🪷 अरण्यकाण्ड · Sarga 35

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 35 · 42 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 3.35local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 3.35.1
ततः शूर्पणखा वाक्यम् तत् श्रुत्वा रोम हर्षणम् ।सचिवान् अभ्यनुज्ञाय कार्यम् बुद्ध्वा जगाम ह ॥३-३५-१॥
Vālmīki 3.35.2
तत् कार्यम् अनुगम्यांतर् यथावत् उपलभ्य च ।दोषाणाम् च गुणानाम् च सम्प्रधार्य बल अबलम् ॥३-३५-२॥
Vālmīki 3.35.3
इति कर्तव्यम् इति एव कृत्वा निश्चयम् आत्मनः ।स्थिर बुद्धिः ततो रम्याम् यान शालाम् जगाम ह ॥३-३५-३॥
Vālmīki 3.35.4
यान शालाम् ततो गत्वा प्रच्छन्नम् राक्षस अधिपः ।सूतम् संचोदयामास रथः संयुज्यताम् इति ॥३-३५-४॥
Vālmīki 3.35.5
एवम् उक्तः क्षणेन एव सारथिः लघु विक्रमः ।रथम् संयोजयामास तस्य अभिमतम् उत्तमम् ॥३-३५-५॥
Vālmīki 3.35.6
कांचनम् रथम् आस्थाय कामगम् रत्न भूषितम् ।पिशाच वदनैः युक्तम् खरैः कनक भूषणैः ॥३-३५-६॥
Vālmīki 3.35.7
मेघ प्रतिम नादेन स तेन धनद अनुजः ।राक्षसाधिपतिः श्रीमान् ययौ नद नदी पतिम् ॥३-३५-७॥
Vālmīki 3.35.8
स श्वेत वाल व्यजनः श्वेतः छत्रो दशाननः ।स्निग्ध वैदूर्य संकाश तप्त कान्चन भूषणः ॥३-३५-८॥
Vālmīki 3.35.9
दशग्रीवो विम्शति भुजो दर्शनीय परिच्छदः ।त्रिदश अरिः मुनीन्द्र घ्नो दश शीर्ष इव अद्रि राट् ॥३-३५-९॥
Vālmīki 3.35.10
कामगम् रथम् आस्थाय शुशुभे राक्षसाधिपः ।विद्युन् मण्डलवान् मेघः स बलाक इव अंबरे ॥३-३५-१०॥
Vālmīki 3.35.11
स शैलम् सागर अनूपम् वीर्यवान् अवलोकयन् ।नाना पुष्प फलैर् वृक्षैर् अनुकीर्णम् सहस्रशः ॥३-३५-११॥
Vālmīki 3.35.12
शीत मंगल तोयाभिः पद्मिनीभिः समंततः ।विशालैः आश्रम पदैः वेदिमद्भिः अलंकृतम् ॥३-३५-१२॥
Vālmīki 3.35.13
कदल्य अटवि संशोभम् नालिकेर उपशोभितम् ।सालैः तालैः तमालैः च तरुभिः च सुपुष्पितैः ॥३-३५-१३॥
Vālmīki 3.35.14
अत्यन्त नियत आहारैः शोभितम् परम ऋषिभिः ।नागैः सुपर्णैः गंधर्वैः किंनरैः च सहस्रशः ॥३-३५-१४॥
Vālmīki 3.35.15
जित कामैः च सिद्धैः च चारणैः च उपशोभितम् ।आजैः वैखानसैः माषैः वालखिल्यैः मरीचिपैः ॥३-३५-१५॥
Vālmīki 3.35.16
दिव्य आभरण माल्याभिः दिव्य रूपाभिः आवृतम् ।क्रीडा रति विधिज्ञाभिः अप्सरोभिः सहस्रशः ॥३-३५-१६॥
Vālmīki 3.35.17
सेवितम् देव पत्नीभिः श्रीमतीभिः उपासितम् ।देव दानव सन्घैः च चरितम् तु अमृत अशिभिः ॥३-३५-१७॥
Vālmīki 3.35.18
हंस क्रौन्च प्लव आकीर्णम् सारसैः संप्रणादितम् ।वैदूर्य प्रस्तरम् स्निग्धम् सांद्रम् सागर तेजसा ॥३-३५-१८॥
Vālmīki 3.35.19
पाण्डुराणि विशालानि दिव्य माल्य युतानि च ।तूर्य गीत अभिजुष्टानि विमानानि समंततः ॥३-३५-१९॥
Vālmīki 3.35.20
तपसा जित लोकानाम् कामगान् अभिसंपतन् ।गन्धर्व अप्सरसः चैव ददर्श धनदानुजः ॥३-३५-२०॥
Vālmīki 3.35.21
निर्यास रस मूलानाम् चंदनानाम् सहस्रशः ।वनानि पश्यन् सौम्यानि घ्राण तृप्ति कराणि च ॥३-३५-२१॥
Vālmīki 3.35.22
अगुरूणाम् च मुख्यानाम् वनानि उपवनानि च ।तक्कोलानाम् च जात्यानाम् फलानाम् च सुगन्धिनाम् ॥३-३५-२२॥
Vālmīki 3.35.23
पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च ।मुक्तानाम् च समूहानि शुष्यमाणानि तीरतः ॥३-३५-२३॥
Vālmīki 3.35.24
शैलानि प्रवरान् चैव प्रवाल निचयान् तथा ।कांचनानि च शृंगाणि राजतानि तथैव च ॥३-३५-२४॥
Vālmīki 3.35.25
प्रस्रवाणि मनोज्ञानि प्रसन्नानि अद्भुतानि च ।धन धान्य उपपन्नानि स्त्री रत्नैः आवृतानि च ॥३-३५-२५॥
Vālmīki 3.35.26
हस्ति अश्व रथ गाढानि नगराणि विलोकयन् ।तम् समम् सर्वतः स्निग्धम् मृदु संस्पर्श मारुतम् ॥३-३५-२६॥
Vālmīki 3.35.27
अनूपे सिन्धु राजस्य ददर्श त्रिदिव उपमम् ।तत्र अपश्यत् स मेघ आभम् न्यग्रोधम् मुनिभिर् वृतम् ॥३-३५-२७॥
Vālmīki 3.35.28
समंतात् यस्य ताः शाखाः शत योजनम् आयताः ।यस्य हस्तिनम् आदाय महा कायम् च कच्छपम् ॥३-३५-२८॥
Vālmīki 3.35.29
भक्षार्थम् गरुडः शाखाम् आजगाम महाबलः ।तस्य ताम् सहसा शाखाम् भारेण पतगोत्तमः ॥३-३५-२९॥
Vālmīki 3.35.30
सुपर्णः पर्ण बहुलाम् बभंज अथ महाबलः ।तत्र वैखानसा माषा वालखिल्या मरीचिपाः ॥३-३५-३०॥
Vālmīki 3.35.31
अजा बभूवुः धूम्राः च संगताः परमर्षयः ।तेषाम् दयाअर्थम् गरुडः ताम् शाखाम् शत योजनाम् ॥३-३५-३१॥
Vālmīki 3.35.32
भग्नम् आदाय वेगेन तौ च उभौ गज कच्छपौ ।एक पादेन धर्म आत्मा भक्षयित्वा तत् आमिषम् ॥३-३५-३२॥
Vālmīki 3.35.33
निषाद विषयम् हत्वा शाखया पतगोत्तमः ।प्रहर्षम् अतुलम् लेभे मोक्षयित्वा महामुनीन् ॥३-३५-३३॥
Vālmīki 3.35.34
स तेन तु प्रहर्षेण द्विगुणी कृत विक्रमः ।अमृत आनयनार्थम् वै चकार मतिमान् मतिम् ॥३-३५-३४॥
Vālmīki 3.35.35
अयो जालानि निर्मथ्य भित्त्वा रत्न गृहम् वरम् ।महेन्द्र भवनात् गुप्तम् आजहार अमृतम् ततः ॥३-३५-३५॥
Vālmīki 3.35.36
तम् महर्षि गणैः जुष्टम् सुपर्ण कृत लक्षणम् ।नाम्ना सुभद्रम् न्यग्रोधम् ददर्श धनद अनुजः ॥३-३५-३६॥
Vālmīki 3.35.37
तम् तु गत्वा परम् पारम् समुद्रस्य नदी पतेः ।ददर्श आश्रमम् एकांते पुण्ये रम्ये वनांतरे ॥३-३५-३७॥
Vālmīki 3.35.38
तत्र कृष्ण अजिन धरम् जटा वल्कल धारिणम् ।ददर्श नियत आहारम् मारीचम् नाम राक्षसम् ॥३-३५-३८॥
Vālmīki 3.35.39
स रावणः समागम्य विधिवत् तेन रक्षसा ।मारीचेन अर्चितो राजा सर्व कामैः अमानुषैः ॥३-३५-३९॥
Vālmīki 3.35.40
तम् स्वयम् पूजयित्वा च भोजनेन उदकेन च ।अर्थोपहितया वाचा मारीचो वाक्यम् अब्रवीत् ॥३-३५-४०॥
Vālmīki 3.35.41
कच्चित् ते कुशलम् राजन् लंकायाम् राक्षसेश्वर ।केन अर्थेन् पुनः त्वम् वै तूर्णम् एव इह आगतः ॥३-३५-४१॥
Vālmīki 3.35.42
एवम् उक्तो महातेजा मारीचेन स रावण ।ततः पश्चात् इदम् वाक्यम् अब्रवीत् वाक्य कोविदः ॥३-३५-४२॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷