🪷 अयोध्याकाण्ड · Sarga 31

Ayodhyā-Kāṇḍa · The Book of Ayodhyā · Sarga 31 · 35 ślokas

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 2.31.1
एवम् श्रुत्वा तु सम्वादम् लक्ष्मणः पूर्वमागतः ।बाष्पपर्याकुलमुखः शोकम् सोढुमशक्नुवन् ॥२-३१-१॥
Vālmīki 2.31.2
स भ्रातुश्चरणौ गाढम् निपीड्य रघुनन्दनः ।सीतामुवाचातियशाम् राघवम् च महाव्रतम् ॥२-३१-२॥
Vālmīki 2.31.3
यदि गन्तुम् कृता बुद्धिर्वनम् मृगगजायुतम् ।अहम् त्वानुगमिष्यामि वनमद्रे धनुर्धरः ॥२-३१-३॥
Vālmīki 2.31.4
मया समेतोऽरण्यानि बहूनि विचरिष्यसि ।पक्षिभिर्मृगयूथैश्च सम्घुष्टानि समन्ततः ॥२-३१-४॥
Vālmīki 2.31.5
न देवलोकाक्रमणम् नामरत्वमहम् वृणे ।ऐश्वर्यम् वापि लोकानाम् कामये न त्वया विना ॥२-३१-५॥
Vālmīki 2.31.6
एवम् ब्रुवाणः सौमित्रिर्विनवासाय निश्चितः ।रामेण बहुभिः सान्वैर्निषिद्धः पुनरब्रवीत् ॥२-३१-६॥
Vālmīki 2.31.7
अनुज्ञातश्च भवता पूर्वमेव यदस्म्यहम् ।किमिदानीम् पुनरिदम् क्रियते मे निवारणम् ॥२-३१-७॥
Vālmīki 2.31.8
यदर्थम् प्रतिषेधो मे क्रियते गन्तुमिच्छतः ।एतदिच्छामि विज्ञातुम् सम्शयो हि ममानघ ॥२-३१-८॥
Vālmīki 2.31.9
ततः अब्रवीन् महा तेजा रामः लक्ष्मणम् अग्रतः ।स्थितम् प्राग् गामिनम् वीरम् याचमानम् कृत अन्जलिम् ॥२-३१-९॥
Vālmīki 2.31.10
स्निग्धो धर्मरतो वीरस्सततम् सत्पथे स्थितः ।प्रियः प्राणसमो वशो भ्राता चापि सखा च मे ॥२-३१-१०॥
Vālmīki 2.31.11
मया अद्य सह सौमित्रे त्वयि गच्चति तत् वनम् ।को भरिष्यति कौसल्याम् सुमित्राम् वा यशस्विनीम् ॥२-३१-११॥
Vālmīki 2.31.12
अभिवर्षति कामैः यः पर्जन्यः पृथिवीम् इव ।स काम पाश पर्यस्तः महा तेजा मही पतिः ॥२-३१-१२॥
Vālmīki 2.31.13
सा हि राज्यम् इदम् प्राप्य नृपस्य अश्व पतेः सुता ।दुह्खितानाम् सपत्नीनाम् न करिष्यति शोभनम् ॥२-३१-१३॥
Vālmīki 2.31.14
न स्मरिष्यति कौसल्याम् सुमित्राम् च सुदुःखिताम् ।भरतो राज्यमासाद्य कैकेय्याम् पर्यवस्थितः ॥२-३१-१४॥
Vālmīki 2.31.15
तामार्याम् स्वयमेवेह राजाऽनुग्रहणेन वा ।सौमित्रे भर कौसल्या मुक्तमर्थमिमम् चर ॥२-३१-१५॥
Vālmīki 2.31.16
एवम् मम च ते भक्तिर्भविष्यति सुदर्शिता ।धर्मज्ञ गुरुपूजायाम् धर्मश्चाप्यतुलो महान् ॥२-३१-१६॥
Vālmīki 2.31.17
एवम् कुरुष्व सौमित्रे मत्क्R^ते रघुनन्दन ।अस्माभिर्विप्रहीनाया मातुर्नो न भवेत्सुखम् ॥२-३१-१७॥
Vālmīki 2.31.18
एवम् उक्तः तु रामेण लक्ष्मणः श्लक्ष्णया गिरा ।प्रत्युवाच तदा रामम् वाक्यज्ञो वाक्य कोविदम् ॥२-३१-१८॥
Vālmīki 2.31.19
तव एव तेजसा वीर भरतः पूजयिष्यति ।कौसल्याम् च सुमित्राम् च प्रयतः न अत्र सम्शयः ॥२-३१-१९॥
Vālmīki 2.31.20
कौसल्या बिभृयात् आर्या सहस्रम् अपि मद् विधान् ।यस्याः सहस्रम् ग्रामाणाम् सम्प्राप्तम् उपजीवनम् ॥२-३१-२०॥
Vālmīki 2.31.21
तदात्मभरणे चैव मम मातुस्तथैव च ।पर्याप्ता मद्विधानाम् च भरणाय यशस्विनी ॥२-३१-२१॥
Vālmīki 2.31.22
कुरुष्व मामनुचरम् वैधर्म्यम् नेह विद्यते ।कृतार्थोऽहम् भविष्यामि तव चार्थः प्रकल्पते ॥२-३१-२२॥
Vālmīki 2.31.23
धनुर् आदाय सशरम् खनित्र पिटका धरः ।अग्रतः ते गमिष्यामि पन्थानम् अनुदर्शयन् ॥२-३१-२३॥
Vālmīki 2.31.24
आहरिष्यामि ते नित्यम् मूलानि च फलानि च ।वन्यानि यानि च अन्यानि स्वाहाराणि तपस्विनाम् ॥२-३१-२४॥
Vālmīki 2.31.25
भवाम्स् तु सह वैदेह्या गिरि सानुषु रम्स्यते ।अहम् सर्वम् करिष्यामि जाग्रतः स्वपतः च ते ॥२-३१-२५॥
Vālmīki 2.31.26
रामः तु अनेन वाक्येन सुप्रीतः प्रत्युवाच तम् ।व्रज आपृच्चस्व सौमित्रे सर्वम् एव सुहृज् जनम् ॥२-३१-२६॥
Vālmīki 2.31.27
ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम् ।जनकस्य महा यज्ञे धनुषी रौद्र दर्शने ॥२-३१-२७॥
Vālmīki 2.31.28
अभेद्य कवचे दिव्ये तूणी च अक्षय सायकौ ।आदित्य विमलौ च उभौ खड्गौ हेम परिष्कृतौ ॥२-३१-२८॥
Vālmīki 2.31.29
सत्कृत्य निहितम् सर्वम् एतत् आचार्य सद्मनि ।स त्वम् आयुधम् आदाय क्षिप्रम् आव्रज लक्ष्मण ॥२-३१-२९॥
Vālmīki 2.31.30
स सुहृज् जनम् आमन्त्र्य वन वासाय निश्चितः ।इष्क्वाकु गुरुम् आमन्त्र्य जग्राह आयुधम् उत्तमम् ॥२-३१-३०॥
Vālmīki 2.31.31
तत् दिव्यम् राज शार्दूलः सत्कृतम् माल्य भूषितम् ।रामाय दर्शयाम् आस सौमित्रिः सर्वम् आयुधम् ॥२-३१-३१॥
Vālmīki 2.31.32
तम् उवाच आत्मवान् रामः प्रीत्या लक्ष्मणम् आगतम् ।काले त्वम् आगतः सौम्य कान्क्षिते मम लक्ष्मण ॥२-३१-३२॥
Vālmīki 2.31.33
अहम् प्रदातुम् इच्चामि यद् इदम् मामकम् धनम् ।ब्राह्मणेभ्यः तपस्विभ्यः त्वया सह परम्तप ॥२-३१-३३॥
Vālmīki 2.31.34
वसन्ति इह दृढम् भक्त्या गुरुषु द्विज सत्तमाः ।तेषाम् अपि च मे भूयः सर्वेषाम् च उपजीविनाम् ॥२-३१-३४॥
Vālmīki 2.31.35
वसिष्ठ पुत्रम् तु सुयज्ञम् आर्यम् ।त्वम् आनय आशु प्रवरम् द्विजानाम् ।अभिप्रयास्यामि वनम् समस्तान् ।अभ्यर्च्य शिष्टान् अपरान् द्विजातीन् ॥२-३१-३५॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷