🪷 अरण्यकाण्ड · Sarga 53
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 53 · 26 ślokas
🪷 Devanāgarī Ślokas
खम् उत्पतन्तम् तम् दृष्ट्वा मैथिली जनक आत्मजा ।दुःखिता परम उद्विग्ना भये महति वर्तिनी ॥३-५३-१॥
रोष रोदन ताम्राक्षी भीमाक्षम् राक्षस अधिपम् ।रुदती करुणम् सीता ह्रियमाणा इदम् अब्रवीत् ॥३-५३-२॥
न व्यपत्रपसे नीच कर्मणा अनेन रावण ।ज्ञात्वा विरहिताम् यो माम् चोरयित्वा पलायसे ॥३-५३-३॥
त्वया एव नूनम् दुष्टात्मन् भीरुणा हर्तुम् इच्छता ।मम अपवाहितो भर्ता मृग रूपेण मायया ॥३-५३-४॥
यो हि माम् उद्यतः त्रातुम् सो अपि अयम् विनिपातितः ।गृध्र राजः पुराणो असौ श्वशुरस्य सखा मम ॥३-५३-५॥
परमम् खलु ते वीर्यम् दृश्यते राक्षसाधम ।विश्राव्य नामधेयम् हि युद्धे न अस्मि जिता त्वया ॥३-५३-६॥
ईदृशम् गर्हितम् कर्म कथम् कृत्वा न लज्जसे ।स्त्रियाः च हरणम् नीच रहिते च परस्य च ॥३-५३-७॥
कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् ।सुनृशम्सम् अधर्मिष्ठम् तव शौण्डीर्य मानिनः ॥३-५३-८॥
धिक् ते शौर्यम् च सत्त्वम् च यत् त्वया कथितम् तदा ।कुल आक्रोशकरम् लोके धिक् ते चारित्रम् ईदृशम् ॥३-५३-९॥
किम् शक्यम् कर्तुम् एवम् हि यत् जवेन एव धावसि ।मुहूर्तम् अपि तिष्ठस्व न जीवन् प्रतियास्यसि ॥३-५३-१०॥
न हि चक्षुः पथम् प्राप्य तयोः पार्थिव पुत्रयोः ।स सैन्यो अपि समर्थः त्वम् मुहूर्तम् अपि जीवितुम् ॥३-५३-११॥
न त्वम् तयोः शर स्पर्शम् सोढुम् शक्तः कथंचन ।वने प्रज्वलितस्य इव स्पर्शम् अग्नेः विहंगमः ॥३-५३-१२॥
साधु कृत्वा आत्मनः पथ्यम् साधु माम् मुंच रावण ।मत् प्रधर्षण रुष्टो हि भ्रात्रा सह पतिः मम ॥३-५३-१३॥
विधास्यति विनाशाय त्वम् माम् यदि न मुंचसि ।येन त्वम् व्यवसायेन बलात् माम् हर्तुम् इच्छसि ॥३-५३-१४॥
व्यवसायः तु ते नीच भविष्यति निरर्थकः ।न हि अहम् तम् अपश्यन्ती भर्तारम् विबुध उपमम् ॥३-५३-१५॥
उत्सहे शत्रु वशगा प्राणान् धारयितुम् चिरम् ।न नूनम् च आत्मनः श्रेयः पथ्यम् वा समवेक्षसे ॥३-५३-१६॥
मृत्यु काले यथा मर्त्यो विपरीतानि सेवते ।मुमूर्षूणाम् तु सर्वेषाम् यत् पथ्यम् तत् न रोचते ॥३-५३-१७॥
पश्यामि इव हि कण्ठे त्वाम् काल पाश अवपाशितम् ।यथा च अस्मिन् भय स्थाने न बिभेषि दशानन ॥३-५३-१८॥
व्यक्तम् हिरण्मयान् हि त्वम् संपश्यसि मही रुहान् ।नदीम् वैतरणीम् घोराम् रुधिर ओघ विवाहिनीम् ॥३-५३-१९॥
खड्ग पत्र वनम् चैव भीमम् पश्यसि रावण ।तप्त कांचन पुष्पाम् च वैदूर्य प्रवर च्छदाम् ॥३-५३-२०॥
द्रक्ष्यसे शाल्मलीम् तीक्ष्णाम् आयसैः कण्टकैः चिताम् ।न हि त्वम् ईदृशम् कृत्वा तस्य अलीकम् महात्मनः ॥३-५३-२१॥
धारितुम् शक्स्यसि चिरम् विषम् पीत्वा इव निर्घृणः ।बद्धः त्वम् काल पाशेन दुर्निवारेण रावण ॥३-५३-२२॥
क्व गतो लप्स्यसे शर्म भर्तुः मम महात्मनः ।निमेष अन्तर मात्रेण विना भ्रातरम् आहवे ॥३-५३-२३॥
राक्षसा निहता येन सहस्राणि चतुर्दश ।कथम् स राघवो वीरः सर्व अस्त्र कुशलो बली ॥३-५३-२४॥
न त्वाम् हन्यात् शरैः तीक्ष्णैः इष्ट भार्या अपहारिणम् ।एतत् च अन्यत् च परुषम् वैदेही रावण अंक गा ।भय शोक समाविष्टा करुणम् विललाप ह ॥३-५३-२५॥
तथा भृश आर्ताम् बहु चैव भाषिणीम्विललाप पूर्वम् करुणम् च भामिनीम् ।जहार पापः तरुणीम् विवेष्टतीम्नृपात्मजाम् आगत गात्र वेपथुम् ॥३-५३-२६॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 52
- Next: Araṇya-Kāṇḍa Sarga 54 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
Continue with Araṇya-Kāṇḍa, the seven-Kāṇḍa reading index, or the Rāmcharitamānas companion reading. Source and rights documentation remains available in the editorial standards.
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷