🪷 अरण्यकाण्ड · Sarga 38

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 38 · 33 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 3.38local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 3.38.1
कदाचित् अपि अहम् वीर्यात् पर्यटन् पृथिवीम् इमाम् ।बलम् नाग सहस्रस्य धारयन् पर्वतोपमः ॥३-३८-१॥
Vālmīki 3.38.2
नील जीमूत संकाशः तप्त कांचन कुण्डलः ।भयम् लोकस्य जनयन् किरीटी परिघ आयुधः ॥३-३८-२॥
Vālmīki 3.38.3
व्यचरम् दण्डक अरण्यम् ऋषि मांसानि भक्षयन् ।विश्वामित्रो अथ धर्मात्मा मत् वित्रस्तो महामुनिः ॥३-३८-३॥
Vālmīki 3.38.4
स्वयम् गत्वा दशरथम् नरेन्द्रम् इदम् अब्रवीत् ।अयम् रक्षतु माम् रामः पर्व काले समाहितः ॥३-३८-४॥
Vālmīki 3.38.5
मारीचात् मे भयम् घोरम् समुत्पन्नम् नरेश्वर ।इति एवम् उक्तो धर्मात्मा राजा दशरथः तदा ॥३-३८-५॥
Vālmīki 3.38.6
प्रत्युवाच महाभागम् विश्वामित्रम् महामुनिम् ।ऊन द्वादश वर्षो अयम् अकृत अस्त्रः च राघवः ॥३-३८-६॥
Vālmīki 3.38.7
कामम् तु मम यत् सैन्यम् मया सह गमिष्यति ।बलेन चतुरंगेण स्वयम् एत्य निशाचरम् ॥३-३८-७॥
Vālmīki 3.38.8
वधिष्यामि मुनिश्रेष्ठ शत्रुम् तव यथा ईप्सितम् ।] एवम् उक्तः स तु मुनी राजानम् इदम् अब्रवीत् ॥३-३८-८॥
Vālmīki 3.38.9
रामात् न अन्यत् बलम् लोके पर्याप्तम् तस्य रक्षसः ।देवतानाम् अपि भवान् समरेषु अभिपालकः ॥३-३८-९॥
Vālmīki 3.38.10
आसीत् तव कृते कर्म त्रिलोक विदितम् नृप ।कामम् अस्ति महत् सैन्यम् तिष्टतु इह परंतप ॥३-३८-१०॥
Vālmīki 3.38.11
बालो अपि एष महातेजाः समर्थः तस्य निग्रहे ।गमिष्ये रामम् आदाय स्वस्ति ते अस्तु परंतपः ॥३-३८-११॥
Vālmīki 3.38.12
इति एवम् उक्त्वा स मुनिः तम् आदाय नृपात्मजम् ।जगाम परम प्रीतो विश्वामित्रः स्वम् आश्रमम् ॥३-३८-१२॥
Vālmīki 3.38.13
तम् तदा दण्डकारण्ये यज्ञम् उद्दिश्य दीक्षितम् ।बभूव उपस्थितो रामः चित्रम् विस्फारयन् धनुः ॥३-३८-१३॥
Vālmīki 3.38.14
अजात व्यंजनः श्रीमान् बालः श्यामः शुभेक्षणः ।एक वस्त्र धरो धन्वी शिखी कनक मालया ॥३-३८-१४॥
Vālmīki 3.38.15
शोभयन् दण्डकारण्यम् दीप्तेन स्वेन तेजसा ।अदृश्यत तदा रामो बाल चन्द्र इव उदितः ॥३-३८-१५॥
Vālmīki 3.38.16
ततो अहम् मेघ संकाशः तप्त कांचन कुण्डलः ।बली दत्त वरो दर्पात् आजगाम आश्रम अंतरम् ॥३-३८-१६॥
Vālmīki 3.38.17
तेन दृष्टः प्रविष्टो अहम् सहसा एव उद्यत आयुधः ।माम् तु दृष्ट्वा धनुः सज्यम् असम्भ्रान्तः चकार ह ॥३-३८-१७॥
Vālmīki 3.38.18
अवजानन् अहम् मोहात् बालो अयम् इति राघवम् ।विश्वामित्रस्य ताम् वेदिम् अभ्यधावम् कृत त्वरः ॥३-३८-१८॥
Vālmīki 3.38.19
तेन मुक्तः ततो बाणः शितः शत्रु निबर्हणः ।तेन अहम् ताडितः क्षिप्तः समुद्रे शत योजने ॥३-३८-१९॥
Vālmīki 3.38.20
न इच्छता तात माम् हन्तुम् तदा वीरेण रक्षितः ।रामस्य शर वेगेन निरस्तो भ्रान्त चेतनः ॥३-३८-२०॥
Vālmīki 3.38.21
पातितो अहम् तदा तेन गंभीरे सागर अंभसि ।प्राप्य संज्ञाम् चिरात् तात लंकाम् प्रति गतः पुरीम् ॥३-३८-२१॥
Vālmīki 3.38.22
एवम् अस्मि तदा मुक्तः सहायाः ते - शायास्तु - निपातिताः ।अकृत अस्त्रेण रामेण बालेन अक्लिष्ट कर्मणा ॥३-३८-२२॥
Vālmīki 3.38.23
तत् मया वार्यमाणः त्वम् यदि रामेण विग्रहम् ।करिष्यसि आपदम् घोराम् क्षिप्रम् प्राप्य न शिष्यसि ॥३-३८-२३॥
Vālmīki 3.38.24
क्रीडा रति विधिज्ञानाम् समाज उत्सव शालिनाम् ।रक्षसाम् चैव संतापम् अनर्थम् च आहरिष्यसि ॥३-३८-२४॥
Vālmīki 3.38.25
हर्म्य प्रासाद संबाधाम् नाना रत्न विभूउषिताम् ।द्रक्ष्यसि त्वम् पुरीम् लंकाम् विनष्टाम् मैथिली कृते ॥३-३८-२५॥
Vālmīki 3.38.26
अकुर्वन्तो अपि पापानि शुचयः पाप संश्रयात् ।पर पापैः विनश्यन्ति मत्स्या नाग ह्रदे यथा ॥३-३८-२६॥
Vālmīki 3.38.27
दिव्यचंदनदिग्धांगान्दिव्याअभरणभूषितान् -यद्वा-दिव्य चंदन दिग्ध अंगान् दिव्य आभरण भूषितान् ।द्रक्ष्यसि अभिहतान् भूमौ तव दोषात् तु राक्षसान् ॥३-३८-२७॥
Vālmīki 3.38.28
हृत दारान् स दारान् च दश विद्रवतो दिशः ।हत शेषान् अशरणान् द्रक्ष्यसि त्वम् निशाचरान् ॥३-३८-२८॥
Vālmīki 3.38.29
शर जाल परिक्षिप्ताम् अग्नि ज्वाला समावृताम् ।प्रदग्ध भवनाम् लंकाम् द्रक्ष्यसि त्वम् असंशयम् ॥३-३८-२९॥
Vālmīki 3.38.30
पर दार अभिमर्षात् तु न अनयत् पाप तरम् महत् ।प्रमदानाम् सहस्राणि तव राजन् परिग्रहे ॥३-३८-३०॥
Vālmīki 3.38.31
भव स्व दार निरतः स्व कुलम् रक्ष राक्षस ।मानम् वृद्धिम् च राज्यम् च जीवितम् च इष्टम् आत्मनः ॥३-३८-३१॥
Vālmīki 3.38.32
कलत्राणि च सौम्यानि मित्र वर्गम् तथैव च ।यदि इच्छसि चिरम् भोक्तुम् मा कृथा राम विप्रियम् ॥३-३८-३२॥
Vālmīki 3.38.33
निवार्यमाणः सुहृदा मया भृशम्प्रसह्य सीताम् यदि धर्षयिष्यसि ।गमिष्यसि क्षीण बलः स बान्धवोयम क्षयम् राम शर आत्त जीवितः ॥३-३८-३३॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷