🪷 अरण्यकाण्ड · Sarga 44
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 44 · 27 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 3.44local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
तथा तु तम् समादिश्य भ्रातरम् रघुनंदनः ।बबन्ध असिम् महातेजा जांबूनदमयः त्सरुम् ॥३-४४-१॥
ततः त्रि विनतम् चापम् आदाय आत्म विभूषणम् ।आबध्य च कलापौ द्वौ जगाम उदग्र विक्रमः ॥३-४४-२॥
तम् वंचयानो राजेन्द्रम् आपतन्तम् निरीक्ष्य वै ।बभूव अंतर्हितः त्रासात् पुनः संदर्शने अभवत् ॥३-४४-३॥
बद्ध असिः धनुः आदाय प्रदुद्राव यतो मृगः ।तम् स्म पश्यति रूपेण द्योतमानम् इव अग्रतः ॥३-४४-४॥
अवेक्ष्य अवेक्ष्य धावन्तम् धनुष् पाणिः महावने ।अतिवृत्तम् इषोः पातात् लोभयानम् कदाचन ॥३-४४-५॥
शंकितम् तु समुद् भ्रान्तम् उत्पतन्तम् इव अंबरे ।दृअश्यमानम् अदृश्यम् च वन उद्देशेषु केषुचित् ॥३-४४-६॥
चिन्न अभ्रैः इव संवीतम् शारदम् चन्द्र मण्डलम् ।मुहूर्तात् एव ददृशे मुहुर् दूरात् प्रकाशते ॥३-४४-७॥
दर्शन अदर्शनेन एव सः अपाकर्षत राघवम् ।सुदूरम् आश्रमस्य अस्य मारिचो मृगताम् गतः ॥३-४४-८॥
आसीत् क्रुद्धः तु काकुत्स्थो विवशः तेन मोहितः ।अथ अवतस्थे सुश्रान्तः च्छायाम् आश्रित्य शाद्वले ॥३-४४-९॥
स तम् उन्मादयामास मृगरूपो निशाचर ।मृगैः परिवृतो अथ वन्यैः अदूरात् प्रत्यदृश्यत ॥३-४४-१०॥
ग्रहीतु कामम् दृष्ट्वा तम् पुनः एव अभ्यधावत ।तत् क्षणात् एव संत्रासात् पुनर् अंतर्हितो अभवत् ॥३-४४-११॥
पुनर् एव ततो दूरात् वृक्ष खण्डात् विनिःसृतः ।दृष्ट्वा रामो महातेजाः तम् हन्तुम् कृत निश्चयः ॥३-४४-१२॥
भूयः तु शरम् उद्धृत्य कुपितः तत्र राघवः ।सूर्य रश्मि प्रतीकाशम् ज्वलंतम् अरि मर्दनम् ॥३-४४-१३॥
संधाय सुदृढे चापे विकृष्य बलवत् बली ।तम् एव मृगम् उद्दिश्य श्वसंतम् इव पन्नगम् ॥३-४४-१४॥
मुमोच ज्वलितम् दीप्तम् अस्त्रम् ब्रह्म विनिर्मितम् ।शरीरम् मृग रूपस्य विनिर्भिद्य शरोत्तमः ॥३-४४-१५॥
मारीचस्य एव हृदयम् विभेद अशनि संनिभः ।ताल मात्रम् अथ उत्प्लुत्य न्यपतत् स भृश आतुरः ॥३-४४-१६॥
व्यनदत् भैरवम् नादम् धरण्याम् अल्प जीवितः ।म्रियमाणः तु मारीचो जहौ ताम् कृत्रिमाम् तनुम् ॥३-४४-१७॥
स्मृत्वा तत् वचनम् रक्षो दध्यौ केन तु लक्ष्मणम् ।इह प्रस्थापयेत् सीता ताम् शून्ये रावणे हरेत् ॥३-४४-१८॥
स प्राप्त कालम् अज्ञाय चकार च ततः स्वरम् ।सदृशम् राघवस्य एव हा सीते लक्ष्मण इति च ॥३-४४-१९॥
तेन मर्मणि निर्विद्धम् शरेण अनुपमेन हि ।मृग रूपम् तु तत् त्यक्त्वा राक्षसम् रूपम् आस्थितः ॥३-४४-२०॥
चक्रे स सुमहा कायम् मारीचो जीवितम् त्यजन् ।तम् दृष्ट्वा पतितम् भूमौ राक्षसम् भीम दर्शनम् ॥३-४४-२१॥
रामो रुधिर सिक्त अंगम् चेष्टमानम् महीतले ।जगाम मनसा सीताम् लक्ष्मणस्य वचः स्मरन् ॥३-४४-२२॥
मारीचस्य तु माय एषा पूर्व उक्तम् लक्ष्मणेन तु ।तत् तदा हि अभवत् च अद्य मारीचो अयम् मया हतः ॥३-४४-२३॥
हा सीते लक्ष्मण इति एवम् आक्रुश्य तु महा स्वनम् ।ममार राक्षसः सो अयम् श्रुत्वा सीता कथम् भवेत् ॥३-४४-२४॥
लक्ष्मणः च महाबाहुः काम् अवस्थाम् गमिष्यति ।इति संचिन्त्य धर्माअत्मा रामो हृष्ट तनू रुहः ॥३-४४-२५॥
तत्र रामम् भयम् तीव्रम् आविवेश विषादजम् ।राक्षसम् मृग रूपम् तम् हत्वा श्रुत्वा च तत् स्वनम् ॥३-४४-२६॥
निहत्य पृषतम् च अन्यम् मांसम् आदाय राघवः ।त्वरमाणो जनस्थानम् ससार अभिमुखः तदा ॥३-४४-२७॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 43
- Next: Araṇya-Kāṇḍa Sarga 45 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷