🪷 अयोध्याकाण्ड · Sarga 47

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 47 · 19 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 2.47local sarga route with all Sanskrit ślokasAyodhyā-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.47.1
प्रभातायाम् तु शर्वर्याम् पौराः ते राघवो विना ।शोक उपहत निश्चेष्टा बभूवुर् हत चेतसः ॥२-४७-१॥
Vālmīki 2.47.2
शोकज अश्रु परिद्यूना वीक्षमाणाः ततः ततः ।आलोकम् अपि रामस्य न पश्यन्ति स्म दुह्खिताः ॥२-४७-२॥
Vālmīki 2.47.3
ते विषादार्तवदना रहितास्तेन धिमता ।कृपणाः करुणा वाचो वदन्ति स्म मनस्विनः ॥२-४७-३॥
Vālmīki 2.47.4
धिगस्तु खलु निद्राम् ताम् ययापहृतचेतसः ।नाद्य पश्यामहे रामम् पृथूरस्कम् महाभुजम् ॥२-४७-४॥
Vālmīki 2.47.5
कथम् नाम महाबाहुः स तथाऽवितथक्रियः ।भक्तम् जनम् परित्यज्य प्रवासम् राघवो गतः ॥२-४७-५॥
Vālmīki 2.47.6
यो नः सदा पालयति पिता पुत्रानिवौरसान् ।कथम् रघूणाम् स श्रेष्ठस्त्यक्त्वा नो विपिनम् गतः ॥२-४७-६॥
Vālmīki 2.47.7
इहैव निधनम् यामो महाप्रस्थानमेव वा ।रामेण रहितानाम् हि किमर्थम् जीवितम् हि नः ॥२-४७-७॥
Vālmīki 2.47.8
सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च ।तैः प्रज्वाल्य चिताम् सर्वे प्रविशामोऽथ पावकम् ॥२-४७-८॥
Vālmīki 2.47.9
किम् व्ख्स्यामो महाबाहुरनसूयः प्रियम्वद ।नीतः स राघवोऽस्माभिर्ति वक्तुम् कथम् क्षमम् ॥२-४७-९॥
Vālmīki 2.47.10
सा नूनम् नगरी दीना दृष्ट्वाऽस्मान् राघवम् विना ।भविष्यति निरानन्दा सस्त्रीबालवयोधिका ॥२-४७-१०॥
Vālmīki 2.47.11
निर्यातास्तेन वीरेण सह नित्यम् जितात्मना ।विहिनास्तेन च पुनः कथम् पश्याम ताम् पुरीम् ॥२-४७-११॥
Vālmīki 2.47.12
इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः ।विलपन्तिस्म दुःखर्ता विवत्सा इव धेनवः ॥२-४७-१२॥
Vālmīki 2.47.13
ततः मार्ग अनुसारेण गत्वा किम्चित् क्षणम् पुनःमार्ग नाशात् विषादेन महता समभिप्लुतः ॥२-४७-१३॥
Vālmīki 2.47.14
रथस्य मार्ग नाशेन न्यवर्तन्त मनस्विनः ।किम् इदम् किम् करिष्यामः दैवेन उपहताइति ॥२-४७-१४॥
Vālmīki 2.47.15
ततः यथा आगतेन एव मार्गेण क्लान्त चेतसः ।अयोध्याम् अगमन् सर्वे पुरीम् व्यथित सज्जनाम् ॥२-४७-१५॥
Vālmīki 2.47.16
आलोक्य नगरीम् ताम् च क्षयव्याकुलमानसाः ।आवर्तयन्त तऽश्रूणि नयनैः शोकपीडितैः ॥२-४७-१६॥
Vālmīki 2.47.17
एषा रामेण नगरी रहिता नातिशोभते ।आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा ॥२-४७-१७॥
Vālmīki 2.47.18
चन्द्रहीनमिवाकाशम् तोयहीनमिवार्णवम् ।अपश्यन्निहतानन्दम् नगरम् ते विचेतसः ॥२-४७-१८॥
Vālmīki 2.47.19
ते तानि वेश्मानि महाधनानि ।दुःखेन दुःखोपहता विशन्तः ।नैव प्रजज्ञुः स्वजनम् जनम् वा ।निरीक्षमाणाः प्रविणष्टहर्षाः ॥२-४७-१९॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷