🪷 अयोध्याकाण्ड · Sarga 33
Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 33 · 31 ślokas
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनम् बहु ।जग्मतुः पितरम् द्रष्टुम् सीतया सह राघवौ ॥२-३३-१॥
ततो गृहीते दुष्प्रेक्ष्येअशोभेताम् तदा आयुधे ।माला दामभिर् आसक्ते सीतया समलम्कृते ॥२-३३-२॥
ततः प्रासाद हर्म्याणि विमान शिखराणि च ।अधिरुह्य जनः श्रीमान् उदासीनो व्यलोकयत् ॥२-३३-३॥
न हि रथ्याः स्म शक्यन्ते गन्तुम् बहु जन आकुलाः ।आरुह्य तस्मात् प्रासादान् दीनाः पश्यन्ति राघवम् ॥२-३३-४॥
पदातिम् वर्जितच् चत्रम् रामम् दृष्ट्वा तदा जनाः ।ऊचुर् बहु विधा वाचः शोक उपहत चेतसः ॥२-३३-५॥
यम् यान्तम् अनुयाति स्म चतुर् अन्ग बलम् महत् ।तम् एकम् सीतया सार्धम् अनुयाति स्म लक्ष्मणः ॥२-३३-६॥
ऐश्वर्यस्य रसज्ञः सन् कामिनाम् चैव कामदः ।न इच्चति एव अनृतम् कर्तुम् पितरम् धर्म गौरवात् ॥२-३३-७॥
या न शक्या पुरा द्रष्टुम् भूतैः आकाशगैः अपि ।ताम् अद्य सीताम् पश्यन्ति राज मार्ग गता जनाः ॥२-३३-८॥
अङ्ग राग उचिताम् सीताम् रक्त चन्दन सेविनीम् ।वर्षम् उष्णम् च शीतम् च नेष्यति आशु विवर्णताम् ॥२-३३-९॥
अद्य नूनम् दशरथः सत्त्वम् आविश्य भाषते ।न हि राजा प्रियम् पुत्रम् विवासयितुम् अर्हति ॥२-३३-१०॥
निर्गुणस्य अपि पुत्रस्या काथम् स्यात् विप्रवासनम् ।किम् पुनर् यस्य लोको अयम् जितः वृत्तेन केवलम् ॥२-३३-११॥
आनृशम्स्यम् अनुक्रोशः श्रुतम् शीलम् दमः शमः ।राघवम् शोभयन्ति एते षड् गुणाः पुरुष उत्तमम् ॥२-३३-१२॥
तस्मात् तस्य उपघातेन प्रजाः परम पीडिताः ।औदकानि इव सत्त्वानि ग्रीष्मे सलिल सम्क्षयात् ॥२-३३-१३॥
पीडया पीडितम् सर्वम् जगद् अस्य जगत् पतेः ।मूलस्य इव उपघातेन वृक्षः पुष्प फल उपगः ॥२-३३-१४॥
मूलं ह्येष मनुष्याणाम् धर्मसारो महाद्युतिः ।पुष्पम् फलम् च पत्रम् च शाखाश्चा स्येतरे जनाः ॥२-३३-१५॥
ते लक्ष्मणैव क्षिप्रम् सपत्न्यः सह बान्धवाः ।गच्चन्तम् अनुगच्चामः येन गच्चति राघवः ॥२-३३-१६॥
उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च ।एक दुह्ख सुखा रामम् अनुगच्चाम धार्मिकम् ॥२-३३-१७॥
समुद्धृत निधानानि परिध्वस्त अजिराणि च ।उपात्त धन धान्यानि हृत साराणि सर्वशः ॥२-३३-१८॥
रजसा अभ्यवकीर्णानि परित्यक्तानि दैवतैः ।मूषकैः परिधावद्भिरुद्बिलैरावृतानि च ॥२-३३-१९॥
अपेतोदकधूमानि हीनसम्मार्जनानि च ।प्रनष्टबलिकर्मेज्यमन्त्रहोमजपानि च ॥२-३३-२०॥
दुष्कालेनेव भग्नानि भिभाजनवन्ति च ।अस्मत् त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् ॥२-३३-२१॥
वनम् नगरम् एव अस्तु येन गच्चति राघवः ।अस्माभिः च परित्यक्तम् पुरम् सम्पद्यताम् वनम् ॥२-३३-२२॥
बिलानि दम्ष्ट्रिणः सर्वे सानूनि मृग पक्षिणः ।अस्मत् त्यक्तम् प्रपद्यन्ताम् सेव्यमानम् त्यजन्तु च ॥२-३३-२३॥
इति एवम् विविधा वाचो नाना जन समीरिताः ।तृणमाम्सफलादानाम् देशम् व्यालमृगद्विजम् ॥२-३३-२४॥
प्रपद्यताम् हि कैकेयी सपुत्रा सहबान्धवैः ।राघावेण वने सर्वे सह वत्स्याम निर्वृताः ॥२-३३-२५॥
इत्येवम् विविधा वाचो नानाजनसमीरिताः।शुश्राव रामः श्रुत्वा च न विचक्रे अस्य मानसम् ॥२-३३-२६॥
स तु वेश्म पितुर्दूरा त्कैलासशिखरप्रभम् ।अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः ॥२-३३-२७॥
विनीतवीरपुरुषं प्रविश्य तु नृपालयम् ।ददर्शवस्थितम् दीनम् सुमन्त्रमविदूरतः ॥२-३३-२८॥
प्रतीक्षमाणो अभिजनम् तदा आर्तम् ।अनार्त रूपः प्रहसन्न् इव अथ।जगाम रामः पितरम् दिदृक्षुः ।पितुर् निदेशम् विधिवच् चिकीर्षुः ॥२-३३-२९॥
तत् पूर्वम् ऐक्ष्वाक सुतः महात्मा ।रामः गमिष्यन् वनम् आर्त रूपम् ।व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रम् ।पितुर् महात्मा प्रतिहारण अर्थम् ॥२-३३-३०॥
पितुर्निदेशेन तु धर्मवत्सलो ।वन प्रवेशे कृत बुद्धि निश्चयः ।स राघवः प्रेक्ष्य सुमन्त्रम् अब्रवीन् ।निवेदयस्व आगमनम् नृपाय मे ॥२-३३-३१॥
Navigation
- ← Previous: Ayodhyā-Kāṇḍa Sarga 32
- Next: Ayodhyā-Kāṇḍa Sarga 34 →
- Ayodhyā-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷