🪷 Ṛgveda 5.37

Pañcama-Maṇḍala · Sūkta 37

५ भौमोऽत्रिः। इन्द्रः। त्रिष्टुप्। सं भा॒नुना॑ यतते॒ सूर्य॑स्या॒ऽऽजुह्वा॑नो घृ॒तपृ॑ष्ठ॒: स्वञ्चा॑: । तस्मा॒ अमृ॑ध्रा उ॒षसो॒ व्यु॑च्छा॒न् य इन्द्रा॑य सु॒नवा॒मेत्याह॑ ॥ १॥ समि॑द्धाग्निर्वनवत् स्ती॒र्णब॑र्हिर्यु॒क्तग्रा॑वा सु॒तसो॑मो जराते । ग्रावा॑णो॒ यस्ये॑षि॒रं वद॒न्त्यय॑दध्व॒र्युर्ह॒विषाव॒ सिन्धु॑म् ॥२॥ व॒धूरि॒यं पति॑मि॒च्छन्त्ये॑ति॒ य ईं॒ वहा॑ते॒ महि॑षीमिषि॒राम् । आस्य॑ श्रवस्या॒द् रथ॒ आ च॑ घोषात् पु॒रू स॒हस्रा॒ परि॑ वर्तयाते ॥३॥ न स राजा॑ व्यथते॒ यस्मि॒न्निन्द्र॑स्ती॒व्रं सोमं॒ पिब॑ति॒ गोस॑खायम् । आ स॑त्व॒नैरज॑ति॒ हन्ति॑ वृ॒त्रं क्षेति॑ क्षि॒तीः सु॒भगो॒ नाम॒ पुष्य॑न् ॥४॥ पुष्या॒त् क्षेमे॑ अ॒भि योगे॑ भवात्यु॒भे वृतौ॑ संय॒ती सं ज॑याति । प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वाति॒ य इन्द्रा॑य सु॒तसो॑मो॒ ददा॑शत् ॥५॥
— Ṛgveda Maṇḍala 5 · Sūkta 37 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷