्रुत्वा कौसल्या हृदयम् गमम् ।शुद्ध सत्त्वा मुमोच अश्रु सहसा दुह्ख हर्षजम् ॥२-३९-३२॥
Vālmīki 2.39.33
ताम् प्रान्जलिर् अभिक्रम्य मातृ मध्ये अतिसत्कृताम् ।रामः परम धर्मज्ञो मातरम् वाक्यम् अब्रवीत् ॥२-३९-३३॥
Vālmīki 2.39.34
अम्ब मा दुह्खिता भूस् त्वम् पश्य त्वम् पितरम् मम ।क्षयो हि वन वासस्य क्षिप्रम् एव भविष्यति ॥२-३९-३४॥
Vālmīki 2.39.35
सुप्तायाः ते गमिष्यन्ति नव वर्षाणि पन्च च ।सा समग्रम् इह प्राप्तम् माम् द्रक्ष्यसि सुहृद् वृतम् ॥२-३९-३५॥
Vālmīki 2.39.36
एतावद् अभिनीत अर्थम् उक्त्वा स जननीम् वचः ।त्रयः शत शत अर्धा हि ददर्श अवेक्ष्य मातरः ॥२-३९-३६॥
Vālmīki 2.39.37
ताः च अपि स तथैव आर्ता मातृऋर् दशरथ आत्मजः ।धर्म युक्तम् इदम् वाक्यम् निजगाद कृत अन्जलिः ॥२-३९-३७॥
Vālmīki 2.39.38
सम्वासात् परुषम् किम्चित् अज्ञानात् वा अपि यत् कृतम् ।तन् मे समनुजानीत सर्वाः च आमन्त्रयामि वः ॥२-३९-३८॥
Vālmīki 2.39.39
वचनम् राघवस्यैतद्धर्मयुक्तम् समाहितम् ।शुश्रुवु स्ताः स्त्रियम् सर्वाः शोकोपहतचेतसः ॥२-३९-३९॥
Vālmīki 2.39.40
जज्ञे अथ तासाम् सम्नादः क्रौन्चीनाम् इव निह्स्वनः ।मानव इन्द्रस्य भार्याणाम् एवम् वदति राघवे ॥२-३९-४०॥
Vālmīki 2.39.41
मुरज पणव मेघ घोषव ।द्दशरथ वेश्म बभूव यत् पुरा ।विलपित परिदेवन आकुलम् ।व्यसन गतम् तत् अभूत् सुदुह्खितम् ॥२-३९-४१॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷