🪷 अरण्यकाण्ड · Sarga 52

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 52 · 44 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 3.52local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 3.52.1
सा तु तारा अधिप मुखी रावणेन निरीक्ष्य तम् ।गृध्र राजम् विनिहतम् विललाप सुदुःखिता ॥३-५२-१॥
Vālmīki 3.52.2
निमित्तम् लक्षणम् स्वप्नम् शकुनि स्वर दर्शनम् ।अवश्यम् सुख दुःखेषु नराणाम् परिदृश्यते ॥३-५२-२॥
Vālmīki 3.52.3
न नूनम् राम जानासि महत् व्यसनम् आत्मनः ।धावन्ति नूनम् काकुत्स्थ मत् अर्थम् मृग पक्षिणः ॥३-५२-३॥
Vālmīki 3.52.4
अयम् हि कृपया राम माम् त्रातुम् इह संगतः ।शेते विनिहतो भूमौ मम अभाग्यात् विहंगमः ॥३-५२-४॥
Vālmīki 3.52.5
त्राहि माम् अद्य काकुत्स्थ लक्ष्मण इति वरांगना ।सु संत्रस्ता समाक्रंदत् शृण्वताम् तु यथा अन्तिके ॥३-५२-५॥
Vālmīki 3.52.6
ताम् क्लिष्ट माल्य आभरणाम् विलपन्तीम् अनाथवत् ।अभ्यधावत वैदेहीम् रावणो राक्षस अधिपः ॥३-५२-६॥
Vālmīki 3.52.7
ताम् लताम् इव वेष्टन्तीम् आलिंगन्तीम् महाद्रुमान् ।मुंच मुंच इति बहुशः प्रवदन् राक्षस अधिपः ॥३-५२-७॥
Vālmīki 3.52.8
क्रोशन्तीम् राम राम इति रामेण रहिताम् वने ।जीवित अन्ताय केशेषु जग्राह अन्तक संनिभः ॥३-५२-८॥
Vālmīki 3.52.9
प्रधर्षितायाम् वैदेह्याम् बभूव स चरा अचरम् ।जगत् सर्वम् अमर्यादम् तमसा अन्धेन संवृतम् ॥३-५२-९॥
Vālmīki 3.52.10
न वाति मारुतः तत्र निष् प्रभो अभूत् दिवाकरः ।दृष्ट्वा सीताम् परा मृष्टाम् देवो दिव्येन चक्षुषा ॥३-५२-१०॥
Vālmīki 3.52.11
कृतम् कार्यम् इति श्रीमान् व्याजहार पितामहः ।प्रहृष्टा व्यथिताः च आसन् सर्वे ते परम ऋषयः ॥३-५२-११॥
Vālmīki 3.52.12
दृष्ट्वा सीताम् परा मृष्टाम् दण्डकारण्य वासिनः ।रावणस्य विनाशम् च प्राप्तम् बुद्ध्वा यदृच्छया ॥३-५२-१२॥
Vālmīki 3.52.13
स तु ताम् राम राम इति रुदन्तीम् लक्ष्मण इति च ।जगाम आदाय च आकाशम् रावणो राक्षसेश्वर ॥३-५२-१३॥
Vālmīki 3.52.14
तप्त आभरण वर्ण अन्गी पीत कौशेय वासनी ।रराज राज पुत्री तु विद्युत् सौदामनी यथा ॥३-५२-१४॥
Vālmīki 3.52.15
उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः ।अधिकम् परिबभ्राज गिरिः दीप इव अग्निना ॥३-५२-१५॥
Vālmīki 3.52.16
तस्याः परम कल्याण्याः ताम्राणि सुरभीणि च ।पद्म पत्राणि वैदेह्या अभ्यकीर्यन्त रावणम् - यद्वा -- च्युतानि पद्म पत्राणि रावणम् समावाकिरन् - ॥३-५२-१६॥
Vālmīki 3.52.17
तस्याः कौशेयम् उद्धूतम् आकाशे कनक प्रभम् ।बभौ च आदित्य रागेण ताम्रम् अभ्रम् इव आतपे ॥३-५२-१७॥
Vālmīki 3.52.18
तस्याः तत् विमलम् - सु नसम् - वक्त्रम् आकाशे रावण अंक गम् ।न रराज विना रामम् विनालम् इव पंकजम् ॥३-५२-१८॥
Vālmīki 3.52.19
बभूव जलदम् नीलम् भित्त्वा चन्द्र इव उदितः ।सु ललाटम् सु केश अंतम् पद्म गर्भ आभम् अव्रणम् ॥३-५२-१९॥
Vālmīki 3.52.20
शुक्लैः सु विमलैर् दन्तैः प्रभावद्भिः अलंकृतम् ।तस्याः सु नयनम् वक्त्रम् आकाशे रावण अंक गम् ॥३-५२-२०॥
Vālmīki 3.52.21
रुदितम् व्यपमृष्ट अस्रम् चन्द्रवत् प्रिय दर्शनम् ।सु नासम् चारु ताम्र ओष्ठम् आकाषे हाटक प्रभम् ॥३-५२-२१॥
Vālmīki 3.52.22
राक्षसेन्द्र समाधूतम् तस्याः तत् वदनम् शुभम् ।शुशुभे न विना रामम् दिवा चन्द्र इव उदितः ॥३-५२-२२॥
Vālmīki 3.52.23
सा हेम वर्णा नील अंगम् मैथिली राक्षस अधिपम् ।शुशुभे कांचनी कांची नीलम् मणिम् - गजम् - इव आश्रिता ॥३-५२-२३॥
Vālmīki 3.52.24
सा पद्म पीता हेम आभा रावणम् जनक आत्मजा ।विद्युत् घनम् इव आविश्य शुशुभे तप्त भूषणा ॥३-५२-२४॥
Vālmīki 3.52.25
तस्या भूषण घोषेण वैदेह्या राक्षस अधिपः ।बभूव विमलो नीलः सघोष इव तोयदः ॥३-५२-२५॥
Vālmīki 3.52.26
उत्तम अंग च्युता तस्याः पुष्प वृष्टिः समन्ततः ।सीताया ह्रियमाणायाः पपात धरणी तले ॥३-५२-२६॥
Vālmīki 3.52.27
सा तु रावण वेगेन पुष्प वृष्टिः समन्ततः ।समाधूता दशग्रीवम् पुनः एव अभ्यवर्तत ॥३-५२-२७॥
Vālmīki 3.52.28
अभ्यवर्तत पुष्पाणाम् धारा वैश्रवण अनुजम् ।नक्षत्र माला विमला मेरुम् नगम् इव उन्नतम् ॥३-५२-२८॥
Vālmīki 3.52.29
चरणात् नूपुरम् भ्रष्टम् वैदेह्या रत्न भूषितम् ।विद्युत् मण्डल संकाशम् पपात धरणी तले ॥३-५२-२९॥
Vālmīki 3.52.30
तरु प्रवाल रक्ता सा नील अंगम् राक्षस ईश्वरम् ।प्राशोभयत वैदेही गजम् कक्ष्या इव कांचनी ॥३-५२-३०॥
Vālmīki 3.52.31
ताम् महा उल्काम् इव आकाशे दीप्यमानाम् स्व तेजसा ।जहार आकाशम् आविश्य सीताम् वैश्रवण अनुजः ॥३-५२-३१॥
Vālmīki 3.52.32
तस्याः तानि अग्नि वर्णानि भूषणानि मही तले ।स घोषाणि अवकीर्यन्त क्षीणाः तारा इव अंबरात् ॥३-५२-३२॥
Vālmīki 3.52.33
तस्याः स्तन अन्तरात् भ्रष्टो हारः तारा अधिप द्युतिः ।वैदेह्या निपतन् भाति गंगा इव गगनात् च्युता ॥३-५२-३३॥
Vālmīki 3.52.34
उत्पात वात अभिहता नाना द्विज गण आयुताः ।मा भैः इति विधूत अग्रा व्याजह्रुः इव पादपाः ॥३-५२-३४॥
Vālmīki 3.52.35
नलिन्यो ध्वस्त कमलाः त्रस्त मीन जले चराः ।सखीम् इव गत उत्साहाम् शोचन्ति इव स्म मैथिलीम् ॥३-५२-३५॥
Vālmīki 3.52.36
समंतात् अभिसंपत्य सिंह व्याघ्र मृग द्विजाः ।अन्वधावन् तदा रोषात् सीताम् छाया अनुगामिनः ॥३-५२-३६॥
Vālmīki 3.52.37
जल प्रपात अस्र मुखाः शृन्गैः उच्छ्रित बाहवः ।सीतायाम् ह्रियमाणायाम् विक्रोशन्ति इव पर्वताः ॥३-५२-३७॥
Vālmīki 3.52.38
ह्रियमाणाम् तु वैदेहीम् दृष्ट्वा दीनो दिवाकरः ।प्रविध्वस्त प्रभः श्रीमान् आसीत् पाण्डुर मण्डलः ॥३-५२-३८॥
Vālmīki 3.52.39
न अस्ति धर्मः कुतः सत्यम् न आर्जवम् न अनृशम्सता ।यत्र रामस्य वैदेहीम् भार्याम् हरति रावणः ॥३-५२-३९॥
Vālmīki 3.52.40
इति भूतानि सर्वाणि गणशः पर्यदेवयन् ।वित्रस्तका दीन मुखा रुरुदुः मृग पोतकाः ॥३-५२-४०॥
Vālmīki 3.52.41
उद्वीक्ष्य उद्वीक्ष्य नयनैः अस्र पात आविल ईक्षणाः ।सुप्रवेपित गात्राः च बभूवुः वन देवताः ॥३-५२-४१॥
Vālmīki 3.52.42
विक्रोशन्तीम् दृढम् सीताम् दृष्ट्वा दुःखम् तथा गताम् ।ताम् तु लक्ष्मण राम इति क्रोशन्तीम् मधुर स्वराम् ॥३-५२-४२॥
Vālmīki 3.52.43
अवेक्षमाणाम् बहुशो वैदेहीम् धरणी तलम् ।स ताम् आकुल केशान्ताम् विप्रमृष्ट विशेषकाम् ।जहार आत्म विनाशाय दशग्रीवो मनस्विनाम् ॥३-५२-४३॥
Vālmīki 3.52.44
ततः तु सा चारु दती शुचि स्मिताविना कृता बन्धु जनेन मैथिली ।अपश्यती राघव लक्ष्मणाउ उभौविवर्ण वक्त्रा भय भार पीडिता ॥३-५२-४४॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷