🪷 Ṛgveda 6.16

Ṣaṣṭha-Maṇḍala · Sūkta 16

४८ बार्हस्पत्यो भरद्वाज: । अग्नि :।गायत्री; १, ६ वर्धमाना;२७, ४७ – ४८ अनुष्टुप् ; ४६ त्रिष्टुप् । त्वम॑ग्ने य॒ज्ञानां॒ होता॒ विश्वे॑षां हि॒तः । दे॒वेभि॒र्मानु॑षे॒ जने॑ ॥१॥ स नो॑ म॒न्द्राभि॑रध्व॒रे जि॒ह्वाभि॑र्यजा म॒हः । आ दे॒वान् व॑क्षि॒ यक्षि॑ च ॥२॥ वेत्था॒ हि वे॑धो॒ अध्व॑नः प॒थश्च॑ दे॒वाञ्ज॑सा । अग्ने॑ य॒ज्ञेषु॑ सुक्रतो ॥३॥ त्वामी॑ळे॒ अध॑ द्वि॒ता भ॑र॒तो वा॒जिभि॑: शु॒नम् । ई॒जे य॒ज्ञेषु॑ य॒ज्ञिय॑म् ॥४॥ त्वमि॒मा वार्या॑ पु॒रु दिवो॑दासाय सुन्व॒ते । भ॒रद्वा॑जाय दा॒शुषे॑ ॥५॥ त्वं दू॒तो अम॑र्त्य॒ आ व॑हा॒ दैव्यं॒ जन॑म् । शृ॒ण्वन् विप्र॑स्य सुष्टु॒तिम् ॥६॥ त्वाम॑ग्ने स्वा॒ध्यो॒३ मर्ता॑सो दे॒ववी॑तये । य॒ज्ञेषु॑ दे॒वमी॑ळते ॥७॥ तव॒ प्र य॑क्षि सं॒दृश॑मु॒त क्रतुं॑ सु॒दान॑वः । विश्वे॑ जुषन्त का॒मिन॑: ॥८॥ त्वं होता॒ मनु॑र्हितो॒ वह्नि॑रा॒सा वि॒दुष्ट॑रः । अग्ने॒ यक्षि॑ दि॒वो विश॑: ॥९॥ अग्न॒ आ या॑हि वी॒तये॑ गृणा॒नो ह॒व्यदा॑तये । नि होता॑ सत्सि ब॒र्हिषि॑ ॥१०॥ तं त्वा॑ स॒मिद्भि॑रङ्गिरो घृ॒तेन॑ वर्धयामसि । बृ॒हच्छो॑चा यविष्ठ्य ॥११॥ स न॑: पृ॒थु श्र॒वाय्य॒मच्छा॑ देव विवाससि । बृ॒हद॑ग्ने सु॒वीर्य॑म् ॥१२॥ त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्ध्नो विश्व॑स्य वा॒घत॑: ॥१३॥ तमु॑ त्वा द॒ध्यङ्ङृषि॑: पु॒त्र ई॑धे॒ अथ॑र्वणः । वृ॒त्र॒हणं॑ पुरंद॒रम् ॥१४॥ तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम् । ध॒नं॒ज॒यं रणे॑रणे ॥१५॥ एह्यू॒ षु ब्रवा॑णि॒ ते ऽग्न॑ इ॒त्थेत॑रा॒ गिर॑: । ए॒भिर्व॑र्धास॒ इन्दु॑भिः ॥१६॥ यत्र॒ क्व॑ च ते॒ मनो॒ दक्षं॑ दधस॒ उत्त॑रम् । तत्रा॒ सद॑: कृणवसे ॥१७॥ न॒हि ते॑ पू॒र्तम॑क्षि॒पद् भुव॑न्नेमानां वसो । अथा॒ दुवो॑ वनवसे ॥१८॥ आग्निर॑गामि॒ भार॑तो वृत्र॒हा पु॑रु॒चेत॑नः । दिवो॑दासस्य॒ सत्प॑तिः ॥१९॥ स हि विश्वाति॒ पार्थि॑वा र॒यिं दाश॑न्महित्व॒ना । व॒न्वन्नवा॑तो॒ अस्तृ॑तः ॥२०॥ स प्र॑त्न॒वन्नवी॑य॒सा ऽग्ने॑ द्यु॒म्नेन॑ सं॒यता॑ । बृ॒हत् त॑तन्थ भा॒नुना॑ ॥२१॥ प्र व॑: सखायो अ॒ग्नये॒ स्तोमं॑ य॒ज्ञं च॑ धृष्णु॒या । अर्च॒ गाय॑ च वे॒धसे॑ ॥२२॥ स हि यो मानु॑षा यु॒गा सीद॒द्धोता॑ क॒विक्र॑तुः । दू॒तश्च॑ हव्य॒वाह॑नः ॥२३॥ ता राजा॑ना॒ शुचि॑व्रता ऽऽदि॒त्यान् मारु॑तं ग॒णम् । वसो॒ यक्षी॒ह रोद॑सी ॥२४॥ वस्वी॑ ते अग्ने॒ संदृ॑ष्टिरिषय॒ते मर्त्या॑य । ऊर्जो॑ नपाद॒मृत॑स्य ॥२५॥ क्रत्वा॒ दा अ॑स्तु॒ श्रेष्ठो॒ ऽद्य त्वा॑ व॒न्वन् त्सु॒रेक्णा॑: । मर्त॑ आनाश सुवृ॒क्तिम् ॥२६॥ ते ते॑ अग्ने॒ त्वोता॑ इ॒षय॑न्तो॒ विश्व॒मायु॑: । तर॑न्तो अ॒र्यो अरा॑तीर्व॒न्वन्तो॑ अ॒र्यो अरा॑तीः ॥२७॥ अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यास॒द् विश्वं॒ न्य१त्रिण॑म् । अ॒ग्निर्नो॑ वनते र॒यिम् ॥२८॥ सु॒वीरं॑ र॒यिमा भ॑र॒ जात॑वेदो॒ विच॑र्षणे । ज॒हि रक्षां॑सि सुक्रतो ॥२९॥ त्वं न॑: पा॒ह्यंह॑सो॒ जात॑वेदो अघाय॒तः । रक्षा॑ णो ब्रह्मणस्कवे ॥३०॥ यो नो॑ अग्ने दु॒रेव॒ आ मर्तो॑ व॒धाय॒ दाश॑ति । तस्मा॑न्नः पा॒ह्यंह॑सः ॥३१॥ त्वं तं दे॑व जि॒ह्वया॒ परि॑ बाधस्व दु॒ष्कृत॑म् । मर्तो॒ यो नो॒ जिघां॑सति ॥३२॥ भ॒रद्वा॑जाय स॒प्रथ॒: शर्म॑ यच्छ सहन्त्य । अग्ने॒ वरे॑ण्यं॒ वसु॑ ॥३३॥ अ॒ग्निर्वृ॒त्राणि॑ जङ्घनद् द्रविण॒स्युर्वि॑प॒न्यया॑ । समि॑द्धः शु॒क्र आहु॑तः ॥३४॥ गर्भे॑ मा॒तुः पि॒तुष्पि॒ता वि॑दिद्युता॒नो अ॒क्षरे॑ । सीद॑न्नृ॒तस्य॒ योनि॒मा ॥३५॥ ब्रह्म॑ प्र॒जाव॒दा भ॑र॒ जात॑वेदो॒ विच॑र्षणे । अग्ने॒ यद् दी॒दय॑द् दि॒वि ॥३६॥ उप॑ त्वा र॒ण्वसं॑दृशं॒ प्रय॑स्वन्तः सहस्कृत । अग्ने॑ ससृ॒ज्महे॒ गिर॑: ॥३७॥ उप॑ च्छा॒यामि॑व॒ घृणे॒रग॑न्म॒ शर्म॑ ते व॒यम् । अग्ने॒ हिर॑ण्यसंदृशः ॥३८॥ य उ॒ग्र इ॑व शर्य॒हा ति॒ग्मशृ॑ङ्गो॒ न वंस॑गः । अग्ने॒ पुरो॑ रु॒रोजि॑थ ॥३९॥ आ यं हस्ते॒ न खा॒दिनं॒ शिशुं॑ जा॒तं न बिभ्र॑ति । वि॒शाम॒ग्निं स्व॑ध्व॒रं ॥४०॥ प्र दे॒वं दे॒ववी॑तये॒ भर॑ता वसु॒वित्त॑मम् । आ स्वे योनौ॒ नि षी॑दतु ॥४१॥ आ जा॒तं जा॒तवे॑दसि प्रि॒यं शि॑शी॒ताति॑थिम् । स्यो॒न आ गृ॒हप॑तिम् ॥४२॥ अग्ने॑ यु॒क्ष्वा हि ये तवाऽश्वा॑सो देव सा॒धव॑: । अरं॒ वह॑न्ति म॒न्यवे॑ ॥४३॥ अच्छा॑ नो या॒ह्या व॑हा॒ऽभि प्रयां॑सि वी॒तये॑ । आ दे॒वान् त्सो॒म॑पीतये ॥४४॥ उद॑ग्ने भारत द्यु॒मदज॑स्रेण॒ दवि॑द्युतत् । शोचा॒ वि भा॑ह्यजर ॥४५॥ वी॒ती यो दे॒वं मर्तो॑ दुव॒स्येद॒ग्निमी॑ळीताध्व॒रे ह॒विष्मा॑न् । होता॑रं सत्य॒यजं॒ रोद॑स्योरुत्ता॒नह॑स्तो॒ नम॒सा वि॑वासेत् ॥४६॥ आ ते॑ अग्न ऋ॒चा ह॒विर्हृ॒दा त॒ष्टं भ॑रामसि । ते ते॑ भवन्तू॒क्षण॑ ऋष॒भासो॑ व॒शा उ॒त ॥४७॥ अ॒ग्निं दे॒वासो॑ अग्रि॒यमि॒न्धते॑ वृत्र॒हन्त॑मम् । येना॒ वसू॒न्याभृ॑ता तृ॒ळ्हा रक्षां॑सि वा॒जिना॑ ॥४८॥
— Ṛgveda Maṇḍala 6 · Sūkta 16 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷