🪷 Ṛgveda 5.36

Pañcama-Maṇḍala · Sūkta 36

६ प्रभूवसुराङ्गिरसः। इन्द्रः । त्रिष्टुप्, ३जगती। स आ ग॑म॒दिन्द्रो॒ यो वसू॑नां॒ चिके॑त॒द् दातुं॒ दाम॑नो रयी॒णाम् । ध॒न्व॒च॒रो न वंस॑गस्तृषा॒णश्च॑कमा॒नः पि॑बतु दु॒ग्धमं॒शुम् ॥१॥ आ ते॒ हनू॑ हरिवः शूर॒ शिप्रे॒ रुह॒त् सोमो॒ न पर्व॑तस्य पृ॒ष्ठे । अनु॑ त्वा राज॒न्नर्व॑तो॒ न हि॒न्वन् गी॒र्भिर्म॑देम पुरुहूत॒ विश्वे॑ ॥२॥ च॒क्रं न वृ॒त्तं पु॑रुहूत वेपते॒ मनो॑ भि॒या मे॒ अम॑ते॒रिद॑द्रिवः । रथा॒दधि॑ त्वा जरि॒ता स॑दावृध कु॒विन्नु स्तो॑षन्मघवन् पुरू॒वसु॑: ॥३॥ ए॒ष ग्रावे॑व जरि॒ता त॑ इ॒न्द्रेय॑र्ति॒ वाचं॑ बृ॒हदा॑शुषा॒णः । प्र स॒व्येन॑ मघव॒न् यंसि॑ रा॒यः प्र द॑क्षि॒णिद्ध॑रिवो॒ मा वि वे॑नः ॥४॥ वृषा॑ त्वा॒ वृष॑णं वर्धतु॒ द्यौर्वृषा॒ वृष॑भ्यां वहसे॒ हरि॑भ्याम् । स नो॒ वृषा॒ वृष॑रथः सुशिप्र॒ वृष॑क्रतो॒ वृषा॑ वज्रि॒न् भरे॑ धाः ॥५॥ यो रोहि॑तौ वा॒जिनौ॑ वा॒जिनी॑वान् त्रि॒भिः श॒तैः सच॑माना॒वदि॑ष्ट । यूने॒ सम॑स्मै क्षि॒तयो॑ नमन्तां श्रु॒तर॑थाय मरुतो दुवो॒या ॥६॥
— Ṛgveda Maṇḍala 5 · Sūkta 36 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷