🪷 अरण्यकाण्ड · Sarga 45
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 45 · 40 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 3.45local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
आर्तस्वरम् तु तम् भर्तुः विज्ञाय सदृशम् वने ।उवाच लक्ष्मणम् सीता गच्छ जानीहि राघवम् ॥३-४५-१॥
न हि मे जीवितम् स्थाने हृदयम् वा अवतिष्ठते ।क्रोशतः परम आर्तस्य श्रुतः शब्दो मया भृशम् ॥३-४५-२॥
आक्रन्दमानम् तु वने भ्रातरम् त्रातुम् अर्हसि ।तम् क्षिप्रम् अभिधाव त्वम् भ्रातरम् शरण एषिणम् ॥३-४५-३॥
रक्षसाम् वशम् आपन्नम् सिंहानाम् इव गोवृषम् ।न जगाम तथा उक्तः तु भ्रातुः आज्ञाय शासनम् ॥३-४५-४॥
तम् उवाच ततः तत्र क्षुभिता जनक आत्मजा ।सौमित्रे मित्र रूपेण भ्रातुः त्वम् असि शत्रुवत् ॥३-४५-५॥
यः त्वम् अस्याम् अवस्थायाम् भ्रातरम् न अभिपद्यसे ।इच्छसि त्वम् विनश्यन्तम् रामम् लक्ष्मण मत् कृते ॥३-४५-६॥
लोभात् तु मत् कृतम् नूनम् न अनुगच्छसि राघवम् ।व्यसनम् ते प्रियम् मन्ये स्नेहो भ्रातरि न अस्ति ते ॥३-४५-७॥
तेन तिष्ठसि विस्रब्धः तम् अपश्यन् महाद्युतिम् ।किम् हि संशयम् आपन्ने तस्मिन् इह मया भवेत् ॥३-४५-८॥
कर्तव्यम् इह तिष्ठन्त्या यत् प्रधानः त्वम् आगतः ।एवम् ब्रुवाणम् वैदेहीम् बाष्प शोक समन्वितम् ॥३-४५-९॥
अब्रवीत् लक्ष्मणः त्रस्ताम् सीताम् मृग वधूम् इव ।पन्नग असुर गन्धर्व देव दानव राक्षसैः ॥३-४५-१०॥
अशक्यः तव वैदेही भर्ता जेतुम् न संशयः ।देवि देव मनुष्येषु गन्धर्वेषु पतत्रिषु ॥३-४५-११॥
राक्षसेषु पिशाचेषु किन्नरेषु मृगेषु च ।दानवेषु च घोरेषु न स विद्येत शोभने ॥३-४५-१२॥
यो रामम् प्रतियुध्येत समरे वासव उपमम् ।अवध्यः समरे रामो न एवम् त्वम् वक्तुम् अर्हसि ॥३-४५-१३॥
न त्वाम् अस्मिन् वने हातुम् उत्सहे राघवम् विना ।अनिवार्यम् बलम् तस्य बलैः बलवताम् अपि ॥३-४५-१४॥
त्रिभिः लोकैः समुदितैः स ईश्वरैः स अमरैः अपि ।हृदयम् निर्वृतम् ते अस्तु संतापः त्यज्यताम् तव ॥३-४५-१५॥
आगमिष्यति ते भर्ता शीघ्रम् हत्वा मृगोत्तमम् ।न सस् तस्य स्वरो व्यक्तम् न कश्चित् अपि दैवतः ॥३-४५-१६॥
गन्धर्व नगर प्रख्या माया तस्य च रक्षसः ।न्यास भूता असि वैदेहि न्यस्ता मयि महात्मना ॥३-४५-१७॥
रामेण त्वम् वरारोहे न त्वाम् त्यक्तुम् इह उत्सहे ।कृत वैराः च कल्याणि वयम् एतैः निशाचरैः ॥३-४५-१८॥
खरस्य निधने देवि जनस्थान वधम् प्रति ।राक्षसा विविधा वाचो व्यवहरन्ति महावने ॥३-४५-१९॥
हिंसा विहारा वैदेहि न चिन्तयितुम् अर्हसि ।लक्ष्मणेन एवम् उक्ता तु क्रुद्धा संरक्त लोचना ॥३-४५-२०॥
अब्रवीत् परुषम् वाक्यम् लक्ष्मणम् सत्य वादिनम् ।अनार्य करुणारंभ नृशंस कुल पांसन ॥३-४५-२१॥
अहम् तव प्रियम् मन्ये रामस्य व्यसनम् महत् ।रामस्य व्यसन्म् दृष्ट्वा तेन एतानि प्रभाषसे ॥३-४५-२२॥
न एव चित्रम् सपत्नेषु पापम् लक्ष्मण यत् भवेत् ।त्वत् विधेषु नृशंसेषु नित्यम् प्रच्छन्न चारिषु ॥३-४५-२३॥
सुदुष्टः त्वम् वने रामम् एकम् एको अनुगच्छसि ।मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा ॥३-४५-२४॥
तत् न सिद्ध्यति सौमित्रे तव अपि भरतस्य वा ।कथम् इंदीवर श्यामम् रामम् पद्म निभेक्षणम् ॥३-४५-२५॥
उपसंश्रित्य भर्तारम् कामयेयम् पृथक् जनम् ।समक्षम् तव सौमित्रे प्राणान् त्यक्ष्यामि असंशयम् ॥३-४५-२६॥
रामम् विना क्षणम् अपि न एव जीवामि भू तले ।इति उक्तः परुषम् वाक्यम् सीतया रोमहर्षणम् ॥३-४५-२७॥
अब्रवीत् लक्ष्मणः सीताम् प्रांजलिः विजितेन्द्रियः ।उत्तरम् न उत्सहे वक्तुम् दैवतम् भवती मम ॥३-४५-२८॥
वाक्यम् अप्रतिरूपम् तु न चित्रम् स्त्रीषु मैथिलि ।स्वभावः तु एष नारीणाम् एषु लोकेषु दृश्यते ॥३-४५-२९॥
विमुक्त धर्माः चपलाः तीक्ष्णा भेदकराः स्त्रियः ।न सहे हि ईदृशम् वाक्यम् वैदेही जनक आत्मजे ॥३-४५-३०॥
श्रोत्रयोः उभयोः मध्ये तप्त नाराच सन्निभम् ।उपशृण्वंतु मे सर्वे साक्षिनो हि वनेचराः ॥३-४५-३१॥
न्याय वादी यथा वाक्यम् उक्तो अहम् परुषम् त्वया ।धिक् त्वाम् अद्य प्रणश्यन्तीम् यन् माम् एवम् विशंकसे ॥३-४५-३२॥
स्त्रीत्वात् दुष्ट स्वभावेन गुरु वाक्ये व्यवस्थितम् ।गमिष्ये यत्र काकुत्स्थः स्वस्ति ते अस्तु वरानने ॥३-४५-३३॥
रक्षन्तु त्वाम् विशालाक्षि समग्रा वन देवताः ।निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे ।अपि त्वाम् सह रामेण पश्येयम् पुनरागतः ॥३-४५-३४॥
लक्ष्मणेन एवम् उक्ता तु रुदती जनकाअत्मजा ।प्रत्युवाच ततो वाक्यम् तीव्रम् बाष्प परिप्लुता ॥३-४५-३५॥
गोदावरीम् प्रवेक्ष्यामि हीना रामेण लक्ष्मण ।आबन्धिष्ये अथवा त्यक्ष्ये विषमे देहम् आत्मनः ॥३-४५-३६॥
पिबामि वा विषम् तीक्ष्णम् प्रवेक्ष्यामि हुताशनम् ।न तु अहम् राघवात् अन्यम् कदाअपि पुरुषम् स्पृशे ॥३-४५-३७॥
इति लक्ष्मणम् आश्रुत्य सीता दुह्ख समन्विता ।पाणिभ्याम् रुदती दुह्खाद् उदरम् प्रजघान ह ॥३-४५-३८॥
ताम् आर्त रूपाम् विमना रुदन्तीम्सौमित्रिः आलोक्य विशाल नेत्राम् ।आश्वासयामास न चैव भर्तुःतम् भ्रातरम् किंचित् उवाच सीता ॥३-४५-३९॥
ततः तु सीताम् अभिवाद्य लक्ष्मणःकृत अन्जलिः किम्चिद् अभिप्रणम्य ।अवेक्षमाणो बहुशः स मैथिलीम्जगाम रामस्य समीपम् आत्मवान् ॥३-४५-४०॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 44
- Next: Araṇya-Kāṇḍa Sarga 46 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷