🪷 अरण्यकाण्ड · Sarga 43
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 43 · 51 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 3.43local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
सा तम् संप्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वती ।हेम राजत वर्णाभ्याम् पार्श्वाभ्याम् उपशोभितम् ॥३-४३-१॥
प्रहृष्टा च अनवद्यान्गी मृष्ट हाटक वर्णिनी ।भर्तारम् अपि च आक्रन्द लक्ष्मणम् चैव सायुधम् ॥३-४३-२॥
आहूय आहूय च पुनः तम् मृगम् साधु वीक्षते ।आगच्छ आगच्छ शीघ्रम् वै आर्यपुत्र सह अनुज ॥३-४३-३॥
तया आहूतौ नरव्याघ्रौ वैदेह्या राम लक्ष्मणौ ।वीक्षमाणौ तु तम् देशम् तदा ददृशतुः मृगम् ॥३-४३-४॥
शंकमानः तु तम् दृष्ट्वा लक्ष्मणो रामम् अब्रवीत् ।तम् एव एनम् अहम् मन्ये मारीचम् राक्षसम् मृगम् ॥३-४३-५॥
चरन्तो मृगयाम् हृष्टाः पापेन उपाधिना वने ।अनेन निहता राम राजानः काम रूपिणा ॥३-४३-६॥
अस्य मायाविदो माया मृग रूपम् इदम् कृतम् ।भानुमत् पुरुषव्याघ्र गन्धर्व पुर संनिभम् ॥३-४३-७॥
मृगो हि एवम् विधो रत्न विचित्रो न अस्ति राघव ।जगत्याम् जगतीनाथ माया एषा हि न संशयः ॥३-४३-८॥
एवम् ब्रुवाणम् काकुत्स्थम् प्रतिवार्य शुचि स्मिता ।उवाच सीता संहृष्टा चद्मना हृत चेतना ॥३-४३-९॥
आर्यपुत्र अभिरामो असौ मृगो हरति मे मनः ।आनय एनम् महाबाहो क्रीडार्थम् नः भविष्यति ॥३-४३-१०॥
इह आश्रम पदे अस्माकम् बहवः पुण्य दर्शनाः ।मृगाः चरन्ति सहिताः चमराः सृमराः तथा ॥३-४३-११॥
ऋक्षाः पृषत संघाः च वानराः किनराः तथा ।विचरन्ति महाबाहो रूप श्रेष्ठा महाबलाः ॥३-४३-१२॥
न च अस्य सदृशो राजन् दृष्ट पूर्वो मृगः मया ।तेजसा क्षमया दीप्त्या यथा अयम् मृग सत्तमः ॥३-४३-१३॥
नाना वर्ण विचित्र अंगो रत्न भूतो मम अग्रतः ।द्योतयन् वनम् अव्यग्रम् शोभते शशि संनिभः ॥३-४३-१४॥
अहो रूपम् अहो लक्ष्मीः स्वर संपत् च शोभना ।मृगो अद्भुतो विचित्रांगो हृदयम् हरति इव मे ॥३-४३-१५॥
यदि ग्रहणम् अभ्येति जीवन् एव मृगः तव ।आश्चर्य भूतम् भवति विस्मयम् जनयिष्यति ॥३-४३-१६॥
समाप्त वन वासानाम् राज्य स्थानाम् च नः पुनः ।अंतःपुरे विभूषार्थो मृग एष भविष्यति ॥३-४३-१७॥
भरतस्य आर्यपुत्रस्य श्वश्रूणाम् मम च प्रभो ।मृग रूपम् इदम् दिव्यम् विस्मयम् जनयिष्यति ॥३-४३-१८॥
जीवन् न यदि ते अभ्येति ग्रहणम् मृग सत्तमः ।अजिनम् नरशार्दूल रुचिरम् तु भविष्यति ॥३-४३-१९॥
निहतस्य अस्य सत्त्वस्य जांबूनदमय त्वचि ।शष्प बृस्याम् विनीतायाम् इच्छामि अहम् उपासितुम् ॥३-४३-२०॥
कामवृत्तम् इदम् रौद्रम् स्त्रीणाम् असदृशम् मतम् ।वपुषा तु अस्य सत्त्वस्य विस्मयो जनितो मम ॥३-४३-२१॥
तेन कांचन रोम्णा तु मणि प्रवर शृंगिणा ।तरुण आदित्य वर्णेन नक्षत्र पथ वर्चसा ॥३-४३-२२॥
बभूव राघवस्य अपि मनो विस्मयम् आगतम् ।एवम् सीता वचः श्रुत्वा दृष्ट्वा च मृगम् अद्भुतम् ॥३-४३-२३॥
लोबितः तेन रूपेण सीताया च प्रचोदितः ।उवाच राघवो हृष्टो भ्रातरम् लक्ष्मणम् वचः ॥३-४३-२४॥
पश्य लक्ष्मण वैदेह्याः स्पृहाम् उल्लसिताम् इमाम् ।रूप श्रेष्ठतया हि एष मृगो अद्य न भविष्यति ॥३-४३-२५॥
न वने नंदनोद्देशे न चैत्ररथ संश्रये ।कुतः पृथिव्याम् सौमित्रे यो अस्य कश्चित् समो मृगः ॥३-४३-२६॥
प्रतिलोम अनुलोमाः च रुचिरा रोम राजयः ।शोभन्ते मृगम् आश्रित्य चित्राः कनक बिन्दुभिः ॥३-४३-२७॥
पश्य अस्य जृंभमाणस्य दीप्ताम् अग्नि शिखोपमाम् ।जिह्वाम् मुखात् निःसरंतीम् मेघात् इव शत ह्रदाम् ॥३-४३-२८॥
मसार गल्वर्क मुखः शंख मुक्ता निभ उदरः ।कस्य नाम अनिरूप्यः असौ न मनो लोभयेत् मृगः ॥३-४३-२९॥
कस्य रूपम् इदम् दृष्ट्वा जांबूनदमय प्रभम् ।नाना रत्नमयम् दिव्यम् न मनो विस्मयम् व्रजेत् ॥३-४३-३०॥
मांस हेतोः अपि मृगान् विहारार्थम् च धन्विनः ।घ्नन्ति लक्ष्मण राजानो मृगयायाम् महावने ॥३-४३-३१॥
धनानि व्यवसायेन विचीयन्ते महावने ।धातवो विविधाः च अपि मणि रत्न सुवर्णिनः ॥३-४३-३२॥
तत् सारम् अखिलम् नॄणाम् धनम् निचय वर्धनम् ।मनसा चिन्तितम् सर्वम् यथा शुक्रस्य लक्ष्मण ॥३-४३-३३॥
अर्थी येन अर्थ कृत्येन संव्रजति अविचारयन् ।तम् अर्थम् अर्थ शास्त्रज्ञः प्राहुः अर्थ्याः च लक्ष्मण ॥३-४३-३४॥
एतस्य मृग रत्नस्य परार्ध्ये कांचन त्वचि ।उपवेक्ष्यति वैदेही मया सह सुमध्यमा ॥३-४३-३५॥
न कादली न प्रियकी न प्रवेणी न च अविकी ।भवेत् एतस्य सदृशी स्पर्शनेन इति मे मतिः ॥३-४३-३६॥
एष चैव मृगः श्रीमान् यः च दिव्यो नभः चरः ।उभौ एतौ मृगौ दिव्यौ तारामृग महीमृगौ ॥३-४३-३७॥
यदि वा अयम् तथा यत् माम् भवेत् वदसि लक्ष्मण ।माया एषा राक्षसस्य इति कर्तव्यो अस्य वधो मया ॥३-४३-३८॥
एतेन हि नृशंसेन मारीचेन अकृत आत्मना ।वने विचरता पूर्वम् हिंसिता मुनि पुंगवाः ॥३-४३-३९॥
उत्थाय बहवो अनेन मृगयायाम् जनाधिपाः ।निहताः परम इष्वासाः तस्मात् वध्यः तु अयम् मृगः ॥३-४३-४०॥
पुरस्तात् इह वातापिः परिभूय तपस्विनः ।उदरस्थो द्विजान् हन्ति स्व गर्भो अश्वतरीम् इव ॥३-४३-४१॥
स कदाचित् चिरात् लोभात् आससाद महामुनिम् ।अगस्त्यम् तेजसा युक्तम् भक्ष्यः तस्य बभूव ह ॥३-४३-४२॥
समुत्थाने च तत् रूपम् कर्तु कामम् समीक्ष्य तम् ।उत्स्मयित्वा तु भगवान् वातापिम् इदम् अब्रवीत् ॥३-४३-४३॥
त्वया अविगण्य वातापे परिभूताः च तेजसा ।जीव लोके द्विज श्रेष्ठाः तस्मात् असि जराम् गतः ॥३-४३-४४॥
तत् एतत् न भवेत् रक्षो वातापिः इव लक्ष्मण ।मत् विधम् यो अतिमन्येत धर्म नित्यम् जितेन्द्रियम् ॥३-४३-४५॥
भवेत् हतो अयम् वातापिः अगस्त्येन इव मा गतः ।इह त्वम् भव संनद्धो यंत्रितो रक्ष मैथिलीम् ॥३-४३-४६॥
अस्याम् आयत्तम् अस्माकम् यत् कृत्यम् रघुनंदन ।अहम् एनम् वधिष्यामि ग्रहीष्यामि अथवा मृगम् ॥३-४३-४७॥
यावत् गच्छामि सौमित्रे मृगम् आनयितुम् द्रुतम् ।पश्य लक्ष्मण वैदेहीम् मृग त्वचि गताम् स्पृहाम् ॥३-४३-४८॥
त्वचा प्रधानया हि एष मृगो अद्य न भविष्यति ।अप्रमत्तेन ते भाव्यम् आश्रमस्थेन सीतया ॥३-४३-४९॥
यावत् पृषतम् एकेन सायकेन निहन्मि अहम् ।हत्वा एतत् चर्म च आदाय शीघ्रम् एष्यामि लक्ष्मण ॥३-४३-५०॥
प्रदक्षिणेन अतिबलेन पक्षिणाजटायुषा बुद्धिमता च लक्ष्मण ।भव अप्रमत्तः प्रतिगृह्य मैथिलीम्प्रति क्षणम् सर्वत एव शन्कितः ॥३-४३-५१॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 42
- Next: Araṇya-Kāṇḍa Sarga 44 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷