🪷 अरण्यकाण्ड · Sarga 48

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 48 · 24 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 3.48local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 3.48.1
एवम् ब्रुवत्याम् सीतायाम् संरब्धः परुष अक्षरम् ।ललाटे भ्रुकुटीम् कृत्वा रावणः प्रति उवाच ह ॥३-४८-१॥
Vālmīki 3.48.2
भ्राता वैश्रवणस्य अहम् सापत्नो वरवर्णिनि ।रावणो नाम भद्रम् ते दशग्रीवः प्रतापवान् ॥३-४८-२॥
Vālmīki 3.48.3
यस्य देवाः स गंधर्वाः पिशाच पतग उरगाः ।विद्रवन्ति भयात् भीता मृत्योः इव सदा प्रजाः ॥३-४८-३॥
Vālmīki 3.48.4
येन वैश्रवणो भ्राता वैमात्रः कारणांतरे ।द्वन्द्वम् आसादितः क्रोधात् रणे विक्रम्य निर्जितः ॥३-४८-४॥
Vālmīki 3.48.5
मत् भय आर्तः परित्यज्य स्वम् अधिष्ठानम् ऋद्धिमत् ।कैलासम् पर्वत श्रेष्ठम् अध्यास्ते नर वाहनः ॥३-४८-५॥
Vālmīki 3.48.6
यस्य तत् पुष्पकम् नाम विमानम् कामगम् शुभम् ।वीर्याद् आवर्जितम् भद्रे येन यामि विहायसम् ॥३-४८-६॥
Vālmīki 3.48.7
मम संजात रोषस्य मुखम् दृष्ट्वा एव मैथिलि ।विद्रवन्ति परित्रस्ताः सुराः शक्र पुरोगमाः ॥३-४८-७॥
Vālmīki 3.48.8
यत्र तिष्ठामि अहम् तत्र मारुतो वाति शन्कितः ।तीव्र अंशुः शिशिर अंशुः च भयात् संपद्यते रविः ॥३-४८-८॥
Vālmīki 3.48.9
निष्कंप पत्राः तरवो नद्यः च स्तिमित उदकाः ।भवन्ति यत्र तत्र अहम् तिष्ठामि च चरामि च ॥३-४८-९॥
Vālmīki 3.48.10
मम पारे समुद्रस्य लंका नाम पुरी शुभा ।संपूर्णा राक्षसैः घोरैः यथा इन्द्रस्य अमरावती ॥३-४८-१०॥
Vālmīki 3.48.11
प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता ।हेम कक्ष्या पुरी रम्या वैदूर्यमय तोरणा ॥३-४८-११॥
Vālmīki 3.48.12
हस्ति अश्व रथ संभाधा तूर्य नाद विनादिता ।सर्व काम फलैः वृक्षैः संकुल उद्यान भूषिता ॥३-४८-१२॥
Vālmīki 3.48.13
तत्र त्वम् वस हे सीते राजपुत्रि मया सह ।न स्मरिष्यसि नारीणाम् मानुषीणाम् मनस्विनि ॥३-४८-१३॥
Vālmīki 3.48.14
भुंजाना मानुषान् भोगान् दिव्यान् च वरवर्णिनि ।न स्मरिष्यसि रामस्य मानुषस्य गत आयुषः ॥३-४८-१४॥
Vālmīki 3.48.15
स्थापयित्वा प्रियम् पुत्रम् राज्ञा दशरथेन यः ।मन्द वीर्यः सुतो ज्येष्ठः ततः प्रस्थापितो वनम् ॥३-४८-१५॥
Vālmīki 3.48.16
तेन किम् भ्रष्ट राज्येन रामेण गत चेतसा ।करिष्यसि विशालाक्षि तापसेन तपस्विना ॥३-४८-१६॥
Vālmīki 3.48.17
सर्व राक्षस भर्तारम् कामय - कामात् - स्वयम् आगतम् ।न मन्मथ शर आविष्टम् प्रति आख्यातुम् त्वम् अर्हसि ॥३-४८-१७॥
Vālmīki 3.48.18
प्रति आख्याय हि माम् भीरु परितापम् गमिष्यसि ।चरणेन अभिहत्य इव पुरूरवसम् ऊर्वशी ॥३-४८-१८॥
Vālmīki 3.48.19
अंगुल्या न समो रामो मम युद्धे स मानुषः ।तव भाग्येन् संप्राप्तम् भजस्व वरवर्णिनि ॥३-४८-१९॥
Vālmīki 3.48.20
एवम् उक्ता तु वैदेही क्रुद्धा संरक्त लोचना ।अब्रवीत् परुषम् वाक्यम् रहिते राक्षस अधिपम् ॥३-४८-२०॥
Vālmīki 3.48.21
कथम् वैश्रवणम् देवम् सर्व देव नमस्कृतम् ।भ्रातरम् व्यपदिश्य त्वम् अशुभम् कर्तुम् इच्छसि ॥३-४८-२१॥
Vālmīki 3.48.22
अवश्यम् विनशिष्यन्ति सर्वे रावण राक्षसाः ।येषाम् त्वम् कर्कशो राजा दुर्बुद्धिः अजित इन्द्रियः ॥३-४८-२२॥
Vālmīki 3.48.23
अपहृत्य शचीम् भार्याम् शक्यम् इन्द्रस्य जीवितुम् ।न हि रामस्य भार्याम् माम् अपनीय अस्ति जीवितम् ॥३-४८-२३॥
Vālmīki 3.48.24
जीवेत् चिरम् वज्र धरस्य हस्तात्शचीम् प्रधृष्य अप्रतिरूप रूपाम् ।न मा दृशीम् राक्षस धर्षयित्वापीत अमृतस्य अपि तव अस्ति मोक्षः ॥३-४८-२४॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷