🪷 अरण्यकाण्ड · Sarga 40

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 40 · 27 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 3.40local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 3.40.1
मारीचस्य तु तत् वाक्यम् क्षमम् युक्तम् च रावणः ।उक्तो न प्रतिजग्राह मर्तु काम इव औषधम् ॥३-४०-१॥
Vālmīki 3.40.2
तम् पथ्य हित वक्तारम् मारीचम् राक्षसाधिपः ।अब्रवीत् परुषम् वाक्यम् अयुक्तम् काल चोदितः ॥३-४०-२॥
Vālmīki 3.40.3
यत् किल एतत् अयुक्तार्थम् मारीच मयि कथ्यते ।वाक्यम् निष्फलम् अत्यर्थम् बीजम् उप्तम् इव ऊषरे ॥३-४०-३॥
Vālmīki 3.40.4
त्वत् वाक्यैः न तु माम् शक्यम् - भेतुम् - भेत्तुम् रामस्य संयुगे ।पाप शीलस्य मूर्खस्य मानुषस्य विशेषतः ॥३-४०-४॥
Vālmīki 3.40.5
यः त्यक्त्वा सुहृदो राज्यम् मातरम् पितरम् तथा ।स्त्री वाक्यम् प्राकृतम् श्रुत्वा वनम् एक पदे गतः ॥३-४०-५॥
Vālmīki 3.40.6
अवश्यम् तु मया तस्य संयुगे खर घातिनः ।प्राणैः प्रियतरा सीता हर्तव्या तव संनिधौ ॥३-४०-६॥
Vālmīki 3.40.7
एवम् मे निश्चिता बुद्धिः हृदि मारीच विद्यते ।न व्यावर्तयितुम् शक्या स इन्द्रैः अपि सुर असुरैः ॥३-४०-७॥
Vālmīki 3.40.8
दोषम् गुणम् वा संपृष्टः त्वम् एवम् वक्तुम् अर्हसि ।अपायम् वा अपि उपायम् वा कार्यस्य अस्य विनिश्चये ॥३-४०-८॥
Vālmīki 3.40.9
संपृष्टेन तु वक्तव्यम् सचिवेन विपश्चिता ।उद्यत अंजलिना राज्ञे य इच्छेत् भूतिम् आत्मनः ॥३-४०-९॥
Vālmīki 3.40.10
वाक्यम् अप्रतिकूलम् तु मृदु पूर्वम् शुभम् हितम् ।उपचारेण युक्तम् च वक्तव्यो वसुधा अधिपः ॥३-४०-१०॥
Vālmīki 3.40.11
स अवमर्दम् तु यत् वाक्यम् अथवा मारीच हितम् उच्यते ।न अभिनंदति तत् राजा मानार्थी मान वर्जितम् ॥३-४०-११॥
Vālmīki 3.40.12
पंच रूपाणि राजानो धारयन्ति अमित ओजसः ।अग्नेः इन्द्रस्य सोमस्य यमस्य वरुणस्य च ॥३-४०-१२॥
Vālmīki 3.40.13
औष्ण्यम् तथा विक्रमम् च सौम्यम् दण्डम् प्रसन्नताम् ।धारयन्ति महाताम्नो राजानः क्षणदाचर ॥३-४०-१३॥
Vālmīki 3.40.14
तस्मात् सर्वासु अवस्थासु मान्याः पूज्याः च पार्थिवाः ।त्वम् तु धर्मम् अविज्ञाय केवलम् मोहम् आश्रितः ॥३-४०-१४॥
Vālmīki 3.40.15
अभ्यागतम् माम् दौरात्म्यात् परुषम् वदसि ईदृशम् ।गुण दोषौ न पृच्छामि क्षमम् च आत्मनि राक्षस ॥३-४०-१५॥
Vālmīki 3.40.16
मया उक्तम् अपि च एतावत् त्वाम् प्रति अमितविक्रम ।अस्मिन् तु स भवान् कृत्ये साहाय्यम् कर्तुम् अर्हसि ॥३-४०-१६॥
Vālmīki 3.40.17
श्रुणु तत् कर्म साहाय्ये यत् कार्यम् वचनात् मम ।सौवर्णः त्वम् मृगो भूत्वा चित्रो रजत बिन्दुभिः ॥३-४०-१७॥
Vālmīki 3.40.18
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ।प्रलोभयित्वा वैदेहीम् यथा इष्टम् गन्तुम् अर्हसि ॥३-४०-१८॥
Vālmīki 3.40.19
त्वाम् हि माया मयम् दृष्ट्वा कांचनम् जात विस्मया ।आनय एनम् इति क्षिप्रम् रामम् वक्ष्यति मैथिली ॥३-४०-१९॥
Vālmīki 3.40.20
अपक्रान्ते च काकुत्स्थे दूरम् च यात्वा अपि उदाहर ।हा सीते लक्ष्मणे इति एवम् राम वाक्य अनुरूपकम् ॥३-४०-२०॥
Vālmīki 3.40.21
तत् श्रुत्वा राम पदवीम् सीताया च प्रचोदितः ।अनुगच्छति संभ्रांतम् सौमित्रिः अपि सौहृदात् ॥३-४०-२१॥
Vālmīki 3.40.22
अपक्रान्ते च काकुत्स्थे लक्ष्मण च यथा सुखम् ।आहरिष्यामि वैदेहीम् सहस्राक्षः शचीम् इव ॥३-४०-२२॥
Vālmīki 3.40.23
एवम् कृत्वा तु इदम् कार्यम् यथा इष्टम् गच्छ राक्षस ।राज्यस्य अर्धम् प्रदास्यामि मारीच तव सुव्रत ॥३-४०-२३॥
Vālmīki 3.40.24
गच्छ सौम्य शिवम् मार्गम् कार्यस्य अस्य विवृद्धये ।अहम् तु अनुगमिष्यामि स रथो दण्डका वनम् ॥३-४०-२४॥
Vālmīki 3.40.25
प्राप्य सीताम् अयुद्धेन वंचयित्वा तु राघवम् ।लंकाम् प्रति गमिष्यामि कृत कार्यः सह त्वया ॥३-४०-२५॥
Vālmīki 3.40.26
नो चेत् करोषि मारीच हन्मि त्वाम् अहम् अद्य वै ।एतत् कार्यम् अवश्यम् मे बलाद् अपि करिष्यसि ।राज्ञो हि प्रतिकूलस्थो न जातु सुखम् एधते ॥३-४०-२६॥
Vālmīki 3.40.27
आसाद्या तम् जीवित सम्शयः तेमृत्युर् ध्रुवो हि अद्य मया विरुध्यतः ।एतत् यथावत् परिगृह्य बुद्ध्यायत् अत्र पथ्यम् कुरु तत् तथा त्वम् ॥३-४०-२७॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷