🪷 अरण्यकाण्ड · Sarga 54

Araṇya-Kāṇḍa · The Book of the Forest · Sarga 54 · 30 ślokas

Vālmīki Detail Source-Anchor Spine

This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.

Vālmīki 3.54local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition

🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha

Vālmīki 3.54.1
ह्रियमाणा तु वैदेही कंचित् नाथम् अपश्यती ।ददर्श गिरि शृंगस्थान् पंच वानर पुंगवान् ॥३-५४-१॥
Vālmīki 3.54.2
तेषाम् मध्ये विशालाक्षी कौशेयम् कनक प्रभम् ।उत्तरीयम् वरारोहा शुभानि आभरणानि च ॥३-५४-२॥
Vālmīki 3.54.3
मुमोच यदि रामाय शंसेयुः इति भामिनी ।वस्त्रम् उत्सृज्य तन् मध्ये विनिक्षिप्तम् स भूषणम् ॥३-५४-३॥
Vālmīki 3.54.4
संभ्रमात् तु दशग्रीवः तत् कर्म न च बुद्ध्वान् ।पिंगाक्षाः ताम् विशालाक्षीम् नेत्रैः अनिमिषैः इव ॥३-५४-४॥
Vālmīki 3.54.5
विक्रोशन्तीम् तदा सीताम् ददृशुः वानर ऋषभाः ।स च पंपाम् अतिक्रम्य लंकाम् अभिमुखः पुरीम् ॥३-५४-५॥
Vālmīki 3.54.6
जगाम रुदतीम् गृह्य मैथिलीम् राक्षस ईश्वरः ।ताम् जहार सुसंहृष्टो रावणो मृत्युम् आत्मनः ॥३-५४-६॥
Vālmīki 3.54.7
उत्संगेन एव भुजगीम् तीक्ष्ण दंष्ट्राम् महाविषाम् ।वनानि सरितः शैलान् सराम्सि च विहायसा ॥३-५४-७॥
Vālmīki 3.54.8
स क्षिप्रम् समतीयाय शरः चापात् इव च्युतः ।तिमि नक्र निकेतम् तु वरुण आलयम् अक्षयम् ॥३-५४-८॥
Vālmīki 3.54.9
सरिताम् शरणम् गत्वा समतीयाय सागरम् ।संभ्रमात् परिवृत्त ऊर्मी रुद्ध मीन महोरगः ॥३-५४-९॥
Vālmīki 3.54.10
वैदेह्याम् ह्रियमाणायाम् बभूव वरुण आलयः ।अन्तरिक्ष गता वाचः ससृजुः चारणाः तदा ॥३-५४-१०॥
Vālmīki 3.54.11
एतत् अन्तो दशग्रीव इति सिद्धाः तदा अब्रुवन् ।स तु सीताम् विचेष्टन्तीम् अंकेन आदाय रावणः ॥३-५४-११॥
Vālmīki 3.54.12
प्रविवेश पुरीम् लन्काम् रूपिणीम् मृत्युम् आत्मनः ।सः अभिगम्य पुरीम् लंकाम् सुविभक्त महापथाम् ॥३-५४-१२॥
Vālmīki 3.54.13
संरूढ कक्ष्या बहुलम् स्वम् अंतः पुरम् आविशत् ।तत्र ताम् असित अपांगाम् शोक मोह परायणाम् ॥३-५४-१३॥
Vālmīki 3.54.14
निदधे रावणः सीताम् मयो मायाम् इव आसुरीम् ।अब्रवीत् च दशग्रीवः पिशाचीः घोर दर्शनाः ॥३-५४-१४॥
Vālmīki 3.54.15
यथा न एनाम् पुमान् स्त्री वा सीताम् पश्यति असम्मतः ।मुक्ता मणि सुवर्णानि वस्त्राणि आभरणानि च ॥३-५४-१५॥
Vālmīki 3.54.16
यत् यत् इच्छेत् तत् एव अस्या देयम् मत् च्छंदतो यथा ।या च वक्ष्यति वैदेहीम् वचनम् किंचित् अप्रियम् ॥३-५४-१६॥
Vālmīki 3.54.17
अज्ञानात् यदि वा ज्ञानान् न तस्या जीवितम् प्रियम् ।तथा उक्त्वा राक्षसीः ताः तु राक्षसेन्द्रः प्रतापवान् ॥३-५४-१७॥
Vālmīki 3.54.18
निष्क्रम्य अन्तः पुरात् तस्मात् किम् कृत्यम् इति चिंतयन् ।ददर्श अष्टौ महावीर्यान् राक्षसान् पिशित अशनान् ॥३-५४-१८॥
Vālmīki 3.54.19
स तान् दृष्ट्वा महावीर्यो वर दानेन मोहितः ।उवाच तान् इदम् वाक्यम् प्रशस्य बल वीर्यतः ॥३-५४-१९॥
Vālmīki 3.54.20
नाना प्रहरणाः क्षिप्रम् इतो गच्छत सत्वराः ।जनस्थानम् हत स्थानम् भूत पूर्वम् खर आलयम् ॥३-५४-२०॥
Vālmīki 3.54.21
तत्र उष्यताम् जनस्थाने शून्ये निहत राक्षसे ।पौरुषम् बलम् आश्रित्य त्रासम् उत्सृज्य दूरतः ॥३-५४-२१॥
Vālmīki 3.54.22
बहु सैन्यम् महावीर्यम् जनस्थाने निवेशितम् ।स दूषण खरम् युद्धे निहतम् राम सायकैः ॥३-५४-२२॥
Vālmīki 3.54.23
ततः क्रोधो मम अपूर्वो धैर्यस्य उपरि वर्धते ।वैरम् च सुमहत् जातम् रामम् प्रति सुदारुणम् ॥३-५४-२३॥
Vālmīki 3.54.24
निर्यातयितुम् इच्छामि तत् च वैरम् अहम् रिपोः ।न हि लप्स्यामि अहम् निद्राम् अहत्वा संयुगे रिपुम् ॥३-५४-२४॥
Vālmīki 3.54.25
तम् तु इदानीम् अहम् हत्वा खर दूषण घातिनम् ।रामम् शर्म उपलप्स्यामि धनम् लब्ध्वा इव निर्धनः ॥३-५४-२५॥
Vālmīki 3.54.26
जनस्थाने वसद्भिः तु भवद्भिः रामम् आश्रिता ।प्रवृत्तिः उपनेतव्या किम् करोति इति तत्त्वतः ॥३-५४-२६॥
Vālmīki 3.54.27
अप्रमादात् च गंतव्यम् सर्वैः एव निशाचरैः ।कर्तव्यः च सदा यत्नो राघवस्य वधम् प्रति ॥३-५४-२७॥
Vālmīki 3.54.28
युष्माकम् तु बलम् ज्ञातम् बहुशो रण मूर्धनि ।अतः तु अस्मिन् जनस्थाने मया यूयम् नियोजिताः ॥३-५४-२८॥
Vālmīki 3.54.29
ततः प्रियम् वाक्यम् उपेत्य राक्षसामहाअर्थम् अष्टौ अभिवाद्य रावणम् ।विहाय लंकाम् सहिताः प्रतस्थिरेयतो जनस्थानम् अलक्ष्य दर्शनाः ॥३-५४-२९॥
Vālmīki 3.54.30
ततः तु सीताम् उपलभ्य रावणःसुसंप्रहृष्टः परिगृह्य मैथिलीम् ।प्रसज्य रामेण च वैरम् उत्तमम्बभूव मोहात् मुदितः स राक्षसः ॥३-५४-३०॥

Navigation

🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷