🪷 अयोध्याकाण्ड · Sarga 38

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 38 · 18 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.38.1
तस्याम् चीरम् वसानायाम् नाथवत्याम् अनाथवत् ।प्रचुक्रोश जनः सर्वो धिग् त्वाम् दशरथम् तु इति ॥२-३८-१॥
Vālmīki 2.38.2
तेन तत्र प्रणादेन दुःखितस्स महीपतिः ।चिच्छेद जीविते श्रद्धाम् धर्मे यशसि चात्मनः ॥२-३८-२॥
Vālmīki 2.38.3
स निह्श्वस्य उष्णम् ऐक्ष्वाकः ताम् भार्याम् इदम् अब्रवीत् ।कैकेयि कुश चीरेण न सीता गन्तुम् अर्हति ॥२-३८-३॥
Vālmīki 2.38.4
सुकुमारी च बाला च सततम् च सुखोचिता ।नेयम् वनस्य योग्येति सत्यमाह गुरुर्मम ॥२-३८-४॥
Vālmīki 2.38.5
इयम् हि कश्यापकरोति किम्चि ।त्तपस्विनी राजवरस्य कन्या ।या चीरमासाद्य जनस्य मध्ये ।स्थिता विसम्ज्ञा श्रमणीव काचित् ॥२-३८-५॥
Vālmīki 2.38.6
चीराण्यसास्या जनकस्य कन्या ।नेयम् प्रतिज्ञा मम दत्तपूर्वा ।यथासुखम् गच्छतु राजपुत्री ।वनम् सम्ग्रा सह सर्वर्त्नैः ॥२-३८-६॥
Vālmīki 2.38.7
अजीवनार्हेण मया नृशम्सा ।कृता प्रतिज्ञा नियमेन तावत् ।त्वया हि बाल्यात् प्रतिपन्नमेतत् ।त्न्माम् दहेद् वेणुमिवात्मपुष्पम् ॥२-३८-७॥
Vālmīki 2.38.8
रामेण यदि ते पा पे किम्चित्कृतमशोभनम् ।अपकारः क इह ते वैदेह्या दर्शितोऽधमे ॥२-३८-८॥
Vālmīki 2.38.9
मृगीवोत्फुल्लनयना मृदुशीला तपस्विनी ।अपकारम् कमिह ते करोति जनकात्मजा ॥२-३८-९॥
Vālmīki 2.38.10
ननु पर्याप्तम् एतत् ते पापे राम विवासनम् ।किम् एभिः कृपणैः भूयः पातकैः अपि ते कृतैः ॥२-३८-१०॥
Vālmīki 2.38.11
प्रतिज्ञातम् मया तावत् त्वयोक्तम् देवि शृण्वता ।रामम् यदभिषेकाय त्वमिहाअत मब्रवीः ॥२-३८-११॥
Vālmīki 2.38.12
तत्त्वेतत्समतिक्रम्य निरयम् गन्तुमिच्छसि ।मैथिलीमपि या हि त्व मीक्षसे चीरवासिनीम् ॥२-३८-१२॥
Vālmīki 2.38.13
इतीव राजा विलपन्महात्मा ।शोकस्य नान्तम् स ददर्श किम्चित् ।भृशातुरत्वाच्च पपात भूमौ ।तेनैव पुत्रव्यसनेन मग्नः ॥२-३८-१३॥
Vālmīki 2.38.14
एवम् ब्रुवन्तम् पितरम् रामः सम्प्रस्थितः वनम् ।अवाक् शिरसम् आसीनम् इदम् वचनम् अब्रवीत् ॥२-३८-१४॥
Vālmīki 2.38.15
इयम् धार्मिक कौसल्या मम माता यशस्विनी ।वृद्धा च अक्षुद्र शीला च न च त्वाम् देव गर्हिते ॥२-३८-१५॥
Vālmīki 2.38.16
मया विहीनाम् वरद प्रपन्नाम् शोक सागरम् ।अदृष्ट पूर्व व्यसनाम् भूयः सम्मन्तुम् अर्हसि ॥२-३८-१६॥
Vālmīki 2.38.17
पुत्रशोकम् यथा नर्चेत्त्वया पूज्येन पूजिता ।माम् हि सम्चिन्तयन्ती सा त्वयि जीवेत् तपस्विनी ॥२-३८-१७॥
Vālmīki 2.38.18
इमाम् महा इन्द्र उपम जात गर्भिनीम् ।तथा विधातुम् जनमीम् मम अर्हसि ।यथा वनस्थे मयि शोक कर्शिता ।न जीवितम् न्यस्य यम क्षयम् व्रजेत् ॥२-३८-१८॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷