🪷 अयोध्याकाण्ड · Sarga 48
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 48 · 37 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
तेषामेवम् विष्ण्णानाम्पीडितानामतीव च ।बाष्पविप्लुतनेत्राणाम् सशोकानाम् मुमूर्षया ॥२-४८-१॥
अनुगम्य निवृत्तानाम् रामम् नगर वासिनाम् ।उद्गतानि इव सत्त्वानि बभूवुर् अमनस्विनाम् ॥२-४८-२॥
स्वम् स्वम् निलयम् आगम्य पुत्र दारैः समावृताः ।अश्रूणि मुमुचुः सर्वे बाष्पेण पिहित आननाः ॥२-४८-३॥
न च आहृष्यन् न च अमोदन् वणिजो न प्रसारयन् ।न च अशोभन्त पण्यानि न अपचन् गृह मेधिनः ॥२-४८-४॥
नष्टम् दृष्ट्वा न अभ्यनन्दन् विपुलम् वा धन आगमम् ।पुत्रम् प्रथमजम् लब्ध्वा जननी न अभ्यनन्दत ॥२-४८-५॥
गृहे गृहे रुदन्त्यः च भर्तारम् गृहम् आगतम् ।व्यगर्हयन्तः दुह्ख आर्ता वाग्भिस् तोत्रैः इव द्विपान् ॥२-४८-६॥
किम् नु तेषाम् गृहैः कार्यम् किम् दारैः किम् धनेन वा ।पुत्रैः वा किम् सुखैः वा अपि ये न पश्यन्ति राघवम् ॥२-४८-७॥
एकः सत् पुरुषो लोके लक्ष्मणः सह सीतया ।यो अनुगच्चति काकुत्स्थम् रामम् परिचरन् वने ॥२-४८-८॥
आपगाः कृत पुण्याः ताः पद्मिन्यः च सराम्सि च ।येषु स्नास्यति काकुत्स्थो विगाह्य सलिलम् शुचि ॥२-४८-९॥
शोभयिष्यन्ति काकुत्स्थम् अटव्यो रम्य काननाः ।आपगाः च महा अनूपाः सानुमन्तः च पर्वताः ॥२-४८-१०॥
काननम् वा अपि शैलम् वा यम् रामः अभिगमिष्यति ।प्रिय अतिथिम् इव प्राप्तम् न एनम् शक्ष्यन्ति अनर्चितुम् ॥२-४८-११॥
विचित्र कुसुम आपीडा बहु मन्जलि धारिणः ।अकाले च अपि मुख्यानि पुष्पाणि च फलानि च ॥२-४८-१२॥
अकाले चापि मुख्यानि पुष्पाणि च फलानि च ।दर्शयिष्यन्ति अनुक्रोशात् गिरयो रामम् आगतम् ॥२-४८-१३॥
प्रस्रविष्यन्ति तोयानि विमलानि महीधराः ।विदर्शयन्तः विविधान् भूयः चित्रामः च निर्झरान् ॥२-४८-१४॥
पादपाः पर्वत अग्रेषु रमयिष्यन्ति राघवम् ।यत्र रामः भयम् न अत्र न अस्ति तत्र पराभवः ॥२-४८-१५॥
स हि शूरः महा बाहुः पुत्रः दशरथस्य च ।पुरा भवति नो दूरात् अनुगच्चाम राघवम् ॥२-४८-१६॥
पादच् चाया सुखा भर्तुस् तादृशस्य महात्मनः ।स हि नाथो जनस्य अस्य स गतिः स परायणम् ॥२-४८-१७॥
वयम् परिचरिष्यामः सीताम् यूयम् तु राघवम् ।इति पौर स्त्रियो भर्तृऋन् दुह्ख आर्ताः तत् तत् अब्रुवन् ॥२-४८-१८॥
युष्माकम् राघवो अरण्ये योग क्षेमम् विधास्यति ।सीता नारी जनस्य अस्य योग क्षेमम् करिष्यति ॥२-४८-१९॥
को न्व् अनेन अप्रतीतेन स उत्कण्ठित जनेन च ।सम्प्रीयेत अमनोज्ञेन वासेन हृत चेतसा ॥२-४८-२०॥
कैकेय्या यदि चेद् राज्यम् स्यात् अधर्म्यम् अनाथवत् ।न हि नो जीवितेन अर्थः कुतः पुत्रैः कुतः धनैः ॥२-४८-२१॥
यया पुत्रः च भर्ता च त्यक्ताव् ऐश्वर्य कारणात् ।कम् सा परिहरेद् अन्यम् कैकेयी कुल पाम्सनी ॥२-४८-२२॥
कैकेय्या न वयम् राज्ये भृतका निवसेमहि ।जीवन्त्या जातु जीवन्त्यः पुत्रैः अपि शपामहे ॥२-४८-२३॥
या पुत्रम् पार्थिव इन्द्रस्य प्रवासयति निर्घृणा ।कः ताम् प्राप्य सुखम् जीवेद् अधर्म्याम् दुष्ट चारिणीम् ॥२-४८-२४॥
उपद्रुतमिदम् सर्वमनालम्बमनायकम् ।कैकेय्या हि कृते सर्वम् विनाशमुपयास्यति ॥२-४८-२५॥
न हि प्रव्रजिते रामे जीविष्यति मही पतिः ।मृते दशरथे व्यक्तम् विलोपः तत् अनन्तरम् ॥२-४८-२६॥
ते विषम् पिबत आलोड्य क्षीण पुण्याः सुदुर्गताः ।राघवम् वा अनुगच्चध्वम् अश्रुतिम् वा अपि गच्चत ॥२-४८-२७॥
मिथ्या प्रव्राजितः रामः सभार्यः सह लक्ष्मणः ।भरते सम्निषृष्टाः स्मः सौनिके पशवो यथा ॥२-४८-२८॥
पूर्णचन्द्राननः श्यामो गूढजत्रुररिंदमः ।आजानुबाहुः पद्माक्षो रामो लक्ष्मनपूर्वजः ॥२-४८-२९॥
पूर्वाभिभाषी मधुरः सत्यवादी महाबलः ।सौम्यः सर्वस्य लोकस्य चन्द्रवत्प्रियदर्शनः ॥२-४८-३०॥
नूनम् पुरुषशार्दूलो मत्तमातङ्गविक्रमः ।शोभयुश्यत्यरण्यानि विचरन् स महारथः ॥२-४८-३१॥
तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः ।चुक्रुशुर्दुःखसम्तप्तामृत्योरिव भयागमे ॥२-४८-३२॥
इत्येव विलपन्तीनाम् स्त्रीणाम् वेश्मसु राघवम् ।जगामास्तम् दिनकरो रजनी चाभ्यवर्तत ॥२-४८-३३॥
नष्टज्वलनसम्पाता प्रशान्ताध्यायसत्कथा ।तिमिरेणाभिलिप्तेव तदा सा नगरी बभौ ॥२-४८-३४॥
उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया ।अयोध्या नगरी चासीन्नष्टतारमिवाम्बरम् ॥२-४८-३५॥
तथा स्त्रियो राम निमित्तम् आतुरा ।यथा सुते भ्रातरि वा विवासिते ।विलप्य दीना रुरुदुर् विचेतसः ।सुतैः हि तासाम् अधिको हि सो अभवत् ॥२-४८-३६॥
प्रशान्तगीतोत्सव नृत्तवादना ।व्यपास्तहर्षा पिहितापणोदया ।तदा ह्ययोध्या नगरी बभूव सा ।महार्णवः सम्क्षपितोदको यथा ॥२-४८-३७॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 47
- Next: Ayodhyā-Kāṇḍa Sarga 49 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷