🪷 अरण्यकाण्ड · Sarga 55
Araṇya-Kāṇḍa · The Book of the Forest · Sarga 55 · 37 ślokas
Vālmīki Detail Source-Anchor Spine
This sarga page exposes the exact local source route, parent Kāṇḍa, Rāma janma proof anchors where applicable, and the wider Vālmīki/Rāma source spine.
Vālmīki 3.55local sarga route with all Sanskrit ślokasAraṇya-Kāṇḍaparent Kāṇḍa sarga index/valmiki-ramayanamaster index for the 7 Kāṇḍas and 22,742 ślokasBāla 1.18Rāma-janma sarga and primary birth-spec anchorVālmīki 1.18.8first Rāma-janma astronomical śloka routeVālmīki 1.18.15closing verse of the janma-spec rangeVālmīki 2.26.9Bṛhaspati-Puṣya coronation-eve witness routeVālmīki 6.93.65war-window Krishna-pakṣa timing witnessVālmīki 6.103Rāvaṇa-vadha anchor doorway for the year+41 witness/ramaRāma-Krishna non-dual singularity and three-anchor proof surface/chart/ramapublished Rāma janma-kuṇḍalī output for the 1,626,102 BCE claimRāma janma dayreader-visible pañchāṅga/day output for the birth anchor/computational-moatSūrya-Siddhānta deep-time verification boundary/festival/rama-navamiCaitra Śukla Navamī festival mūrti-page/ramcharitamanasTulsidās bhakti voice of the same Rāma-līlāRāmopākhyānaVyāsa's Rāma-kathā inside the Mahābhārata/binduDiamond of Darśanas · Rāma/Krishna as one Bindu aperture/philosophyConstitutional Principles and Rāma-Krishna recognition
🪷 The Ślokas · canonical Devanāgarī Sanskrit yathārtha
संदिश्य राक्षसान् घोरान् रावणो अष्टौ महाबलान् ।आत्मानम् बुद्धि वैक्लव्यात् कृत कृत्यम् अमन्यत ॥३-५५-१॥
स चिंतयानो वैदेहीम् काम बाण संप्रपीडितः ।प्रविवेश गृहम् रम्यम् सीताम् द्रष्टुम् अभित्वरन् ॥३-५५-२॥
स प्रविश्य तु तत् वेश्म रावणो राक्षस अधिपः ।अपश्यत् राक्षसी मध्ये सीताम् दुःख परायणम् ॥३-५५-३॥
अश्रु पूर्ण मुखीम् दीनाम् शोक भार अवपीडिताम् ।वायु वेगैः इव आक्रांताम् मज्जन्तीम् नावम् अर्णवे ॥३-५५-४॥
मृग यूथ परिभ्रष्टाम् मृगीम् श्वभिः इव आवृताम् ।अधोगत मुखीम् सीताम् ताम् अभ्येत्य निशाचरः ॥३-५५-५॥
ताम् तु शोक वशात् दीनाम् अवशाम् राक्षस अधिपः ।स बलात् दर्शयामास गृहम् देव गृह उपमम् ॥३-५५-६॥
हर्म्य प्रासाद संबधम् स्त्री सहस्र निषेवितम् ।नाना पक्षि गणैः जुष्टम् नाना रत्न समन्वितम् ॥३-५५-७॥
दान्तकैः तापनीयैः च स्फाटिकै राजतैः तथा ।वज्र वैदूर्य चित्रैः च स्तम्भैः दृष्टि मनोरमैः ॥३-५५-८॥
दिव्य दुन्दुभि निर्घोषम् तप्त कांचन भूषणम् ।सोपानम् कांचनम् चित्रम् आरुरोह तया सह ॥३-५५-९॥
दान्तका राजताः चैव गवाक्षाः प्रिय दर्शनाः ।हेम जाला आवृताः च आसन् तत्र प्रासाद पंक्तयः ॥३-५५-१०॥
सुधा मणि विचित्राणि भूमि भागानि सर्वशः ।दशग्रीवः स्व भवने प्रादर्शयत मैथिलीम् ॥३-५५-११॥
दीर्घिकाः पुष्करिण्यः च नाना पुष्प समावृताः ।रावणो दर्शयामास सीताम् शोक परायणाम् ॥३-५५-१२॥
दर्शयित्वा तु वैदेहीम् कृत्स्नम् तत् भवन उत्तमम् ।उवाच वाक्यम् पापात्मा सीताम् लोभितुम् इच्छया ॥३-५५-१३॥
दश राक्षस कोट्यः च द्वाविंशतिः अथ अपराः ।वर्जयित्वा जरा वृद्धान् बालान् च रजनीचरान् ॥३-५५-१४॥
तेषाम् प्रभुः अहम् सीते सर्वेषाम् भीम कर्मणाम् ।सहस्रम् एकम् एकस्य मम कार्य पुरःसरम् ॥३-५५-१५॥
यत् इदम् राज्य तंत्रम् मे त्वयि सर्वम् प्रतिष्ठितम् ।जीवितम् च विशालाक्षि त्वम् मे प्राणैः गरीयसी ॥३-५५-१६॥
बह्वीनाम् उत्तम स्त्रीणाम् मम यो असौ परिग्रहः ।तासाम् त्वम् ईश्वरी सीते मम भार्या भव प्रिये ॥३-५५-१७॥
साधु किम् ते अन्यया बुद्ध्या रोचयस्व वचो मम ।भजस्व मा अभितप्तस्य प्रसादम् कर्तुम् अर्हसि ॥३-५५-१८॥
परिक्षिप्ता समुद्रेण लंका इयम् शत योजना ।न इयम् धर्षयितुम् शक्या स इन्द्रैः अपि सुर असुरैः ॥३-५५-१९॥
न देवेषु न यक्षेषु न गंधर्वेषु न ऋषिषु ।अहम् पश्यामि लोकेषु यो मे वीर्य समो भवेत् ॥३-५५-२०॥
राज्य भ्रष्टेन दीनेन तापसेन पदातिना ।किम् करिष्यसि रामेण मानुषेण अल्प तेजसा ॥३-५५-२१॥
भजस्व सीते माम् एव भर्ता अहम् सदृशः तव ।यौवनम् हि अध्रुवम् भीरु रमस्व इह मया सह ॥३-५५-२२॥
दर्शने मा कृथाः बुद्धिम् राघवस्य वरानने ।का अस्य शक्तिः इह आगंतुम् अपि सीते मनोरथैः ॥३-५५-२३॥
न शक्यो वायुः आकाशे पाशैः बद्धम् महाजवः ।दीप्यमानस्य वा अपि अग्नेः ग्रहीतुम् विमलाम् शिखाम् ॥३-५५-२४॥
त्रयाणाम् अपि लोकानाम् न तम् पश्यामि शोभने ।विक्रमेण नयेत् यः त्वाम् मत् बाहु परिपालिताम् ॥३-५५-२५॥
लंकायाम् सुमहत् राज्यम् इदम् त्वम् अनुपालय ।त्वत् प्रेष्या मत् विधा चैव देवाः च अपि चर अचरम् ॥३-५५-२६॥
अभिषेक उदक क्लिन्ना तुष्टा च रमयस्व माम् ।दुष्कृतम् यत् पुरा कर्म वन वासेन तद् गतम् ॥३-५५-२७॥
यत् च ते सुकृतो धर्मः तस्य इह फलम् आप्नुहि ।इह सर्वाणि माल्यानि दिव्य गंधानि मैथिलि ॥३-५५-२८॥
भूषणानि च मुख्यानि तानि सेव मया सह ।पुष्पकम् नाम सुश्रोणि भ्रातुः वैश्रवणस्य मे ॥३-५५-२९॥
विमानम् सूर्य संकाशम् तरसा निर्जितम् रणे ।विशालम् रमणीयम् च तत् विमानम् मनो जवम् ॥३-५५-३०॥
तत्र सीते मया सार्धम् विहरस्व यथा सुखम् ।वदनम् पद्म संकाशम् विमलम् चारु दर्शनम् ॥३-५५-३१॥
शोक आर्तम् तु वरारोहे न भ्राजति वर आनने ।एवम् वदति तस्मिन् सा वस्त्र अन्तेन वर अंगना ॥३-५५-३२॥
पिधाय इन्दु निभम् सीता मंदम् अश्रून् अवर्तयत् ।ध्यायन्तीम् ताम् इव अस्वस्थाम् सीताम् चिंता हत प्रभाम् ॥३-५५-३३॥
उवाच वचनम् वीरो रावणो रजनी चरः ।अलम् व्रीडेन वैदेहि धर्म लोप कृतेन ते ॥३-५५-३४॥
आर्षो अयम् देवि निष्यन्दो यः त्वाम् अभिगमिष्यति ।एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ ॥३-५५-३५॥
प्रसादम् कुरु मे क्षिप्रम् वश्यो दासो अहम् अस्मि ते ।इमाः शून्या मया वाचः शुष्यमाणेन भाषिताः ॥३-५५-३६॥
न च अपि रावणः कांचित् मूर्ध्ना स्त्रीम् प्रणमेत ह ।एवम् उक्त्वा दशग्रीवो मैथिलीम् जनक आत्मजाम् ।कृत अन्त वशम् आपन्नो मम इयम् इति मन्यते ॥३-५५-३७॥
Navigation
- ← Previous: Araṇya-Kāṇḍa Sarga 54
- Next: Araṇya-Kāṇḍa Sarga 56 →
- Araṇya-Kāṇḍa sarga-index
- Vālmīki Rāmāyaṇa master-index
- /rama · the non-dual singularity
🪷 जय श्री राम · जय भगवान् वाल्मीकि 🪷