🪷 Ṛgveda 5.19

Pañcama-Maṇḍala · Sūkta 19

५ वव्रिरात्रेयः। अग्निः। गायत्री, ३-४ अनुष्टुप्, ५ विराड् रूपा। अ॒भ्य॑व॒स्थाः प्र जा॑यन्ते॒ प्र व॒व्रेर्व॒व्रिश्चि॑केत । उ॒पस्थे॑ मा॒तुर्वि च॑ष्टे ॥१॥ जु॒हु॒रे वि चि॒तय॒न्तोऽनि॑मिषं नृ॒म्णं पा॑न्ति । आ दृ॒ळहां पुरं॑ विविशुः ॥२॥ आ श्वै॑त्रे॒यस्य॑ ज॒न्तवो॑ द्यु॒मद् व॑र्धन्त कृ॒ष्टय॑: । नि॒ष्कग्री॑वो बृ॒हदु॑क्थ ए॒ना मध्वा॒ न वा॑ज॒युः ॥३॥ प्रि॒यं दु॒ग्धं न काम्य॒मजा॑मि जा॒म्योः सचा॑ । घ॒र्मो न वाज॑जठ॒रोऽद॑ब्ध॒: शश्व॑तो॒ दभ॑: ॥४॥ क्रीळ॑न् नो रश्म॒ आ भु॑व॒: सं भस्म॑ना वा॒युना॒ वेवि॑दानः । ता अ॑स्य सन् धृ॒षजो॒ न ति॒ग्माः सुसं॑शिता व॒क्ष्यो॑ वक्षणे॒स्थाः ॥५॥
— Ṛgveda Maṇḍala 5 · Sūkta 19 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷