🪷 अरण्यकाण्ड · Sarga 49
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 49 · 40 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 3.49local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
सीताया वचनम् श्रुत्वा दशग्रीवः प्रतापवान् ।हस्ते हस्तम् समाहत्य चकार सुमहत् वपुः ॥३-४९-१॥
स मैथिलीम् पुनः वाक्यम् बभाषे वाक्य कोविदः ।न उन्मत्तया श्रुतौ मन्ये मम वीर्य पराक्रमौ ॥३-४९-२॥
उद् वहेयम् भुजाभ्याम् तु मेदिनीम् अंबरे स्थितः ।आपिबेयम् समुद्रम् च मृत्युम् हन्याम् रणे स्थितः ॥३-४९-३॥
अर्कम् तुंद्याम् शरैः तीक्ष्णैर् विभिंद्याम् हि महीतलम् ।काम रूपिणम् उन्मत्ते पश्य माम् कामदम् पतिम् ॥३-४९-४॥
एवम् उक्तवतः तस्य रावणस्य शिखि प्रभे ।क्रुद्धस्य हरि पर्यन्ते रक्ते नेत्रे बभूवतुः ॥३-४९-५॥
सद्यः सौम्यम् परित्यज्य तीक्ष्ण रूपम् स रावणः ।स्वम् रूपम् काल रूप आभम् भेजे वैश्रवण अनुजः ॥३-४९-६॥
संरक्त नयनः श्रीमान् तप्त कांचन भूषणः ।क्रोधेन महता आविष्टो नील जीमूत सन्निभः ॥३-४९-७॥
दश आस्यो विंशति भुजो बभूव क्षणदा चरः ।स परिव्राजक च्छद्म महाकायो विहाय तत् ॥३-४९-८॥
प्रतिपेदे स्वकम् रूपम् रावणो राक्षस अधिपः ।रक्त अंबर धरः तस्थौ स्त्री रत्नम् प्रेक्ष्य मैथिलीम् ॥३-४९-९॥
स ताम् असित केश अन्ताम् भास्करस्य प्रभाम् इव ।वसन आभरण उपेताम् मैथिलीम् रावणो अब्रवीत् ॥३-४९-१०॥
त्रिषु लोकेषु विख्यातम् यदि भर्तारम् इच्छसि ।माम् आश्रय वरारोहे तव अहम् सदृशः पतिः ॥३-४९-११॥
माम् भजस्व चिराय त्वम् अहम् श्लाघ्यः पतिः तव ।न एव च अहम् क्वचित् भद्रे करिष्ये तव विप्रियम् ॥३-४९-१२॥
त्यज्यताम् मानुषो भावो मयि भावः प्रणीयताम् ।राज्यात् च्युतम् असिद्ध अर्थम् रामम् परिमित आयुषम् ॥३-४९-१३॥
कैः गुणैः अनुरक्ता असि मूढे पण्डित मानिनि ।यः स्त्रिया वचनात् राज्यम् विहाय ससुहृत् जनम् ॥३-४९-१४॥
अस्मिन् व्याल अनुचरिते वने वसति दुर्मतिः ।इति उक्त्वा मैथिलीम् वाक्यम् प्रिय अर्हाम् प्रिय वादिनीम् ॥३-४९-१५॥
अभिगम्य सुदुष्ट आत्मा राक्षसः काम मोहितः ।जग्राह रावणः सीताम् बुधः खे रोहिणीम् इव ॥३-४९-१६॥
वामेन सीताम् पद्माक्षीम् मूर्धजेषु करेण सः ।ऊर्वोः तु दक्षिणेन एव परिजग्राह पाणिना ॥३-४९-१७॥
तम् दृष्ट्वा गिरि शृंग आभम् तीक्ष्ण दंष्ट्रम् महा भुजम् ।प्राद्रवन् मृत्यु संकाशम् भय आर्ता वन देवताः ॥३-४९-१८॥
स च मायामयो दिव्यः खर युक्तः खर स्वनः ।प्रत्यदृश्यत हेमांगो रावणस्य महारथः ॥३-४९-१९॥
ततः ताम् परुषैः वाक्यैः अभितर्ज्य महास्वनः ।अंकेन आदाय वैदेहीम् रथम् आरोपयत् तदा ॥३-४९-२०॥
सा गृहीता अतिचुक्रोश रावणेन यशस्विनी ।रामा इति सीता दुःख आर्ता रामम् दूरम् गतम् वने ॥३-४९-२१॥
ताम् अकामाम् स काम आर्तः पन्नग इन्द्र वधूम् इव ।विवेष्टमानाम् आदाय उत्पपात अथ रावणः ॥३-४९-२२॥
ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा ।भृशम् चुक्रोश मत्ता इव भ्रांत चित्ता यथा आतुरा ॥३-४९-२३॥
हा लक्ष्मण महाबाहो गुरु चित्त प्रसादक ।ह्रियमाणाम् न जानीषे रक्षसा काम रूपिणा ॥३-४९-२४॥
जीवितम् सुखम् अर्थाम् च धर्म हेतोः परित्यजन् ।ह्रियमाणाम् अधर्मेण माम् राघव न पश्यसि ॥३-४९-२५॥
ननु नाम अविनीतानाम् विनेता असि परंतप ।कथम् एवम् विधम् पापम् न त्वम् शास्सि हि रावणम् ॥३-४९-२६॥
ननु सद्यो अविनीतस्य दृश्यते कर्मणः फलम् ।कालो अपि अंगी भवति अत्र सस्यानाम् इव पक्तये ॥३-४९-२७॥
त्वम् कर्म कृतवान् एतत् काल उपहत चेतनः ।जीवित अंतकरम् घोरम् रामात् व्यसनम् आप्नुहि ॥३-४९-२८॥
हन्त इदानीम् सकामा तु कैकेयी बान्धवैः सह ।ह्रियेयम् धर्म कामस्य धर्म पत्नी यशस्विनः ॥३-४९-२९॥
आमंत्रये जनस्थानम् कर्णिकारान् च पुष्पितान् ।क्षिप्रम् रामाय शंसध्वम् सीताम् हरति रावणः ॥३-४९-३०॥
हंस सारस संघुष्टाम् वन्दे गोदावरीम् नदीम् ।क्षिप्रम् रामाय शंस त्वम् सीताम् हरति रावणः ॥३-४९-३१॥
दैवतानि च यान्ति अस्मिन् वने विविध पादपे ।नमस्करोमि अहम् तेभ्यो भर्तुः शंसत माम् हृताम् ॥३-४९-३२॥
यानि कानिचित् अपि अत्र सत्त्वानि निवसन्ति उत ।सर्वाणि शरणम् यामि मृग पक्षि गणान् अपि ॥३-४९-३३॥
ह्रियमाणाम् प्रियाम् भर्तुः प्राणेभ्यो अपि गरीयसीम् ।विवश अपहृता सीता रावणेन इति शंसत ॥३-४९-३४॥
विदित्वा माम् महाबाहुः अमुत्र अपि महाबलः ।आनेष्यति पराक्रम्य वैवस्वत हृताम् अपि ॥३-४९-३५॥
सा तदा करुणा वाचो विलपंती सुदुःखिता ।वनस्पति गतम् ग्रिध्रम् ददर्श आयत लोचना ॥३-४९-३६॥
सा तम् उद् वीक्ष्य सुश्रोणी रावणस्य वशम् गता ।समाक्रंदत् भयपरा दुःख उपहतया गिरा ॥३-४९-३७॥
जटायो पश्य मम आर्य ह्रियमाणम् अनाथ वत् ।अनेन राक्षसेद्रेण करुणम् पाप कर्मणा ॥३-४९-३८॥
न एष वारयितुम् शक्यः त्वया क्रूरो निशाचर ।सत्त्ववान् जितकाशी च स आयुधः चैव दुर्मतिः ॥३-४९-३९॥
रामाय तु यथा तत्त्वम् जटायो हरणम् मम ।लक्ष्मणाय च तत् सर्वम् आख्यातव्यम् अशेषतः ॥३-४९-४०॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 48
- Next: Araṇya-Kāṇḍa Sarga 50 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷