🪷 अरण्यकाण्ड · Sarga 39
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 39 · 25 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 3.39local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanarepair-review index for 22,742 received rows; not a verified editionBāla 1.18Rāma-janma textual passageVālmīki 1.18.8first indexed Rāma-janma śloka routeVālmīki 1.18.15closing indexed janma verse/ramadevotional and source-led Rāma doorway/festival/rama-navamiCaitra Śukla Navamī observance/ramcharitamanasTulsidās bhakti voice of Rāma-līlāRāmopākhyānaRāma-kathā inside the Mahābhārata/computational-moatexplicit model and evidence boundary
🪷 Received Devanāgarī rows · address verification pending
एवम् अस्मि तदा मुक्तः कथंचित् तेन संयुगे ।इदानीम् अपि यत् वृत्तम् तत् शृउणुष्व यत् उत्तरम् ॥३-३९-१॥
राक्षाभ्याम् अहम् द्वाभ्याम् अनिर्विण्णः तथा कृतः ।सहितो मृग रूपाभ्याम् प्रविष्टो दंडका वने ॥३-३९-२॥
दीप्त जिह्वो महादंष्ट्रः तीक्ष्ण शृंगो महाबलः ।व्यचरन् दंडाकारण्यम् मांस भक्षो महामृगः ॥३-३९-३॥
अग्निहोत्रेषु तीर्थेषु चैत्य वृक्षेषु रावण ।अत्यन्त घोरो व्यचरन् तापसान् संप्रधर्षयन् ॥३-३९-४॥
निहत्य दंडकारण्ये तापसान् धर्मचरिणः ।रुधिराणि पिबन्तः तेषाम् तन् मांसानि च भक्षयन् ॥३-३९-५॥
ऋषि माअंस अशनः क्रूरः त्रासयन् वनगोचरान् ।तदा रुधिर मत्तो अहम् व्यचरन् दंडका वनम् ॥३-३९-६॥
तदा अहम् दंडकारण्ये विचरन् धर्म दूषकः ।आसादयम् तदा रामम् तापसम् धर्मम् आश्रितम् ॥३-३९-७॥
वैदेहि च महाभागाम् लक्ष्मणम् च महरथम् ।तापसम् नियत आहारम् सर्व बूत हिते रतम् ॥३-३९-८॥
सः अहम् वन गतम् रामम् परिभूय महाबलम् ।तापसो अयम् इति ज्ञात्वा पूर्व वैरम् अनुस्मरन् ॥३-३९-९॥
अभ्यधावम् सुसंक्रुद्धः तीक्ष्ण शृंगो मृग आकृतिः ।जिघांसुः अकृतप्रज्ञः तम् प्रहारम् अनुस्मरन् ॥३-३९-१०॥
तेन त्यक्ताः त्रयो बाणाः शिताः शत्रु निबर्हणाः ।विकृष्य सुमहत् चापम् सुपर्ण अनिल तुल्य गाः ॥३-३९-११॥
ते बाणा वज्र संकाशाः सुघोरा रक्त भोजनाः ।आजग्मुः सहिताः सर्वे त्रयः संनतपर्वणः ॥३-३९-१२॥
पराक्रमज्ञो रामस्य शठो दृष्ट भयः पुरा ।समुत्क्रांतः ततः मुक्तः तौ उभौ राक्षसौ हतौ ॥३-३९-१३॥
शरेण मुक्तो रामस्य कथंचित् प्राप्यजीवितम् ।इह प्रव्राजितो युक्तः तापसो अहम् समाहितः ॥३-३९-१४॥
वृक्षे वृक्षे हि पश्यामि चीर कृष्ण अजिन अंबरम् ।गृहीत धनुषम् रामम् पाश हस्तम् इव अंतकम् ॥३-३९-१५॥
अपि राम सहस्राणि भीतः पश्यामि रावण ।राम भूतम् इदम् सर्वम् अरण्यम् प्रतिभाति मे ॥३-३९-१६॥
रामम् एव हि पश्यामि रहिते राक्षसेश्वर ।दृष्ट्वा स्वप्न गतम् रामम् उद् भ्रमामि विचेतनः ॥३-३९-१७॥
र कार अदीनि नामानि राम त्रस्तस्य रवण ।रत्नानि च रथाः च एव वित्रासम् जनयन्ति मे ॥३-३९-१८॥
अहम् तस्य प्रभावज्ञो न युद्धम् तेन ते क्षमम् ।बलिम् वा नमुचिं वा अपि हन्यद्धि रघुनंअंदन ॥३-३९-१९॥
रणे रामेण युद्ध्स्व क्षमाम् वा कुरु रावण ।न ते राम कथा कार्या यदि माम् द्रष्टुम् इच्छसि ॥३-३९-२०॥
बहवः साधवो लोके युक्ता धर्मम् अनुष्टिताः ।परेषाम् अपराधेन विनष्टाः स परिच्छदाः ॥३-३९-२१॥
सः अहम् पर अपराधेन विनाशेयम् निशाचर ।कुरु यत् ते क्षमम् तत् त्वम् अहम् त्वाम् न अनुयामि वै ॥३-३९-२२॥
रामः च हि महातेजा महासत्त्वो महाबलः ।अपि राक्षस लोकस्य भवेत् अन्तकरो अपि हि ॥३-३९-२३॥
यदि शूर्पणखा हेतोः जनस्थान गत खरः ।अति वृत्तो हतः पूर्वम् रामेण अक्लिष्ट कर्मणा ।अत्र ब्रूहि यथावत् त्वम् को रामस्य व्यतिक्रमः ॥३-३९-२४॥
इदम् वचो बन्धु हित अर्थिना मयायथा उच्यमानम् यदि न अभिपत्स्यसे ।स बान्धवः त्यक्ष्यसि जीवितम् रणेहतो अद्य रामेण शरैः जिह्मगैः ॥३-३९-२५॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 38
- Next: Araṇya-Kāṇḍa Sarga 40 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷