🪷 अरण्यकाण्ड · Sarga 37

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 37 · 25 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 3.37local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 3.37.1
तत् श्रुत्वा राक्षसेन्द्रस्य वाक्यम् वाक्य विशारदः ।प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् ॥३-३७-१॥
Vālmīki 3.37.2
सुलभाः पुरुषा राजन् सततम् प्रिय वादिनः ।अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥३-३७-२॥
Vālmīki 3.37.3
न नूनम् बुध्यसे रामम् महावीर्यम् गुण उन्नतम् ।अयुक्त चारः चपलो महेन्द्र वरुण उपमम् ॥३-३७-३॥
Vālmīki 3.37.4
अपि स्वस्ति भवेत् तात सर्वेषाम् भुवि रक्षसाम् ।अपि रामो न संक्रुद्धः कुर्यात् लोकम् अराक्षसम् ॥३-३७-४॥
Vālmīki 3.37.5
अपि ते जीवित अंताय न उत्पन्ना जनकात्मजा ।अपि सीता निमित्तम् च न भवेत् व्यसनम् महत् ॥३-३७-५॥
Vālmīki 3.37.6
अपि त्वाम् ईश्वरम् प्राप्य काम वृत्तम् निरंकुशम् ।न विनश्येत् पुरी लंका त्वया सह स राक्षसा ॥३-३७-६॥
Vālmīki 3.37.7
त्वत् विधः काम वृत्तो हि दुःशीलः पाप मंत्रितः ।आत्मानम् स्व जनम् राष्ट्रम् स राजा हन्ति दुर्मतिः ॥३-३७-७॥
Vālmīki 3.37.8
न च पित्रा परित्यक्तो न अमर्यादः कथंचन ।न लुब्धो न च दुःशीलो न च क्षत्रिय पांसनः ॥३-३७-८॥
Vālmīki 3.37.9
न च धर्म गुणैर् हीनैः कौसल्या आनंद वर्धनः ।न च तीक्ष्णो हि भूतानाम् सर्व भूत हिते रतः ॥३-३७-९॥
Vālmīki 3.37.10
वंचितम् पितरम् दृष्ट्वा कैकेय्या सत्य वादिनम् ।करिष्यामि इति धर्मात्मा ततः प्रव्रजितो वनम् ॥३-३७-१०॥
Vālmīki 3.37.11
कैकेय्याः प्रिय कामार्थम् पितुर् दशरथस्य च ।हित्वा राज्यम् च भोगान् च प्रविष्टो दण्डका वनम् ॥३-३७-११॥
Vālmīki 3.37.12
न रामः कर्कशः तात न अविद्वान् न अजित इन्द्रियः ।अनृतम् न श्रुतम् चैव नैव त्वम् वक्तुम् अर्हसि ॥३-३७-१२॥
Vālmīki 3.37.13
रामो विग्रहवान् धर्मः साधुः सत्य पराक्रमः ।राजा सर्वस्य लोकस्य देवानाम् इव वासवः ॥३-३७-१३॥
Vālmīki 3.37.14
कथम् नु तस्य वैदेहीम् रक्षिताम् स्वेन तेजसा ।इच्छसे प्रसभम् हर्तुम् प्रभाम् इव विवस्वतः ॥३-३७-१४॥
Vālmīki 3.37.15
शर अर्चिषम् अनाधृष्यम् चाप खड्ग इन्धनम् रणे ।राम अग्निम् सहसा दीप्तम् न प्रवेष्टुम् त्वम् अर्हसि ॥३-३७-१५॥
Vālmīki 3.37.16
धनुर् व्यादित दीप्त आस्यम् शर अर्चिषम् अमर्षणम् ।चाप बाण धरम् तीक्ष्णम् शत्रु सेना अपहारिणम् ॥३-३७-१६॥
Vālmīki 3.37.17
राज्यम् सुखम् च संत्यज्य जीवितम् च इष्टम् आत्मनः ।न अति आसादयितुम् तात राम अंतकम् इह अर्हसि ॥३-३७-१७॥
Vālmīki 3.37.18
अप्रमेयम् हि तत् तेजो यस्य सा जनकात्मजा ।न त्वम् समर्थः ताम् हर्तुम् राम चाप आश्रयाम् वने ॥३-३७-१८॥
Vālmīki 3.37.19
तस्य वै नर सिंहस्य सिंह उरस्कस्य भामिनी ।प्राणेभ्यो अपि प्रियतरा भार्या नित्यम् अनुव्रता ॥३-३७-१९॥
Vālmīki 3.37.20
न सा धर्षयितुम् शक्या मैथिली ओजस्विनः प्रिया ।दीप्तस्य इव हुत आशस्य शिखा सीता सुमध्यमा ॥३-३७-२०॥
Vālmīki 3.37.21
किम् उद्यमम् व्यर्थम् इमम् कृत्वा ते राक्षसाधिप ।दृष्टः चेत् त्वम् रणे तेन तत् अंतम् तव जीवितम् ॥३-३७-२१॥
Vālmīki 3.37.22
जीवितम् च सुखम् चैव राज्यम् चैव सुदुर्लभम् ।यत् इच्छसि चिरम् भोक्तुम् मा कृथा राम विप्रियम् ॥३-३७-२२॥
Vālmīki 3.37.23
स सर्वैः सचिवैः सार्धम् विभीषण पुरस्कृतैः ।मंत्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयम् आत्मनः ।दोषाणाम् च गुणानाम् च संप्रधार्य बल अबलम् ॥३-३७-२३॥
Vālmīki 3.37.24
आत्मनः च बलम् ज्ञात्वा राघवस्य च तत्त्वतः ।हितम् हि तव निश्चित्य क्षमम् त्वम् कर्तुम् अर्हसि ॥३-३७-२४॥
Vālmīki 3.37.25
अहम् तु मन्ये तव न क्षमम् रणेसमागमम् कोसल राज सूनुना ।इदम् हि भूयः शृणु वाक्यम् उत्तमम्क्षमम् च युक्तम् च निशाचर अधिप ॥३-३७-२५॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷