🪷 अयोध्याकाण्ड · Sarga 32
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 32 · 44 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
ततः शासनम् आज्ञाय भ्रातुः शुभतरम् प्रियम् ।गत्वा स प्रविवेश आशु सुयज्ञस्य निवेशनम् ॥२-३२-१॥
तम् विप्रम् अग्नि अगारस्थम् वन्दित्वा लक्ष्मणो अब्रवीत् ।सखे अभ्यागच्च पश्य त्वम् वेश्म दुष्कर कारिणः ॥२-३२-२॥
ततः सम्ध्याम् उपास्य आशु गत्वा सौमित्रिणा सह ।जुष्टम् तत् प्राविशल् लक्ष्म्या रम्यम् राम निवेशनम् ॥२-३२-३॥
तम् आगतम् वेदविदम् प्रान्जलिः सीतया सह ।सुयज्ञम् अभिचक्राम राघवो अग्निम् इव अर्चितम् ॥२-३२-४॥
जात रूपमयैः मुख्यैः अन्गदैः कुण्डलैः शुभैः ।सहेम सूत्रैः मणिभिः केयूरैः वलयैः अपि ॥२-३२-५॥
अन्यैः च रत्नैः बहुभिः काकुत्स्थः प्रत्यपूजयत् ।सुयज्ञम् स तदा उवाच रामः सीता प्रचोदितः ॥२-३२-६॥
हारम् च हेम सूत्रम् च भार्यायै सौम्य हारय ।रशनाम् च अधुना सीता दातुम् इच्चति ते सखे ॥२-३२-७॥
अङ्गदानि विचित्राणि केयूराणि शुभानि च ।पर्यन्कम् अग्र्य आस्तरणम् नाना रत्न विभूषितम् ॥२-३२-८॥
पर्यङ्कमग्र्यास्तरणम् नानारत्नविभूषितम् ।तम् अपि इच्चति वैदेही प्रतिष्ठापयितुम् त्वयि ॥२-३२-९॥
नागः शत्रुम् जयो नाम मातुलो यम् ददौ मम ।तम् ते गज सहस्रेण ददामि द्विज पुम्गव ॥२-३२-१०॥
इति उक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत् ।राम लक्ष्मण सीतानाम् प्रयुयोज आशिषः शिवाः ॥२-३२-११॥
अथ भ्रातरम् अव्यग्रम् प्रियम् रामः प्रियम् वदः ।सौमित्रिम् तम् उवाच इदम् ब्रह्मा इव त्रिदश ईश्वरम् ॥२-३२-१२॥
अगस्त्यम् कौशिकम् चैव ताव् उभौ ब्राह्मण उत्तमौ ।अर्चय आहूय सौमित्रे रत्नैः सस्यम् इव अम्बुभिः ॥२-३२-१३॥
तर्पयस्व महाबाहो गोसहसरैश्च मानद ।सुवर्णै रजतैश्चैव मणिभिश्च महाधनैः ॥२-३२-१४॥
कौसल्याम् च याअशीर्भिर् भक्तः पर्युपतिष्ठति ।आचार्यः तैत्तिरीयाणाम् अभिरूपः च वेदवित् ॥२-३२-१५॥
तस्य यानम् च दासीः च सौमित्रे सम्प्रदापय ।कौशेयानि च वस्त्राणि यावत् तुष्यति स द्विजः ॥२-३२-१६॥
सूतः चित्र रथः च आर्यः सचिवः सुचिर उषितः ।तोषय एनम् महा अर्हैः च रत्नैः वस्त्रैः धनैअः तथा ॥२-३२-१७॥
पशुकाभिकछ सर्वाभिर्गवाम् दशशतेन च ।ये चेमे कथकालापा बहवो दण्डमाणवाः ॥२-३२-१८॥
नित्यस्वाध्यायशीलत्वान्नान्यत्कुर्वन्ति किम्चन ।अलसाः स्वादुकामाश्च महताम् चापि सम्मताः ॥२-३२-१९॥
शालि वाह सहस्रम् च द्वे शते भद्रकाम्स् तथा ।व्यन्जन अर्थम् च सौमित्रे गो सहस्रम् उपाकुरु ॥२-३२-२०॥
मेखलीनाम् महासघः कौसल्याम् समुपस्थितः ।तेषाम् सहस्रम् सौमित्रे प्रत्येकम् सम्प्रदापय ॥२-३२-२१॥
अम्बा यथा च सा नन्देत्कौसल्या मम दक्षिणाम् ।तथा द्विजातीम् स्तान्सर्वान् लक्ष्मणार्च ॥२-३२-२२॥
ततः स पुरुष व्याघ्रः तत् धनम् लक्ष्मणः स्वयम् ।यथा उक्तम् ब्राह्मण इन्द्राणाम् अददात् धनदो यथा ॥२-३२-२३॥
अथ अब्रवीद् बाष्प कलाम्स् तिष्ठतः च उपजीविनः ।सम्प्रदाय बहु द्रव्यम् एकैकस्य उपजीविनः ॥२-३२-२४॥
लक्ष्मणस्य च यद् वेश्म गृहम् च यद् इदम् मम ।अशून्यम् कार्यम् एकैकम् यावद् आगमनम् मम ॥२-३२-२५॥
इति उक्त्वा दुह्खितम् सर्वम् जनम् तम् उपजीविनम् ।उवाच इदम् धन ध्यक्षम् धनम् आनीयताम् इति ॥२-३२-२६॥
ततः अस्य धनम् आजह्रुः सर्वम् एव उपजीविनः ।स राशिः सुमहाम्स्तत्र दर्शनीयो ह्यदृश्यत ॥२-३२-२७॥
ततः स पुरुष व्याघ्रः तत् धनम् सह लक्ष्मणः ।द्विजेभ्यो बाल वृद्धेभ्यः कृपणेभ्यो अभ्यदापयत् ॥२-३२-२८॥
तत्र आसीत् पिन्गलो गार्ग्यः त्रिजटः नाम वै द्विजः ।क्षतवृत्तिर्वने नित्यम् फालकुद्दाललाङ्गली ॥२-३२-२९॥
तम् वृद्धम् तरुणी भार्या बालानादाय दारकान् ।अब्रवीद्बाह्मणम् वाक्यम् दारिद्र्येणाभिपीडिता ॥२-३२-३०॥
अपास्य फालम् कुद्दालम् कुरुष्व वचनम् ममम् ।रामम् दर्शय धर्मज्Jनम् यदि किम्चिदवाप्स्यसि ॥२-३२-३१॥
स भार्यावचनम् श्रुत्वा शाटीमाच्छाद्य दुश्छदाम् ।स प्रतिष्ठत पन्थानम् यत्र रामनिवेशनम् ॥२-३२-३२॥
भृग्वङ्गिरसमम् दीप्त्या त्रिजटम् जनसम्सदि ।आ पन्चमायाः कक्ष्याया न एनम् कश्चित् अवारयत् ॥२-३२-३३॥
स राज पुत्रम् आसाद्य त्रिजटः वाक्यम् अब्रवीत् ।निर्धनो बहु पुत्रः अस्मि राज पुत्र महा यशः ।क्षतवृत्तिर्वने नित्यम् प्रत्यवेक्षस्व मामिति ॥२-३२-३४॥
तमुवाच ततो रामः परिहाससमन्वितम् ।गवाम् सहस्रमप्येकम् न च विश्राणितम् मया ।परिक्षिपसि दण्डेन यावत्तावदवाप्य्ससि ॥२-३२-३५॥
स शाटीम् त्वरितः कट्याम् सम्ब्रान्तः परिवेष्ट्य ताम् ।आविद्ध्य दण्डम् चिक्षेप सर्वप्राणेन वेगितः ॥२-३२-३६॥
स तीर्त्वा सरयूपारम् दण्डस्तस्य कराच्च्युतः ।गोव्रजे बहुसाहास्रे पपातोक्षणसन्निधौ ॥२-३२-३७॥
तम् परिष्वज्य धर्मात्मा आतस्मात्सरयूतटात् ।आनयामास ता गोपैस्त्रिजटायाश्रमम् प्रति ॥२-३२-३८॥
उवाच च ततो रामस्तम् गार्ग्यमभिसान्त्वयन् ।मन्युर्न खलु कर्तव्यः परिहासो ह्ययम् मम ॥२-३२-३९॥
इदम् हि तेजस्तव यद्धुरत्ययम् ।तदेव जिज्ञासितु मिच्छता मया ।इमम् भवानर्थमभिप्रचोदितो ।वृणीष्व किम्चेदपरम् व्यवस्यति ॥२-३२-४०॥
ब्रवीमि सत्येन न तेऽस्ति यन्त्रणा ।धनम् हि यद्यन्मम विप्रकारणात् ।भवत्सु सम्यक्र्पतिपादनेन त ।न्मयार्जितम् प्रीतियश्स्करम् भवेत् ॥२-३२-४१॥
तत स्सभार्य स्त्रिजटो महामुनि ।र्गवामनीकम् प्रतिगृह्य मोदितः ।यशोबलप्रीतिसुखोपबृम्हणी ।स्तदाशिषः प्रत्यवदन्महात्मनः ॥२-३२-४२॥
स चापि रामः प्रतिपूर्णमानसो ।महद्धनम् धर्मबलैरुपार्जितम् ।नियोजयामास सुहृज्जनेऽचिरा ।द्यथार्हसम्मानवचःप्रचोदितः ॥२-३२-४३॥
द्विजः सुहृद्भृत्यजनोऽथवा तदा ।दरिद्रभिक्षाचरणश्च योऽभवत् ।न तत्र कश्चिन्न बभूव तर्पितो ।यथार्ह सम्मानन दान सम्ब्रमैः ॥२-३२-४४॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 31
- Next: Ayodhyā-Kāṇḍa Sarga 33 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷