🪷 अरण्यकाण्ड · Sarga 46

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 46 · 37 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 3.46local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 3.46.1
तया परुषम् उक्तः तु कुपितो राघव अनुजः ।स विकांक्षन् भृशम् रामम् प्रतस्थे न चिरात् इव ॥३-४६-१॥
Vālmīki 3.46.2
तदा आसाद्य दशग्रीवः क्षिप्रम् अंतरम् आस्थितः ।अभिचक्राम वैदेहीम् परिव्राजक रूप धृक् ॥३-४६-२॥
Vālmīki 3.46.3
श्लक्ष्ण काषाय संवीतः शिखी चत्री उपानही ।वामे च अंसे अवसज्य अथ शुभे यष्टि कमण्डलू ॥३-४६-३॥
Vālmīki 3.46.4
परिव्राजक रूपेण वैदेहीम् अन्ववर्तत ।ताम् आससाद अतिबलो भ्रातृभ्याम् रहिताम् वने ॥३-४६-४॥
Vālmīki 3.46.5
रहिताम् सूर्य चन्द्राभ्याम् संध्याम् इव महत् तमः ।ताम् अपश्यत् ततो बालाम् राज पुत्रीम् यशस्विनीम् ॥३-४६-५॥
Vālmīki 3.46.6
रोहिणीम् शशिना हीनाम् ग्रहवत् भृश दारुणः ।तम् उग्रम् पाप कर्माणम् जनस्थान गता द्रुमाः ॥३-४६-६॥
Vālmīki 3.46.7
संदृश्य न प्रकंपन्ते न प्रवाति च मारुतः ।शीघ्र स्रोताः च तम् दृष्ट्वा वीक्षंतम् रक्त लोचनम् ॥३-४६-७॥
Vālmīki 3.46.8
स्तिमितम् गंतुम् आरेभे भयात् गोदावरी नदी ।रामस्य तु अंतरम् प्रेप्सुः दशग्रीवः तत् अंतरे ॥३-४६-८॥
Vālmīki 3.46.9
उपतस्थे च वैदेहीम् भिक्षु रूपेण रावणः ।अभव्यो भव्य रूपेण भर्तारम् अनुशोचतीम् ॥३-४६-९॥
Vālmīki 3.46.10
अभ्यवर्तत वैदेहीम् चित्राम् इव शनैश्चरः ।सहसा भव्य रूपेण तृणैः कूप इव आवृतः ॥३-४६-१०॥
Vālmīki 3.46.11
अतिष्ठत् प्रेक्ष्य वैदेहीम् राम पत्नीम् यशस्विनीम् ।तिष्टन् संप्रेक्ष्य च तदा पत्नीम् रामस्य रावण ॥३-४६-११॥
Vālmīki 3.46.12
शुभाम् रुचिर दन्त ओष्ठीम् पूर्ण चन्द्र निभ आननाम् ।आसीनाम् पर्णशालायाम् बाष्प शोक अभिपीडिताम् ॥३-४६-१२॥
Vālmīki 3.46.13
स ताम् पद्म पलाश अक्षीम् पीत कौशेय वासिनीम् ।अभ्यगच्छत वैदेहीम् हृष्ट चेता निशा चरः ॥३-४६-१३॥
Vālmīki 3.46.14
दृष्ट्वा काम शर आविद्धो ब्रह्म घोषम् उदीरयन् ।अब्रवीत् प्रश्रितम् वाक्यम् रहिते राक्षस अधिपः ॥३-४६-१४॥
Vālmīki 3.46.15
ताम् उत्तमाम् त्रिलोकानाम् पद्म हीनाम् इव श्रियम् ।विभ्राजमानाम् वपुषा रावणः प्रशशम्स ह ॥३-४६-१५॥
Vālmīki 3.46.16
का त्वम् कांचन वर्ण आभे पीत कौशेय वासिनि ।कमलानाम् शुभाम् मालाम् पद्मिनी इव च बिभ्रती ॥३-४६-१६॥
Vālmīki 3.46.17
ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीः अप्सरा वा शुभ आनने ।भूतिर् वा त्वम् वराअरोहे रतिर् वा स्वैर चारिणी ॥३-४६-१७॥
Vālmīki 3.46.18
समाः शिखरिणः स्निग्धाः पाण्डुरा दशनाः तव ।विशाले विमले नेत्रे रक्तान्ते कृष्ण तारके ॥३-४६-१८॥
Vālmīki 3.46.19
विशालम् जघनम् पीनम् ऊरू करि कर उपमौ ।एतौ उपचितौ वृत्तौ संहतौ संप्रगल्भितौ ॥३-४६-१९॥
Vālmīki 3.46.20
पीन उन्नत मुखौ कान्तौ स्निग्ध ताल फल उपमौ ।मणि प्रवेक आभरणौ रुचिरौ ते पयो धरौ ॥३-४६-२०॥
Vālmīki 3.46.21
चारु स्मिते चारु दति चारु नेत्रे विलासिनि ।मनो हरसि मे रामे नदी कूलम् इव अंभसा ॥३-४६-२१॥
Vālmīki 3.46.22
करान्तमित मध्या असि सुकेशी संहत स्तनी ।न एव देवी न गन्धर्वी न यक्षी न च किंनरी ॥३-४६-२२॥
Vālmīki 3.46.23
न एवम् रूपा मया नारी दृष्ट पूर्वा मही तले ।रूपम् अग्र्यम् च लोकेषु सौकुमार्यम् वयः च ते ॥३-४६-२३॥
Vālmīki 3.46.24
इह वासः च कांतारे चित्तम् उन्मथयन्ति मे ।सा प्रतिक्राम भद्रम् ते न त्वम् वस्तुम् इह अर्हसि ॥३-४६-२४॥
Vālmīki 3.46.25
राक्षसानाम् अयम् वासो घोराणाम् काम रूपिणाम् ।प्रासाद अग्राणि रम्याणि नगर उपवनानि च ॥३-४६-२५॥
Vālmīki 3.46.26
संपन्नानि सुगन्धीनि युक्तानि आचरितुम् त्वया ।वरम् माल्यम् वरम् गंधम् वरम् वस्त्रम् च शोभने ॥३-४६-२६॥
Vālmīki 3.46.27
भर्तारम् च वरम् मन्ये त्वत् युक्तम् असितेक्षणे ।का त्वम् भवसि रुद्राणाम् मरुताम् वा शुचिस्मिते ॥३-४६-२७॥
Vālmīki 3.46.28
वसूनाम् वा वराअरोहे देवता प्रतिभासि मे ।न इह गच्छंति गंधर्वा न देवा न च किन्नराः ॥३-४६-२८॥
Vālmīki 3.46.29
राक्षसानाम् अयम् वासः कथम् तु त्वम् इह आगता ।इह शाखामृगाः सिंहा द्वीपि व्याघ्र मृगाः तथा ॥३-४६-२९॥
Vālmīki 3.46.30
ऋक्षाः तरक्षवः कंकाः कथम् तेभ्यो न बिभ्यसे ।मद अन्वितानाम् घोराणाम् कुंजराणाम् तरस्विनाम् ॥३-४६-३०॥
Vālmīki 3.46.31
कथम् एका महारण्ये न बिभेषि वराअनने ।का असि कस्य कुतः च त्वम् किम् निमित्तम् च दण्डकान् ॥३-४६-३१॥
Vālmīki 3.46.32
एका चरसि कल्याणि घोरान् राक्षस सेवितान् ।इति प्रशस्ता वैदेही रावणेन दुरात्मना - महात्मना- ॥३-४६-३२॥
Vālmīki 3.46.33
द्विजाति वेषेण हि तम् दृष्ट्वा रावणम् आगतम् ।सर्वैः अतिथि सत्कारैः पूजयामास मैथिली ॥३-४६-३३॥
Vālmīki 3.46.34
उपानीय आसनम् पूर्वम् पाद्येन अभिनिमंत्र्य च ।अब्रवीत् सिद्धम् इति एव तदा तम् सौम्य दर्शनम् ॥३-४६-३४॥
Vālmīki 3.46.35
द्विजाति वेषेण समीक्ष्य मैथिलीतम् आगतम् पात्र कुसुंभ धारिणम् ।अशक्यम् उद्द्वेष्टुम् उपाय दर्शनान्न्यमंत्रयत् ब्राह्मणवत् यथा आगतम् ॥३-४६-३५॥
Vālmīki 3.46.36
इयम् बृसी ब्राह्मण कामम् आस्यताम्इदम् च पाद्यम् प्रतिगृह्यताम् इति ।निमंत्र्यमाणः प्रतिपूर्ण भाषिणीम्नरेन्द्र पत्नीम् प्रसमीक्ष्य मैथिलीम् ।प्रसह्य तस्या हरणे धृढम् मनःसमर्पयामास आत्म वधाय रावणः ॥३-४६-३६॥
Vālmīki 3.46.37
ततः सुवेषम् मृगया गतम् पतिम्प्रतीक्षमाणा सह लक्ष्मणम् तदा ।निरीक्षमाणा हरितम् ददर्श तत्महद् वनम् न एव तु राम लक्ष्मणौ ॥३-४६-३७॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷