🪷 अरण्यकाण्ड · Sarga 42

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 42 · 35 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 3.42local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 3.42.1
एवम् उक्त्वा तु परुषम् मारीचो रावणम् ततः ।गच्छावः इति अब्रवीत् दीनो भयात् रात्रिम् चर प्रभोः ॥३-४२-१॥
Vālmīki 3.42.2
दृष्टाः च अहम् पुनः तेन शर चाप असि धारिणा ।मद्वधो उद्यत शस्त्रेण विनष्टम् जीवितम् च मे ॥३-४२-२॥
Vālmīki 3.42.3
न हि रामम् पराक्रम्य जीवन् प्रति निवर्तते ।वर्तते प्रति रूपो असौ यम दण्ड हतस्य ते ॥३-४२-३॥
Vālmīki 3.42.4
किम् नु कर्तुम् मया शक्यम् एवम् त्वयि दुरात्मनि ।एष गच्छामि अहम् तात स्वस्ति ते अस्तु निशाचरः ॥३-४२-४॥
Vālmīki 3.42.5
प्रहृष्टः तु अभवत् तेन वचनेन स राक्षसः ।परिष्वज्य सुसंश्लिष्टम् इदम् वचनम् अब्रवीत् ॥३-४२-५॥
Vālmīki 3.42.6
एतत् शौण्डीर्य - चौत्तिर्य -न्युक्तम् ते मत् च्छंद वश वर्तिनः ।इदानीम् असि मारीचः पूर्वम् अन्यो निशाचरः ॥३-४२-६॥
Vālmīki 3.42.7
आरुह्यताम् शीघ्रम् खगो रत्न विभूषितः ।मया सह रथो युक्तः पिशाच वदनैः खरैः ॥३-४२-७॥
Vālmīki 3.42.8
प्रलोभयित्वा वैदेहीम् यथा इष्टम् गन्तुम् अर्हसि ।ताम् शून्ये प्रसभम् सीताम् आनयिष्यामि मैथिलीम् ॥३-४२-८॥
Vālmīki 3.42.9
तथा इति उवाच एनम् रावणम् ताटका सुतः ।ततो रावण मारीचौ विमानम् इव तम् रथम् ॥३-४२-९॥
Vālmīki 3.42.10
आरुह्य ययतुः शीघ्रम् तस्मात् आश्रम मण्डलात् ।तथैव तत्र पश्यन्तौ पत्तनानि वनानि च ॥३-४२-१०॥
Vālmīki 3.42.11
गिरीम् च सरिताः सर्वा राष्ट्राणि नगराणि च ।समेत्य दण्डक अरण्यम् राघवस्य आश्रमम् ततः ॥३-४२-११॥
Vālmīki 3.42.12
ददर्श सह मरीचो रावणो राक्षसाधिपः ।अवतीर्य रथात् तस्मात् ततः कांचन भूषणात् ॥३-४२-१२॥
Vālmīki 3.42.13
हस्ते गृहीत्वा मारीचम् रावणो वाक्यम् अब्रवीत् ।एतत् राम आश्रम पदम् दृश्यते कदली वृतम् ॥३-४२-१३॥
Vālmīki 3.42.14
क्रियताम् तत् सखे शीघ्रम् यत् अर्थम् वयम् आगताः ।स रावण वचः श्रुत्वा मारीचो राक्षसः तदा ॥३-४२-१४॥
Vālmīki 3.42.15
मृगो भूत्वा आश्रम द्वारि रामस्य विचचार ह ।स तु रूपम् समास्थाय महत् अद्भुत दर्शनम् ॥३-४२-१५॥
Vālmīki 3.42.16
मणिप्रवर शृंगाग्रः सित असित मुखाकृतिः ।रक्तपद्मोत्पल मुख इन्द्रनीलोत्पल श्रवाः ॥३-४२-१६॥
Vālmīki 3.42.17
किम्चित् अभ्युन्नत ग्रीव इन्द्रनील निभ उदरः ।मधूक निभ पार्श्वः च कंज किंजल्क सम्निभः ॥३-४२-१७॥
Vālmīki 3.42.18
वैदूर्य संकाश खुरः तनु जंघः सुसंहतः ।इन्द्र आयुध सवर्णेन पुच्छेन ऊर्ध्वम् विराजितः ॥३-४२-१८॥
Vālmīki 3.42.19
मनोहर स्निग्ध वर्णो रत्नैः नाना विधैः वृतः ।क्षणेन राक्षसो जातो मृगः परम शोभनः ॥३-४२-१९॥
Vālmīki 3.42.20
वनम् प्रज्वलयन् रम्यम् राम आश्रम पदम् च तत् ।मनोहरम् दर्शनीयम् रूपम् कृत्वा स राक्षसः ॥३-४२-२०॥
Vālmīki 3.42.21
प्रलोभनार्थम् वैदेह्या नाना धातु विचित्रितम् ।विचरन् गच्छते सम्यक् शाद्वलानि समंततः ॥३-४२-२१॥
Vālmīki 3.42.22
रोप्यैः बिन्दु शतैः चित्रो भूत्वा च प्रिय दर्शनः ।विटपीनाम् किसलयान् भक्षयन् विचचार ह ॥३-४२-२२॥
Vālmīki 3.42.23
कदली गृहकम् गत्वा कर्णिकारानि ततः ततः ।समाश्रयन् मंदगतिः सीता संदर्शनम् ततः ॥३-४२-२३॥
Vālmīki 3.42.24
राजीव चित्र पृष्ठः स विरराज महामृगः ।राम आश्रम पद अभ्याशे विचचार यथा सुखम् ॥३-४२-२४॥
Vālmīki 3.42.25
पुनर् गत्वा निवृत्तः च विचचार मृगोत्तमः ।गत्वा मुहूर्तम् त्वरया पुनः प्रति निवर्तते ॥३-४२-२५॥
Vālmīki 3.42.26
विक्रीडन् च पुनर् भूमौ पुनर् एव निषीदति ।आश्रम द्वारम् आगम्य मृग यूथानि गच्छति ॥३-४२-२६॥
Vālmīki 3.42.27
मृग यूथैः अनुगतः पुनर् एव निवर्तते ।सीता दर्शनम् आकांक्षन् राक्षसो मृगताम् गतः ॥३-४२-२७॥
Vālmīki 3.42.28
परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् ।समुद्वीक्ष्य च सर्वे तम् मृगा ये अन्ये वनेचराः ॥३-४२-२८॥
Vālmīki 3.42.29
उपगम्य समाघ्राय विद्रवन्ति दिशो दश ।राक्षसः सो अपि तान् वन्यान् मृगान् मृगवधे रतः ॥३-४२-२९॥
Vālmīki 3.42.30
प्रच्छादनार्थम् भावस्य न भक्षयति संस्पृशन् ।तस्मिन् एव ततः काले वैदेही शुभलोचना ॥३-४२-३०॥
Vālmīki 3.42.31
कुसुम अपचये व्यग्रा पादपान् अभ्यवर्तत ।कर्णिकारान् अशोकान् च चूताम् च मदिरेक्षणा ॥३-४२-३१॥
Vālmīki 3.42.32
कुसुमानि अपचिन्वन्ती चचार रुचिरानना ।अनर्हा अरण्य वासस्य सा तम् रत्नमयम् मृगम् ॥३-४२-३२॥
Vālmīki 3.42.33
मुक्ता मणि विचित्र अंगम् ददर्श परम अंगना ।तम् वै रुचिर दंत ओष्ठम् रूप्य धातु तनू रुहम् ॥३-४२-३३॥
Vālmīki 3.42.34
विस्मयात् उत्फुल्ल नयना स स्नेहम् समुदैक्षत ।स च ताम् राम दयिताम् पश्यन् मायामयो मृगः ॥३-४२-३४॥
Vālmīki 3.42.35
विचचार ततः तत्र दीपयन् इव तत् वनम् ।अदृष्ट पूर्वम् दृष्ट्वा तम् नाना रत्नमयम् मृगम् ।विस्मयम् परमम् सीता जगाम जनक आत्मजा ॥३-४२-३५॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷