🪷 अरण्यकाण्ड · Sarga 33
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 33 · 24 ślokas
🪷 Devanāgarī Ślokas
ततः शूर्पणखा दीना रावणम् लोक रावणम् ।अमात्य मध्ये संक्रुद्धा परुषम् वाक्यम् अब्रवीत् ॥३-३३-१॥
प्रमत्तः काम भोगेषु स्वैर वृत्तो निरंकुशः ।समुत्पन्नम् भयम् घोरम् बोद्धव्यम् न अवबुध्यसे ॥३-३३-२॥
सक्तम् ग्राम्येषु भोगेषु काम वृत्तम् महीपतिम् ।लुब्धम् न बहु मन्यन्ते श्मशान अग्निम् इव प्रजाः ॥३-३३-३॥
स्वयम् कार्याणि यः काले न अनुतिष्ठति पार्थिवः ।स तु वै सह राज्येन तैः च कार्यैः विनश्यति ॥३-३३-४॥
अयुक्त चारम् दुर्दर्शम् अस्वाधीनम् नराधिपम् ।वर्जयन्ति नरा दूरात् नदी पंकम् इव द्विपाः ॥३-३३-५॥
ये न रक्षन्ति विषयम् अस्वाधीना नराधिपः ।ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा ॥३-३३-६॥
आत्मवद्भिः विगृह्य त्वम् देव गंधर्व दानवैः ।अयुक्त चारः चपलः कथम् राजा भविष्यसि ॥३-३३-७॥
त्वम् तु बाल स्वभावत् च बुद्धि हीनः च राक्षस ।ज्ञातव्यम् तु न जानीषि कथम् राजा भविष्यसि ॥३-३३-८॥
येषाम् चारः च कोशः च नयः च जयताम् वर ।अस्वाधीना नरेन्द्राणाम् प्राकृतैः ते जनैः समाः ॥३-३३-९॥
यस्मात् पश्यन्ति दूरस्थान् सर्वान् अर्थान् नराधिपाः ।चारेण तस्मात् उच्यन्ते राजानो दीर्घ चक्षुषः ॥३-३३-१०॥
अयुक्त चारम् मन्ये त्वाम् प्राकृतैः सचिवैः युतः ।स्व जनम् च जनस्थानम् निहतम् न अवबुध्यसे ॥३-३३-११॥
चतुर्दश सहस्राणि रक्षसाम् भीम कर्मणाम् ।हतानि एकेन रामेण खरः च सह दूषणः ॥३-३३-१२॥
ऋषीणाम् अभयम् दत्तम् कृत क्षेमाः च दण्डकाः ।धर्षितम् च जनस्थानम् रामेण अक्लिष्ट कारिणा ॥३-३३-१३॥
त्वम् तु लुब्धः प्रमत्तः च पराधीनः च रावण ।विषये स्वे समुत्पन्नम् यो भयम् न अवबुध्यसे ॥३-३३-१४॥
तीक्ष्णम् अल्प प्रदातारम् प्रमत्तम् गर्वितम् शठम् ।व्यसने सर्व भूतानि न अभिधावन्ति पार्थिवम् ॥३-३३-१५॥
अतिमानिनम् अग्राह्यम् आत्म संभावितम् नरम् ।क्रोधिनम् व्यसने हन्ति स्व जनो अपि नराधिपम् ॥३-३३-१६॥
न अनुतिष्ठति कार्याणि भयेषु न बिभेति च ।क्षिप्रम् राज्यात् च्युतो दीनः तृणैः तुल्यो भवेत् इह ॥३-३३-१७॥
शुष्क काष्ठैः भवेत् कार्यम् लोष्टैः अपि च पांसुभिः ।न तु स्थानात् परिभ्रष्टैः कार्यम् स्यात् वसुधाधिपैः ॥३-३३-१८॥
उपभुक्तम् यथा वासः स्रजो वा मृदिता यथा ।एवम् राज्यात् परिभ्रष्टः समर्थो अपि निरर्थकः ॥३-३३-१९॥
अप्रमत्तः च यो राजा सर्वज्ञो विजितेन्द्रियः ।कृतज्ञो धर्म शीलः च स राजा तिष्ठते चिरम् ॥३-३३-२०॥
नयनाभ्याम् प्रसुप्तो वा जागर्ति नय चक्षुषा ।व्यक्त क्रोध प्रसादः च स राजा पूज्यते जनैः ॥३-३३-२१॥
त्वम् तु रावण दुर्बुद्धिः गुणैः एतैः विवर्जितः ।यस्य ते अविदितः चारैः रक्षसाम् सुमहान् वधः ॥३-३३-२२॥
पर अवमंता विषयेषु संगवान्न देश काल प्रविभाग तत्त्व वित् ।अयुक्त बुद्धिः गुण दोष निश्चयेविपन्न राज्यो न चिरात् विपत्स्यते ॥३-३३-२३॥
इति स्व दोषान् परिकीर्तिताम् तयासमीक्ष्य बुद्ध्या क्षणदा चरेश्वरः ।धनेन दर्पेण बलेन च अन्वितोविचिन्तयामास चिरम् स रावणः ॥३-३३-२४॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 32
- Next: Araṇya-Kāṇḍa Sarga 34 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Araṇya-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷