🪷 अरण्यकाण्ड · Sarga 41

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 41 · 20 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 3.41local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 3.41.1
आज्ञप्तो रावणेन इत्थम् प्रतिकूलम् च राजवत् ।अब्रवीत् परुषम् वाक्यम् निःशन्को राक्षसाधिपम् ॥३-४१-१॥
Vālmīki 3.41.2
केन अयम् उपदिष्टः ते विनाशः पाप कर्मणा ।स पुत्रस्य स राज्यस्य स अमात्यस्य निशाचर ॥३-४१-२॥
Vālmīki 3.41.3
कः त्वया सुखिना राजन् न अभिनन्दति पापकृत् ।केन इदम् उपदिष्टम् ते मृत्यु द्वारम् उपायतः ॥३-४१-३॥
Vālmīki 3.41.4
शत्रवः तव सुव्यक्तम् हीन वीर्या निशा चर ।इच्छन्ति त्वाम् विनश्यन्तम् उपरुद्धम् बलीयसा ॥३-४१-४॥
Vālmīki 3.41.5
केन इदम् उपदिष्टम् ते क्षुद्रेण अहित बुद्धिना ।यः त्वाम् इच्छति नश्यन्तम् स्व कृतेन निशाचर ॥३-४१-५॥
Vālmīki 3.41.6
वध्याः खलु न वध्यन्ते सचिवाः तव रावण ।ये त्वाम् उत्पथम् आरूढम् न निगृह्णन्ति सर्वशः ॥३-४१-६॥
Vālmīki 3.41.7
अमात्यैः काम वृत्तो हि राजा कापथम् आश्रितः ।निग्राह्यः सर्वथा सद्भिः न निग्राह्यो निगृह्यसे ॥३-४१-७॥
Vālmīki 3.41.8
धर्मम् अर्थम् च कामम् च यशः च जयताम् वर ।स्वामि प्रसादात् सचिवाः प्राप्नुवन्ति निशाचर ॥३-४१-८॥
Vālmīki 3.41.9
विपर्यये तु तत् सर्वम् व्यर्थम् भवति रावण ।व्यसनम् स्वामि वैगुण्यात् प्राप्नुवन्ति इतरे जनाः ॥३-४१-९॥
Vālmīki 3.41.10
राज मूलो हि धर्मः च जयः च जयताम् वर ।तस्मात् सर्वासु अवस्थासु रक्षितव्यो नराधिपाः ॥३-४१-१०॥
Vālmīki 3.41.11
राज्यम् पालयितुम् शक्यम् न तीक्ष्णेन निशाचर ।न च अपि प्रतिकूलेन न अविनीतेन राक्षस ॥३-४१-११॥
Vālmīki 3.41.12
ये तीक्ष्ण मंत्राः सचिवा भज्यन्ते सह तेन वै ।विषमे तुरगाः शीघ्रा मन्द सारथयो यथा ॥३-४१-१२॥
Vālmīki 3.41.13
बहवः साधवो लोके युक्त धर्मम् अनुष्ठिताः ।परेषाम् अपराधेन विनष्टाः स परिच्छदाः ॥३-४१-१३॥
Vālmīki 3.41.14
स्वामिना प्रतिकूलेन प्रजाः तीक्ष्णेन रावण ।रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा ॥३-४१-१४॥
Vālmīki 3.41.15
अवश्यम् विनशिष्यन्ति सर्वे रावण राक्षसाः ।येषाम् त्वम् कर्कशो राजा दुर्बुद्धिः अजित इन्द्रियः ॥३-४१-१५॥
Vālmīki 3.41.16
तद् इदम् काक तालीयम् घोरम् आसादितम् मया ।अत्र त्वम् शोचनीयो असि स सैन्यो विनशिष्यसि ॥३-४१-१६॥
Vālmīki 3.41.17
माम् निहत्य तु रामो असौ अचिरात् त्वाम् वधिष्यति ।अनेन कृत कृत्यो अस्मि म्रिये च अपि अरिणा हतः ॥३-४१-१७॥
Vālmīki 3.41.18
दर्शनात् एव रामस्य हतम् माम् अवधारय ।आत्मानम् च हतम् विद्धि हृत्वा सीताम् स बान्धवम् ॥३-४१-१८॥
Vālmīki 3.41.19
आनयिष्यसि चेत् सीताम् आश्रमात् सहितो मया ।न एव त्वम् असि न एव अहम् न एव लंका न राक्षसाः ॥३-४१-१९॥
Vālmīki 3.41.20
निवार्यमाणः तु मया हित एषिणान मृष्यसे वाक्यम् इदम् निशाचर ।परेत कल्पा हि गत आयुषो नराहितम् न गृह्णन्ति सुहृद्भिः ईरितम् ॥३-४१-२०॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷