🪷 अरण्यकाण्ड · Sarga 36
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 36 · 24 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 3.36local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
मारीच श्रूयताम् तात वचनम् मम भाषतः ।आर्तो अस्मि मम च आर्तस्य भवान् हि परमा गतिः ॥३-३६-१॥
जानीषे त्वम् जनस्थाने भ्राता यत्र खरो मम ।दूषणः च महाबाहुः स्वसा शूर्पणखा च मे ॥३-३६-२॥
त्रिशिराः च महातेजा राक्षसः पिशित अशनः ।अन्ये च बहवः शूरा लब्ध लक्षा निशाचराः ॥३-३६-३॥
वसन्ति मत् नियोगेन अधिवासम् च राक्षसः ।बाधमाना महारण्ये मुनीन् ये धर्म चारिणः ॥३-३६-४॥
चतुर्दश सहस्राणि रक्षसाम् भीम कर्मणाम् ।शूराणाम् लब्ध लक्षाणाम् खर चित्त अनुवर्तिनाम् ॥३-३६-५॥
ते तु इदानीम् जनस्थाने वसमाना महाबलाः ।संगताः परम आयत्ता रामेण सह संयुगे ॥३-३६-६॥
नाना शस्त्र प्रहरणाः खर प्रमुख राक्षसः ।तेन संजात रोषेण रामेण रण मूर्धनि ॥३-३६-७॥
अनुक्त्वा परुषम् किंचित् शरैर् व्यापारितम् धनुः ।चतुर्दश सहस्राणि रक्षसाम् उग्र तेजसाम् ॥३-३६-८॥
निहतानि शरैः दीप्तैः मानुषेण पदातिना ।खरः च निहतः संख्ये दूषणः च निपातितः ॥३-३६-९॥
हत्वा त्रिशिरसम् च अपि निर्भया दण्डकाः कृताः ।पित्रा निरस्तः क्रुद्धेन स भार्यः क्षीण जीवितः ॥३-३६-१०॥
स हन्ता तस्य सैन्यस्य रामः क्षत्रिय पांसनः ।अशीलः कर्कशः तीक्ष्णो मूर्खो लुब्धो अजित इन्द्रियः ॥३-३६-११॥
त्यक्त धर्मः तु अधर्म आत्मा भूतानाम् अहिते रतः ।येन वैरम् विना अरण्ये सत्त्वम् आश्रित्य केवलम् ॥३-३६-१२॥
कर्ण नास अपहारेण भगिनी मे विरूपिता ।तस्य भार्याम् जनस्थानात् सीताम् सुर सुत उपमाम् ॥३-३६-१३॥
आनयिष्यामि विक्रम्य सहायः तत्र मे भव ।त्वया हि अहम् सहायेन पार्श्वस्थेन महाबल ॥३-३६-१४॥
भ्रातृभिः च सुरान् युद्धे समग्रान् न अभिचिंतये ।तत् सहायो भव त्वम् मे समर्थो हि असि राक्षस ॥३-३६-१५॥
वीर्ये युद्धे च दर्पे च न हि अस्ति सदृशः तव ।उपायतो महान् शूरो महा माय विशारदः ॥३-३६-१६॥
एतत् अर्थम् अहम् प्राप्तः त्वत् समीपम् निशाचर ।शृणु तत् कर्म साहाय्ये यत् कार्यम् वचनात् मम ॥३-३६-१७॥
सौवर्णः त्वम् मृगो भूत्वा चित्रो रजत बिन्दुभिः ।आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ॥३-३६-१८॥
त्वाम् तु निःसंशयम् सीता दृष्ट्वा तु मृग रूपिणम् ।गृह्यताम् इति भर्तारम् लक्ष्मणम् च अभिधास्यति ॥३-३६-१९॥
ततः तयोः अपाये तु शून्ये सीताम् यथा सुखम् ।निराबाधो हरिष्यामि राहुः चन्द्र प्रभाम् इव ॥३-३६-२०॥
ततः पश्चात् सुखम् रामे भार्या आहरण कर्शिते ।विस्रब्धम् प्रहरिष्यामि कृत अर्थेन अन्तर् आत्मना ॥३-३६-२१॥
तस्य राम कथाम् श्रुत्वा मारीचस्य महात्मनः ।शुष्कम् समभवत् वक्त्रम् परित्रस्तो बभूव च ॥३-३६-२२॥
ओष्टौ परिलिहन् शुष्कौ नेत्रैः अनिमिषैः इव ।मृत भूत इव आर्तः तु रावणम् समुत् ईक्षतः ॥३-३६-२३॥
स रावणम् त्रस्त विषण्ण चेतामहावने राम पराक्रमज्ञः ।कृत अंजलिः तत्त्वम् उवाच वाक्यम्हितम् च तस्मै हितम् आत्मनः च ॥३-३६-२४॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 35
- Next: Araṇya-Kāṇḍa Sarga 37 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷