🪷 अरण्यकाण्ड · Sarga 47

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 47 · 50 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 3.47local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 3.47.1
रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा ।परिव्राजक रूपेण शशंस आत्मानम् आत्मना ॥३-४७-१॥
Vālmīki 3.47.2
ब्राह्मणः च अतिथिः च एष अनुक्तो हि शपेत माम् ।इति ध्यात्वा मुहूर्तम् तु सीता वचनम् अब्रवीत् ॥३-४७-२॥
Vālmīki 3.47.3
दुहिता जनकस्य अहम् मैथिलस्य महात्मनः ।सीता नाम्ना अस्मि भद्रम् ते रामस्य महिषी प्रिया ॥३-४७-३॥
Vālmīki 3.47.4
उषित्वा द्वा दश समाः इक्ष्वाकूणाम् निवेशने ।भुंजाना मानुषान् भोगान् सर्व काम समृद्धिनी ॥३-४७-४॥
Vālmīki 3.47.5
तत्र त्रयो दशे वर्षे राज अमंत्र्यत प्रभुः ।अभिषेचयितुम् रामम् समेतो राज मन्त्रिभिः ॥३-४७-५॥
Vālmīki 3.47.6
तस्मिन् संभ्रियमाणे तु राघवस्य अभिषेचने ।कैकेयी नाम भर्तारम् मम आर्या याचते वरम् ॥३-४७-६॥
Vālmīki 3.47.7
प्रतिगृह्य तु कैकेयी श्वशुरम् सुकृतेन मे ।मम प्रव्राजनम् भर्तुर् भरतस्य अभिषेचनम् ॥३-४७-७॥
Vālmīki 3.47.8
द्वौ अयाचत भर्तारम् सत्यसंधम् नृपोत्तमम् ।न अद्य भोक्ष्ये न च स्वप्स्ये न पास्ये कदाचन ॥३-४७-८॥
Vālmīki 3.47.9
एष मे जीवितस्य अन्तो रामो यदि अभिषिच्यते ।इति ब्रुवाणाम् कैकेयीम् श्वशुरो मे स पार्थिवः ॥३-४७-९॥
Vālmīki 3.47.10
अयाचत अर्थैः अन्वर्थैः न च यांचाम् चकार सा ।मम भर्ता महातेजा वयसा पंच विंशकः ॥३-४७-१०॥
Vālmīki 3.47.11
अष्टा दश हि वर्षाणि मम जन्मनि गण्यते ।राम इति प्रथितो लोके सत्यवान् शीलवान् शुचिः ॥३-४७-११॥
Vālmīki 3.47.12
विशालाक्षो महाबाहुः सर्व भूत हिते रतः ।कामार्तः च महाराजः पिता दशरथः स्वयम् ॥३-४७-१२॥
Vālmīki 3.47.13
कैकेय्याः प्रिय कामार्थम् तम् रामम् न अभिषेचयत् ।अभिषेकाय तु पितुः समीपम् रामम् आगतम् ॥३-४७-१३॥
Vālmīki 3.47.14
कैकेयी मम भर्तारम् इति उवाच द्रुतम् वचः ।तव पित्रा समाज्ञप्तम् मम इदम् शृणु राघव ॥३-४७-१४॥
Vālmīki 3.47.15
भरताय प्रदातव्यम् इदम् राज्यम् अकण्टकम् ।त्वया तु खलु वस्तव्यम् नव वर्षाणि पंच च ॥३-४७-१५॥
Vālmīki 3.47.16
वने प्रव्रज काकुत्स्थ पितरम् मोचय अनृतात् ।तथा इति उवाच ताम् रामः कैकेयीम् अकुतो भयः ॥३-४७-१६॥
Vālmīki 3.47.17
चकार तत् वचः तस्या मम भर्ता दृढ व्रतः ।दद्यात् न प्रतिगृह्णीयात् सत्यम् ब्रूयात् न च अनृतम् ॥३-४७-१७॥
Vālmīki 3.47.18
एतत् ब्राह्मण रामस्य व्रतम् ध्रुवम् अनुत्तमम् ।तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान् ॥३-४७-१८॥
Vālmīki 3.47.19
रामस्य पुरुषव्याघ्रः सहायः समरे अरिहा ।स भ्राता लक्ष्मणो नाम धर्म चारी दृढ व्रतः ॥३-४७-१९॥
Vālmīki 3.47.20
अन्वगच्छत् धनुष् पाणिः प्रव्रजंतम् मया सह ।जटी तापस रूपेण मया सह सह अनुजः ॥३-४७-२०॥
Vālmīki 3.47.21
प्रविष्टो दंडकारण्यम् धर्म नित्यो धृढ व्रतः ।ते वयम् प्रच्युता राज्यात् कैकेय्याः तु कृते त्रयः ॥३-४७-२१॥
Vālmīki 3.47.22
विचराम द्विज श्रेष्ठ वनम् गंभीरम् ओजसा ।समाश्वस मुहूर्तम् तु शक्यम् वस्तुम् इह त्वया ॥३-४७-२२॥
Vālmīki 3.47.23
आगमिष्यति मे भर्ता वन्यम् आदाय पुष्कलम् ।रुरून् गोधान् वराहान् च हत्वा आदाय अमिषान् बहु ॥३-४७-२३॥
Vālmīki 3.47.24
सः त्वम् नाम च गोत्रम् च कुलम् आचक्ष्व तत्त्वतः ।एकः च दण्डकारण्ये किम् अर्थम् चरसि द्विज ॥३-४७-२४॥
Vālmīki 3.47.25
एवम् ब्रुवत्याम् सीतायाम् राम पत्नीआम् महाबलः ।प्रत्युवाच उत्तरम् तीव्रम् रावणो राक्षसाधिपः ॥३-४७-२५॥
Vālmīki 3.47.26
येन वित्रासिता लोकाः स देव असुर मानुषा ।अहम् सः रावणो नाम सीते रक्षो गण ईश्वरः ॥३-४७-२६॥
Vālmīki 3.47.27
त्वाम् तु कांचन वर्ण आभाम् दृष्ट्वा कौशेय वासिनीम् ।रतिम् स्वकेषु दारेषु न अधिगच्छामि अनिन्दिते ॥३-४७-२७॥
Vālmīki 3.47.28
बह्वीनाम् उत्तम स्त्रीणाम् आहृतानाम् इतः ततः ।सर्वासाम् एव भद्रम् ते मम अग्र महिषी भव ॥३-४७-२८॥
Vālmīki 3.47.29
लंका नाम समुद्रस्य मध्ये मम महापुरी ।सागरेण परिक्षिप्ता निविष्टा गिरि मूर्धनि ॥३-४७-२९॥
Vālmīki 3.47.30
तत्र सीते मया सार्धम् वनेषु विचरिष्यसि ।न च अस्य वन वासस्य स्पृहयिष्यसि भामिनि ॥३-४७-३०॥
Vālmīki 3.47.31
पंच दास्यः सहस्राणि सर्व आभरण भूषिताः ।सीते परिचरिष्यन्ति भार्या भवसि मे यदि ॥३-४७-३१॥
Vālmīki 3.47.32
रावणेन एवम् उक्ता तु कुपिता जनक आत्मजा ।प्रत्युवाच अनवद्यांगी तम् अनादृत्य राक्षसम् ॥३-४७-३२॥
Vālmīki 3.47.33
महा गिरिम् इव अकंप्यम् महेन्द्र सदृशम् पतिम् ।महा उदधिम् इव अक्षोभ्यम् अहम् रामम् अनुव्रता ॥३-४७-३३॥
Vālmīki 3.47.34
सर्व लक्षण संपन्नम् न्यग्रोध परि मण्डलम् ।सत्य संधम् महाभागम् रामम् अनुव्रता ॥३-४७-३४॥
Vālmīki 3.47.35
महाबाहुम् महोरस्कम् सिंह विक्रांत गामिनम् ।नृसिंहम् सिंह संकाशम् अहम् रामम् अनुव्रता ॥३-४७-३५॥
Vālmīki 3.47.36
पूर्ण चन्द्र आननम् वीरम् राज वत्सम् जितेन्द्रियम् ।पृथु कीर्तिम् महाबाहुम् अहम् रामम् अनुव्रता ॥३-४७-३६॥
Vālmīki 3.47.37
त्वम् पुनः जंबुकः सिंहीम् माम् इह इच्छसि दुर्लभाम् ।न अहम् शक्या त्वया स्प्रष्टुम् आदित्यस्य प्रभा यथा ॥३-४७-३७॥
Vālmīki 3.47.38
पादपान् कांचनान् नूनम् बहून् पश्यसि मंदभाक् ।राघवस्य प्रियाम् भार्याम् यः त्वम् इच्छसि राक्षस ॥३-४७-३८॥
Vālmīki 3.47.39
क्षुधितस्य च सिंहस्य मृग शत्रोः तरस्विनः ।आशी विषस्य वदनात् दम्ष्ट्राम् आदातुम् इच्छसि ॥३-४७-३९॥
Vālmīki 3.47.40
मंदरम् पर्वत श्रेष्ठम् पाणिना हर्तुम् इच्छसि ।काल कूटम् विषम् पीत्वा स्वस्तिमान् गंतुम् इच्छसि ॥३-४७-४०॥
Vālmīki 3.47.41
अक्षि सूच्या प्रमृजसि जिह्वया लेढि च क्षुरम् ।राघवस्य प्रियाम् भार्याम् अधिगंतुम् त्वम् इच्छसि ॥३-४७-४१॥
Vālmīki 3.47.42
अवसज्य शिलाम् कण्ठे समुद्रम् तर्तुम् इच्छसि ।सूर्या चन्द्रमसौ च उभौ प्राणिभ्याम् हर्तुम् इच्छसि ॥३-४७-४२॥
Vālmīki 3.47.43
यो रामस्य प्रियाम् भार्याम् प्रधर्षयितुम् इच्छसि ।अग्निम् प्रज्वलितम् दृष्ट्वा वस्त्रेण आहर्तुम् इच्छसि ॥३-४७-४३॥
Vālmīki 3.47.44
कल्याण वृत्ताम् यो भार्याम् रामस्य हर्तुम् इच्छसि ।अयो मुखानाम् शूलानाम् अग्रे चरितुम् इच्छसि ।रामस्य सदृशीम् भार्याम् यो अधिगंतुम् त्वम् इच्छसि ॥३-४७-४४॥
Vālmīki 3.47.45
यद् अंतरम् सिंह शृगालयोः वनेयद् अंतरम् स्यन्दनिका समुद्रयोः ।सुर अग्र्य सौवीरकयोः यद् अंतरम्तद् अंतरम् दाशरथेः तव एव च ॥३-४७-४५॥
Vālmīki 3.47.46
यद् अंतरम् कांचन सीस लोहयोःयद् अंतरम् चन्दन वारि पंकयोः ।यद् अंतरम् हस्ति बिडालयोः वनेतद् अंतरम् दशरथेः तव एव च ॥३-४७-४६॥
Vālmīki 3.47.47
यद् अंतरम् वायस वैनतेययोःयद् अंतरम् मद्गु मयूरयोः अपि ।यद् अंतरम् हंस गृध्रयोः वनेतद् अंतरम् दाशरथेः तव एव च ॥३-४७-४७॥
Vālmīki 3.47.48
तस्मिन् सहस्राक्ष सम प्रभावेरामे स्थिते कार्मुक बाण पाणौ ।हृता अपि ते अहम् न जराम् गमिष्येवज्रम् यथा मक्षिकया अवगीर्णम् ॥३-४७-४८॥
Vālmīki 3.47.49
इति इव तत् वाक्यम् अदुष्ट भावासुदुष्टम् उक्त्वा रजनी चरम् तम् ।गात्र प्रकंपात् व्यथिता बभूववात उद्धता सा कदली इव तन्वी ॥३-४७-४९॥
Vālmīki 3.47.50
ताम् वेपमानाम् उपलक्ष्य सीताम्स रावणो मृत्यु सम प्रभावः ।कुलम् बलम् नाम च कर्म च आत्मनःसमाचचक्षे भय कारण अर्थम् ॥३-४७-५०॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷