🪷 अरण्यकाण्ड · Sarga 51
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 51 · 46 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 3.51local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
इति उक्तः क्रोध ताम्राक्षः तप्त कांचन कुण्डलः ।राक्षसेन्द्रो अभिदुद्राव पतगेन्द्रम् अमर्षणः ॥३-५१-१॥
स संप्रहारः तुमुलः तयोः तस्मिन् महा मृधे ।बभूव वात उद्धतयोः मेघयोः गगने यथा ॥३-५१-२॥
तत् बभूव अद्भुतम् युद्धम् गृध्र राक्षसयोः तदा ।सपक्षयोः माल्यवतोः महा पर्वतयोः इव ॥३-५१-३॥
ततो नालीक नाराचैः तीक्ष्ण अग्रैः च विकर्णिभिः ।अभ्यवर्षत् महाघोरैः गृध्र राजम् महाबलः ॥३-५१-४॥
स तानि शर जालानि गृध्रः पत्ररथ ईश्वरः ।जटायुः प्रतिजग्राह रावण अस्त्राणि संयुगे ॥३-५१-५॥
तस्य तीक्ष्ण नखाभ्याम् तु चरणाभ्याम् महाबलः ।चकार बहुधा गात्रे व्रणान् पतग सत्तमः ॥३-५१-६॥
अथ क्रोधात् दशग्रीवः जग्राह दश मार्गणान् ।मृत्यु दण्ड निभान् घोरान् शत्रोर् निधन कान्क्षया ॥३-५१-७॥
स तैः बाणैः महावीर्यः पूर्ण मुक्तैः अजिह्म गैः ।बिभेद निशितैः तीक्ष्णैः गृध्रम् घोरैः शिली मुखैः ॥३-५१-८॥
स राक्षस रथे पश्यन् जानकीम् बाष्प लोचनाम् ।अचिंतयित्वा बाणाम् तान् राक्षसम् समभिद्रवत् ॥३-५१-९॥
ततो अस्य सशरम् चापम् मुक्ता मणि विभूषितम् ।चरणाभ्याम् महातेजा बभंज पतगोत्तमः ॥३-५१-१०॥
ततो अन्यत् धनुः आदाय रावणः क्रोध मूर्च्छितः ।ववर्ष शर वर्षाणि शतशो अथ सहस्रशः ॥३-५१-११॥
शरैः आवारितः तस्य संयुगे पतगेश्वरः ।कुलायम् अभिसंप्राप्तः पक्षिः इव बभौ तदा ॥३-५१-१२॥
स तानि शर जालानि पक्षाभ्याम् तु विधूय ह ।चरणाभ्याम् महातेजा बभंज अस्य महत् धनुः ॥३-५१-१३॥
तत् च अग्नि सदृशम् दीप्तम् रावणस्य शरावरम् ।पक्षाभ्याम् च महातेजा व्यधुनोत् पतगेश्वरः ॥३-५१-१४॥
कांचन उरः छदान् दिव्यान् पिशाच वदनान् खरान् ।तान् च अस्य जव संपन्नान् जघान समरे बली ॥३-५१-१५॥
अथ त्रिवेणु संपन्नम् कामगम् पावक अर्चिषम् ।मणि सोपान चित्र अंगम् बभंज च महारथम् ॥३-५१-१६॥
पूर्ण चन्द्र प्रतीकाशम् छत्रम् च व्यजनैः सह ।पातयामास वेगेन ग्राहिभी राक्षसैः सह ॥३-५१-१७॥
सारथेः च अस्य वेगेन तुण्डेन च महत् शिरः ।पुनः व्यपाहरत् श्रीमान् पक्षिराजो महाबलः ॥३-५१-१८॥
स भग्न धन्वा विरथो हत अश्वो हत सारथिः ।अंकेन आदाय वैदेहीम् पपात भुवि रावणः ॥३-५१-१९॥
दृष्ट्वा निपतितम् भूमौ रावणम् भग्न वाहनम् ।साधु साधु इति भूतानि गृध्र राजम् अपूजयन् ॥३-५१-२०॥
परिश्रान्तम् तु तम् दृष्ट्वा जरया पक्षि यूथपम् ।उत्पपात पुनर् हृष्टो मैथिलीम् गृह्य रावणः ॥३-५१-२१॥
तम् प्रहृष्टम् निधाय अंके रावणम् जनक आत्मजाम् ।गच्छंतम् खड्ग शेषम् च प्रणष्ट हत साधनम् ॥३-५१-२२॥
गृध्र राजः समुत्पत्य रावणम् समभिद्रवत् ।समावार्यम् महातेजा जटायुः इदम् अब्रवीत् ॥३-५१-२३॥
वर्ज संस्पर्श बाणस्य भार्याम् रामस्य रावण ।अल्प बुद्धे हरसि एनाम् वधाय खलु रक्षसाम् ॥३-५१-२४॥
स मित्र बन्धुः स अमात्यः स बलः स परिच्छदः ।विष पानम् पिबसि एतत् पिपासित इव उदकम् ॥३-५१-२५॥
अनुबंधम् अजानंतः कर्मणाम् अविचक्षणाः ।शीघ्रम् एव विनश्यन्ति यथा त्वम् विनशिष्यसि ॥३-५१-२६॥
बद्धः त्वम् काल पाशेन क्व गतः तस्य मोक्ष्यसे ।वधाय बडिशम् गृह्य स अमिषम् जलजो यथा ॥३-५१-२७॥
न हि जातु दुराधर्षौ काकुत्स्थौ तव रावण ।धर्षणम् च आश्रमस्य अस्य क्षमिष्येते तु राघवौ ॥३-५१-२८॥
यथा त्वया कृतम् कर्म भीरुणा लोक गर्हितम् ।तस्कर आचरितो मार्गो न एष वीर निषेवितः ॥३-५१-२९॥
युध्यस्व यदि शूरो असि मुहूर्तम् तिष्ठ रावण ।शयिष्यसे हतो भूमौ यथा भ्राता खरः तथा ॥३-५१-३०॥
परेत काले पुरुषो यत् कर्म प्रतिपद्यते ।विनाशाय आत्मनो अधर्म्यम् प्रतिपन्नो असि कर्म तत् ॥३-५१-३१॥
पाप अनुबंधो वै यस्य कर्मणः को नु तत् पुमान् ।कुर्वीत लोक अधिपतिः स्वयंभूः भगवान् अपि ॥३-५१-३२॥
एवम् उक्त्वा शुभम् वाक्यम् जटायुः तस्य रक्षसः ।निपपात भृशम् पृष्ठे दशग्रीवस्य वीर्यवान् ॥३-५१-३३॥
तम् गृहीत्वा नखैः तीक्ष्णैः विददार समंततः ।अधिरूढो गज आरोहो यथा स्यात् दुष्ट वारणम् ॥३-५१-३४॥
विददार नखैः अस्य तुण्डम् पृष्ठे समर्पयन् ।केशान् च उत्पाटयामास नख पक्ष मुख आयुधः ॥३-५१-३५॥
स तथा गृध्र राजेन क्लिश्यमानो मुहुर् मुहुः ।अमर्ष स्फुरित ओष्ठः सन् प्राकंपत स राक्षसः ॥३-५१-३६॥
संपरिष्वज्य वैदेहीम् वामेन अंकेन रावणः ।तलेन अभिजघान आर्तो जटायुम् क्रोध मूर्चितः ॥३-५१-३७॥
जटायुः तम् अतिक्रम्य तुण्डेन अस्य खग अधिपः ।वाम बाहून् दश तदा व्यपाहरत् अरिन्दमः ॥३-५१-३८॥
संच्छिन्न बाहोः सद्यो वै बाहवः सहसा अभवन् ।विष ज्वालावली युक्ता वल्मीकत् इव पन्नगाः ॥३-५१-३९॥
ततः क्रोद्धात् दशग्रीवः सीताम् उत्सृज्य वीर्यवान् ।मुष्टिभ्याम् चरणाभ्याम् च गृध्र राजम् अपोथयत् ॥३-५१-४०॥
ततो मुहूर्तम् संग्रामो बभूव अतुल वीर्ययोः ।राक्षसानाम् च मुख्यस्य पक्षिणाम् प्रवरस्य च ॥३-५१-४१॥
तस्य व्यायच्छमानस्य रामस्य अर्थे अथ रावणः ।पक्षौ पादौ च पार्श्वौ च खड्गम् उद्धृत्य सो अच्छिनत् ॥३-५१-४२॥
स छिन्न पक्षः सहसा रक्षसा रौद्र कर्मणा ।निपपात महा गृध्रो धरण्याम् अल्प जीवितः ॥३-५१-४३॥
तम् दृष्ट्वा पतितम् भूमौ क्षतज आर्द्रम् जटायुषम् ।अभ्यधावत वैदेही स्व बंधुम् इव दुःखिता ॥३-५१-४४॥
तम् नील जीमूत निकाश कल्पम्सुपाण्डुर उरस्कम् उदार वीर्यम् ।ददर्श लंका अधिपतिः पृथिव्याम्जटायुषम् शान्तम् इव अग्नि दावम् ॥३-५१-४५॥
ततः तु तम् पत्ररथम् मही तलेनिपातितम् रावण वेग मर्दितम् ।पुनः च संगृह्य शशि प्रभ आननारुरोद सीता जनक आत्मजा तदा ॥३-५१-४६॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 50
- Next: Araṇya-Kāṇḍa Sarga 52 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷