🪷 अरण्यकाण्ड · Sarga 34

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 34 · 26 ślokas

🪷 Devanāgarī Ślokas

Vālmīki 3.34.1
ततः शूर्पणखाम् दृष्ट्वा ब्रुवन्तीम् परुषम् वचः ।अमात्य मध्ये संकृउद्धः परिपप्रच्छ रावणः ॥३-३४-१॥
Vālmīki 3.34.2
कः च रामः कथम् वीर्यः किम् रूपः किम् पराक्रमः ।किम् अर्थम् दण्डकारण्यम् प्रविष्टः च सुदुस्तरम् ॥३-३४-२॥
Vālmīki 3.34.3
आयुधम् किम् च रामस्य येन ते राक्षसाः हता ।खरः च निहतः संख्ये दूषणः त्रिशिराः तथा ॥३-३४-३॥
Vālmīki 3.34.4
तत् त्वम् ब्रूहि मनोज्ञान्गी केन त्वम् च विरूपिता ।इति उक्ता राक्षस इन्द्रेण राक्षसी क्रोध मूर्च्छिता ॥३-३४-४॥
Vālmīki 3.34.5
ततो रामम् यथा न्यायम् आख्यातुम् उपचक्रमे ।दीर्घबाहुः विशालाक्षः चीर कृष्ण अजिन अम्बरः ॥३-३४-५॥
Vālmīki 3.34.6
कन्दर्प सम रूपः च रामो दशरथ आत्मजः ।शक्र चाप निभम् चापम् विकृष्य कनकांगदम् ॥३-३४-६॥
Vālmīki 3.34.7
दीप्तान् क्षिपति नाराचान् सर्पान् इव महा विषान् ।न आददानम् शरान् घोरान् न मुंचंतम् महाबलम् ॥३-३४-७॥
Vālmīki 3.34.8
न कार्मुकम् विकर्षन्तम् रामम् पश्यामि संयुगे ।हन्यमानम् तु तत् सैन्यम् पश्यामि शर वृष्टिभिः ॥३-३४-८॥
Vālmīki 3.34.9
इन्द्रेण इव उत्तमम् सस्यम् आहतम् तु अश्म वृष्टिभिः ।रक्षसाम् भीम वीर्याणाम् सहस्राणि चतुर्दश ॥३-३४-९॥
Vālmīki 3.34.10
निहतानि शरैः तीक्ष्णैः तेन एकेन पदातिना ।अर्धाधिक मुहूर्तेन खरः च सह दूषणः ॥३-३४-१०॥
Vālmīki 3.34.11
ऋषीणाम् अभयम् दत्तम् कृत क्षेमाः च दण्डकाः ॥३-३४-११॥
Vālmīki 3.34.12
एका कथंचित् मुक्ता अहम् परिभूय महात्मना ।स्त्री वधम् शंकमानेन रामेण विदितात्मना ॥३-३४-१२॥
Vālmīki 3.34.13
भ्राता च अस्य महातेजा गुणतः तुल्य विक्रमः ।अनुरक्तः च भक्तः च लक्ष्मणो नाम वीर्यवान् ॥३-३४-१३॥
Vālmīki 3.34.14
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली ।रामस्य दक्षिणे बाहुः नित्यम् प्राणो बहिः चरः ॥३-३४-१४॥
Vālmīki 3.34.15
रामस्य तु विशालाक्षी पूर्णेन्दु सदृश आनना ।धर्म पत्नी प्रिया नित्यम् भर्तृः प्रिय हिते रता ॥३-३४-१५॥
Vālmīki 3.34.16
सा सुकेशी सुनासोरुः सुरूपा च यशस्विनी ।देवत इव वनस्थ अस्यराजते श्रीर् इव अपरा ॥३-३४-१६॥
Vālmīki 3.34.17
तप्त कांचन वर्ण आभा रक्त तुंग नखी शुभा ।सीता नाम वरारोहा वैदेही तनु मध्यमा ॥३-३४-१७॥
Vālmīki 3.34.18
न एव देवी न गंधर्वा न यक्षी न च किंनरी ।तथा रूपा मया नारी दृष्ट पूर्वा महीतले ॥३-३४-१८॥
Vālmīki 3.34.19
यस्य सीता भवेत् भार्या यम् च हृष्टा परिष्वजेत् ।अति जीवेत् स सर्वेषु लोकेषु अपि पुरंदरात् ॥३-३४-१९॥
Vālmīki 3.34.20
सा सुशीला वपुः श्लाघ्या रूपेण अप्रतिमा भुवि ।तव अनुरूपा भार्या सा त्वम् च तस्याः पतिः वरः ॥३-३४-२०॥
Vālmīki 3.34.21
ताम् तु विस्तीर्ण जघनाम् पीन उत्तुंग पयो धराम् ।भार्या अर्थे तु तव आनेतुम् उद्यता अहम् वर आननाम् ॥३-३४-२१॥
Vālmīki 3.34.22
ताम् तु दृष्ट्वा अद्य वैदेहीम् पूर्ण चन्द्र निभ आननाम् ॥३-३४-२२॥
Vālmīki 3.34.23
मन्मथस्य शराणाम् च त्वम् विधेयो भविष्यसि ।यदि तस्याम् अभिप्रायो भार्या अर्थे तव जायते ।शीघ्रम् उद् ध्रियताम् पादो जयार्थम् इह दक्षिणः ॥३-३४-२३॥
Vālmīki 3.34.24
रोचते यदि ते वाक्यम् मम एतत् राक्षसेश्वर ।क्रियताम् निर्विशंकेन वचनम् मम रावण ॥३-३४-२४॥
Vālmīki 3.34.25
विज्ञाय इह आत्म शक्तिम् च क्रियताम् च महाबल ।सीता तव अनवद्यांगी भार्यत्वे राक्षसेश्वर ॥३-३४-२५॥
Vālmīki 3.34.26
निशम्य रामेण शरैः अजिह्मगैःहतान् जनस्थान गतान् निशाचरान् ।खरम् च दृष्ट्वा निहतम् च दूषणम्त्वम् अद्य कृत्यम् प्रतिपत्तुम् अर्हसि ॥३-३४-२६॥

Navigation

Continue with Araṇya-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷