🪷 Ṛgveda 6.17

Ṣaṣṭha-Maṇḍala · Sūkta 17

१५ बार्हस्पत्यो भरद्वाज: । इन्द्र: ।त्रिष्टुप् , १५ द्विपदा विराट् । पिबा॒ सोम॑म॒भि यमु॑ग्र॒ तर्द॑ ऊ॒र्वं गव्यं॒ महि॑ गृणा॒न इ॑न्द्र । वि यो धृ॑ष्णो॒ वधि॑षो वज्रहस्त॒ विश्वा॑ वृ॒त्रम॑मि॒त्रिया॒ शवो॑भिः ॥१॥ स ईं॑ पाहि॒ य ऋ॑जी॒षी तरु॑त्रो॒ यः शिप्र॑वान् वृष॒भो यो म॑ती॒नाम् । यो गो॑त्र॒भिद् व॑ज्र॒भृद् यो ह॑रि॒ष्ठाः स इ॑न्द्र चि॒त्राँ अ॒भि तृ॑न्धि॒ वाजा॑न् ॥२॥ ए॒वा पा॑हि प्र॒त्नथा॒ मन्द॑तु त्वा श्रु॒धि ब्रह्म॑ वावृ॒धस्वो॒त गी॒र्भिः । आ॒विः सूर्यं॑ कृणु॒हि पी॑पि॒हीषो॑ ज॒हि शत्रूँ॑र॒भि गा इ॑न्द्र तृन्धि ॥३॥ ते त्वा॒ मदा॑ बृ॒हदि॑न्द्र स्वधाव इ॒मे पी॒ता उ॑क्षयन्त द्यु॒मन्त॑म् । म॒हामनू॑नं त॒वसं॒ विभू॑तिं मत्स॒रासो॑ जर्हृषन्त प्र॒साह॑म् ॥४॥ येभि॒: सूर्य॑मु॒षसं॑ मन्दसा॒नो ऽवा॑स॒योऽप॑ दृ॒ळ्हानि॒ दर्द्र॑त् । म॒हामद्रिं॒ परि॒ गा इ॑न्द्र॒ सन्तं॑ नु॒त्था अच्यु॑तं॒ सद॑स॒स्परि॒ स्वात् ॥५॥ तव॒ क्रत्वा॒ तव॒ तद् दं॒सना॑भिरा॒मासु॑ प॒क्वं शच्या॒ नि दी॑धः । और्णो॒र्दुर॑ उ॒स्रिया॑भ्यो॒ वि दृ॒ळ्होदू॒र्वाद् गा अ॑सृजो॒ अङ्गि॑रस्वान् ॥६॥ प॒प्राथ॒ क्षां महि॒ दंसो॒ व्यु१र्वीमुप॒ द्यामृ॒ष्वो बृ॒हदि॑न्द्र स्तभायः । अधा॑रयो॒ रोद॑सी दे॒वपु॑त्रे प्र॒त्ने मा॒तरा॑ य॒ह्वी ऋ॒तस्य॑ ॥७॥ अध॑ त्वा॒ विश्वे॑ पु॒र इ॑न्द्र दे॒वा एकं॑ त॒वसं॑ दधिरे॒ भरा॑य । अदे॑वो॒ यद॒भ्यौहि॑ष्ट दे॒वान् त्स्व॑र्षाता वृणत॒ इन्द्र॒मत्र॑ ॥८॥ अध॒ द्यौश्चि॑त् ते॒ अप॒ सा नु वज्रा॑द् द्वि॒तान॑मद् भि॒यसा॒ स्वस्य॑ म॒न्योः । अहिं॒ यदिन्द्रो॑ अ॒भ्योह॑सानं॒ नि चि॑द् वि॒श्वायु॑: श॒यथे॑ ज॒घान॑ ॥९॥ अध॒ त्वष्टा॑ ते म॒ह उ॑ग्र॒ वज्रं॑ स॒हस्र॑भृष्टिं ववृतच्छ॒ताश्रि॑म् । निका॑मम॒रम॑णसं॒ येन॒ नव॑न्त॒महिं॒ सं पि॑णगृजीषिन् ॥१०॥ वर्धा॒न् यं विश्वे॑ म॒रुत॑: स॒जोषा॒: पच॑च्छ॒तं म॑हि॒षाँ इ॑न्द्र॒ तुभ्य॑म् । पू॒षा विष्णु॒स्त्रीणि॒ सरां॑सि धावन् वृत्र॒हणं॑ मदि॒रमं॒शुम॑स्मै ॥११॥ आ क्षोदो॒ महि॑ वृ॒तं न॒दीनां॒ परि॑ष्ठितमसृज ऊ॒र्मिम॒पाम् । तासा॒मनु॑ प्र॒वत॑ इन्द्र॒ पन्थां॒ प्रार्द॑यो॒ नीची॑र॒पस॑: समु॒द्रम् ॥१२॥ ए॒वा ता विश्वा॑ चकृ॒वांस॒मिन्द्रं॑ म॒हामु॒ग्रम॑जु॒र्यं स॑हो॒दाम् । सु॒वीरं॑ त्वा स्वायु॒धं सु॒वज्र॒मा ब्रह्म॒ नव्य॒मव॑से ववृत्यात् ॥१३॥ स नो॒ वाजा॑य॒ श्रव॑स इ॒षे च॑ रा॒ये धे॑हि द्यु॒मत॑ इन्द्र॒ विप्रा॑न् । भ॒रद्वा॑जे नृ॒वत॑ इन्द्र सू॒रीन् दि॒वि च॑ स्मैधि॒ पार्ये॑ न इन्द्र ॥१४॥ अ॒या वाजं॑ दे॒वहि॑तं सनेम॒ मदे॑म श॒तहि॑माः सु॒वीरा॑: ॥१५॥
— Ṛgveda Maṇḍala 6 · Sūkta 17 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷