🪷 अरण्यकाण्ड · Sarga 50
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 50 · 28 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 3.50local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
तम् शब्दम् अवसुप्तस्य जटायुः अथ शुश्रुवे ।निरैक्षत् रावणम् क्षिप्रम् वैदेहीम् च ददर्श सः ॥३-५०-१॥
ततः पर्वत शृंग आभः तीक्ष्ण तुण्डः खग उत्तमः ।वनस्पति गतः श्रीमान् व्याजहार शुभाम् गिरम् ॥३-५०-२॥
दशग्रीव स्थितो धर्मे पुराणे सत्य संश्रयः ।भ्रातः सः त्वम् निन्दितम् कर्म कर्तुम् न अर्हसि संप्रताम् ॥३-५०-३॥
जटायुः नाम नाम्ना अहम् गृध्र राजो महाबलः ।राजा सर्वस्य लोकस्य महेन्द्र वरुण उपमः ॥३-५०-४॥
लोकानाम् च हिते युक्तो रामो दशरथ आत्मजः ।तस्य एषा लोक नाथस्य धर्म पत्नी यशस्विनी ॥३-५०-५॥
सीता नाम वरारोहा याम् त्वम् हर्तुम् इह इच्छसि ।कथम् राजा स्थितो धर्मे पर दारान् परामृशेत् ॥३-५०-६॥
रक्षणीया विशेषेण राज दारा महाबलः ।निवर्तय गतिम् नीचाम् पर दार अभिमर्शनात् ॥३-५०-७॥
न तत् समाचरेत् धीरो यत् परो अस्य विगर्हयेत् ।यथा आत्मनः तथा अन्येषाम् दारा रक्ष्या विमर्शनात् ॥३-५०-८॥
अर्थम् वा यदि वा कामम् शिष्टाः शास्त्रेषु अनागतम् ।व्यवस्यन्ति अनु राजानम् धर्मम् पौलस्त्य नंदन ॥३-५०-९॥
राजा धर्मः च कामः च द्रव्याणाम् च उत्तमो निधिः ।धर्मः शुभम् वा पापम् वा राज मूलम् प्रवर्तते ॥३-५०-१०॥
पाप स्वभावः चपलः कथम् त्वम् रक्षसाम् वर ।ऐश्वर्यम् अभिसंप्राप्तो विमानम् इव दुष्कृती ॥३-५०-११॥
काम स्वभावो यः सः असौ न शक्यः तम् प्रमार्जितुम् ।न हि दुष्ट आत्मनाम् आर्यम् आवसति आलये चिरम् ॥३-५०-१२॥
विषये वा पुरे वा ते यदा रामो महाबलः ।न अपराध्यति धर्मात्मा कथम् तस्य अपराध्यसि ॥३-५०-१३॥
यदि शूर्पणखा हेतोः जनस्थान गतः खरः ।अतिवृत्तो हतः पूर्वम् रामेण अक्लिष्ट कर्मणा ॥३-५०-१४॥
अत्र ब्रूहि यथा तत्त्वम् को रामस्य व्यतिक्रमः ।यस्य त्वम् लोक नाथस्य हृत्वा भार्याम् गमिष्यसि ॥३-५०-१५॥
क्षिप्रम् विसृज वैदेहीम् मा त्वा घोरेण चक्षुषा ।दहेत् दहनभूतेन वृत्रम् इन्द्र अशनिः यथा ॥३-५०-१६॥
सर्पम् आशीविषम् बद्ध्वा वस्त्र अन्ते न अवबुध्यसे ।ग्रीवायाम् प्रतिमुक्तम् च काल पाशम् न पश्यसि ॥३-५०-१७॥
स भारः सौम्य भर्तव्यो यो नरम् न अवसादयेत् ।तत् अन्नम् अपि भोक्तव्यम् जीर्यते यत् अनामयम् ॥३-५०-१८॥
यत् कृत्वा न भवेत् धर्मो न कीर्तिः न यशः ध्रुवम् ।शरीरस्य भवेत् खेदः कः तत् कर्म समाचरेत् ॥३-५०-१९॥
षष्टि वर्ष सहस्राणि जातस्य मम रावण ।पितृ पैतामहम् राज्यम् यथावत् अनुतिष्ठतः ॥३-५०-२०॥
वृद्धो अहम् त्वम् युवा धन्वी स रथः कवची शरी ।न च अपि आदाय कुशली वैदेहीम् न गमिष्यसि ॥३-५०-२१॥
न शक्तः त्वम् बलात् हर्तुम् वैदेहीम् मम पश्यतः ।हेतुभिः न्याय संयुक्तैः ध्रुवाम् वेद श्रुतीम् इव ॥३-५०-२२॥
युध्यस्व यदि शूरो असि मुहूर्तम् तिष्ठ रावण ।शयिष्यसे हतो भूमौ यथा पूर्वम् खरः तथा ॥३-५०-२३॥
असकृत् संयुगे येन निहता दैत्य दानवाः ।न चिरात् चीर वासाः त्वाम् रामो युधि वधिष्यति ॥३-५०-२४॥
किम् नु शक्यम् मया कर्तुम् गतौ दूरम् नृप आत्मजौ ।क्षिप्रम् त्वम् नश्यसे नीच तयोः भीतो न संशयः ॥३-५०-२५॥
न हि मे जीवमानस्य नयिष्यसि शुभाम् इमाम् ।सीताम् कमल पत्र अक्षीम् रामस्य महषीम् प्रियाम् ॥३-५०-२६॥
अवश्यम् तु मया कार्यम् प्रियम् तस्य महात्मनः ।जीवितेन अपि रामस्य तथा दशरथस्य च ॥३-५०-२७॥
तिष्ठ तिष्ठ दशग्रीव मुहूर्तम् पश्य रावण ।वृन्तात् इव फलम् त्वाम् तु पातयेयम् रथ उत्तमात् ।युद्ध आतिथ्यम् प्रदास्यामि यथा प्राणम् निशा चर ॥३-५०-२८॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 49
- Next: Araṇya-Kāṇḍa Sarga 51 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷